Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 86
________________ प्रत्यक्षखण्डे मङ्गलवादः 75 आधुनिकानामपि शिष्टत्वेन व्यवह्रियमाणत्वाच्च / तथा च स्मृतिःयस्मिन् देशे य आचार: पारम्पर्यक्रमागतः / श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते // सर्वज्ञस्य मङ्गलाचारे मानाभावाच्च / मन्वादिप्रणीतस्मृतौ मङ्गलं दृश्यत इति चेत् , तन्त्र, स्मृतिकर्तुरसर्वज्ञत्वेऽपि वेदादर्थं प्रतीत्व स्मृतिप्रणयनसम्भवात् / यत्तु शिष्टाचारत्वेन कर्तव्यतैवानुमीयतां किं वेदेनेति वक्ष्यामः / इति श्रीमहोपाध्यायश्रीमद्गङ्गेश्वरविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे मङ्गलवादः समाप्तः // निषिद्धत्वम् , अलौकिकत्वमपि वाच्यम् / तेन तत्कृतभोजनादौ न व्यभिचारः। स एवेति / व्याप्यव्याप्यस्य सुतरां व्याप्यत्वादिति भावः / / ननु तथाप्यनुमानोपयोगि मास्तु, व्यवहारोपयोगि तु स्यादित्यत आहआधुनिकानामपीति / 'सदाचारः' यथोक्तमविगीततदाचारादेव वेदानुमानम् / तत्र दोषान्तरमाह-सर्वज्ञस्येति / तत्त्वज्ञस्येत्यर्थः / _ अत्र शङ्कते–'मन्वादि' स्मृताविति / भारतपुराणादावित्यर्थः। भारतादिकर्तर्यथोक्तशिष्टत्वमेव नास्तीत्याह-स्मृतिकर्तुरिति / भारतादिकर्त्तरित्यर्थः। 'असर्वज्ञत्वेऽपि' अतत्त्वज्ञत्वेऽपि / 'शिष्टाचारत्वेन' समाप्त्युद्देश्यकशिष्टाचारविषयत्वेन, शिष्टत्वं भ्रमाजन्यत्वम् / कर्त्तव्यतैवानुमीयतामिति इष्टसाधनत्वे सति कृतिसाध्यतामनुमायैव सर्वे मङ्गले प्रवर्तन्ताम् . किं मङ्गले तादृशकृतिसाध्यताबोधकवेदेनेत्यर्थः। तत्र वक्ष्यामः-अलौकिकत्वे सति शिष्टाचारविषयत्वस्य वेदबोधितत्वव्याप्यतया अलौकिके मङ्गले शिष्टाचारविषयत्वस्य च व्यापकीभूतवेदबोधितत्वं विना अनुपपन्नत्वाद् वेदस्याप्यावश्यकत्वम् / न च तादृशव्याप्तौ मानाभावः, अबाधितसर्वजनानुभवसिद्धत्वादित्युच्छन्नप्रच्छन्नवादे शब्दखण्डे वक्ष्याम इत्यर्थः। इति श्रीमथुरानाथतर्कवागीशविरचितं तत्त्वचिन्तामणौ प्रत्यक्षखण्डे मङ्गलवादरहस्यं सम्पूर्णम् //

Loading...

Page Navigation
1 ... 84 85 86 87 88