Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 85
________________ 74 तत्त्वचिन्तामणौ सरहस्ये ___ यत्त रागद्वेषहीनः शिष्टः, स च सर्वज्ञत्वान्मन्वादिरेव, अविगीततदाचारादेव वेदानुमानमिति / तन, एवं हि मन्वाद्याचारादर्शिनामाधुनिकानां मङ्गले प्रवृत्तिनं स्यात्, आधुनिकानामाचारेण मन्वाद्याचारमनुमाय तेन च वेदमनुमाय पालः प्रवर्तत इति चेत् , तर्हि यादृशाचारेण मन्वाद्याचारानुमानं स एव वेदानुमापकोऽस्तु, किमनुमितानुमानेन ? 'अत एवेति / वेदानिषिद्धकर्तृत्वेऽपि, वेदनिषिद्धाकर्तृत्वेऽपि / कस्यचिल्लक्षणं दूषयति-पापजनकत्वेति / पापजनकत्वज्ञानाभावविशिष्टवेदनिषिद्धकर्तृत्वाभाववत्त्वमित्यथः / बौद्धस्य तु वेदनिषिद्धकर्मणि पापजनकत्वज्ञानमेव नास्तीति भावः। __ अत्र रागौत्कट्यात् पापजनकत्वज्ञानसत्त्वेऽपि वेदनिषिद्धकर्तरि शिष्टेsव्याप्तिवारणाय विशिष्टान्तं कर्मत्वविशेषणम् , वैशिष्ट्यञ्चैककालावच्छेदेनैकात्मवृत्तित्वम् / विशेषणाभाववत्त्वमात्रोक्तौ पापजनकत्वज्ञानशून्ये वेदानिषिद्धकर्तरि शिष्टेऽव्याप्तिः, अतो विशिष्टाभावानुधावनम् / मूर्खतैर्थिकेऽव्याप्तिमाह-तैर्थिकस्यापीति / शिष्टस्यापीत्यर्थः। रागद्वेषहीन इति / आत्यन्तिकरागद्वेषध्वंसवत्त्वमित्यर्थः / यथाश्रुते घटादावतिव्याप्तः। पाषण्डेऽतिव्याप्तिवारणायात्यन्तिकत्वं ध्वंस विशेषणम् , तच्च मिथ्याज्ञानप्रागभावविशिष्टभिन्नत्वं मिथ्याज्ञानविशिष्टभिन्नत्वं वा, वैशिष्ट्यञ्चैककालावच्छेदेनैकात्मवृत्तित्वम् / आत्यन्तिकध्वंसमात्रोक्तौ घटादावतिव्याप्तितादवस्थ्यम् , अतो रागद्वेषयोवैकल्पिकमुपादानम् , तथा च लक्षण द्वये तात्पर्यम् / मन्वादेस्तथात्वे हेतुः-सर्वज्ञत्वादिति / तत्त्वज्ञत्वादित्यर्थः। तदाचारेति / तादृशशिष्टत्वविशिष्टाचारेत्यर्थः। वैशिष्ट्यश्चैककालावच्छेदेनैकात्मवृत्तित्वम् , तेन बाल्यदशायां तादृशशिष्टेन कृते चैत्यवन्दनादौ न व्यभिचारः। न वा तादृशशिष्टत्वानुत्पत्तिदशायां भ्रान्त्या स्वर्गफलान्यफलमुद्दिश्य तादृश शिष्टेन कृते तत्फलजनकत्वेन वेदबोधिते यागादौ व्यभिचारः। कर्मक्षयार्थ तादृशशिष्टेन कृते निषिद्धकर्मणि व्यभिचारवारणायाविगीतत्वमाचारविशेषणम् , तच्च वेदा१. निरुक्तवेदप्रामाण्याभ्युपगमवत्त्वस्य विशेषणत्वेनोपादानादेव / लाघवादाह-मिथ्याज्ञानविशिष्टेति / आत्यन्तिकरागध्वंसवत्त्वमात्यन्तिकद्वषध्वंसवत्त्वं चेति लक्षणद्वय इत्यर्थः। ईश्वरातिरिक्तस्य सर्वज्ञत्वमानाभावेन सर्वज्ञत्वादित्यस्य तत्त्वज्ञत्वादित्यर्थ आवश्यकः। ताशयागाचारेण स्वर्गफलान्यफल कयागबोधकवेदस्याननुमानेन व्यभिचार इत्यर्थः / तादृशनिषिद्धकर्मणापि स्वस्मिन् कर्मक्षयजनकताबोधकवेदश्याननुमानेन व्यभिचार इत्याशयः /

Loading...

Page Navigation
1 ... 83 84 85 86 87 88