Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 83
________________ 72 त्त्वान्नातिप्रसङ्ग इति चेत्, न; यस्य पुरुषस्य शिष्टतोत्तरं बौद्धता,तदनन्तरं पुनः शिष्टता च, तत्र पूर्वशिष्टतादशायामव्याप्तिः, मध्यवर्तिबौद्धताकालीनविरोधिनिश्चयव्यक्तिध्वंसस्यापि तादृशयावदभावान्तर्गतस्य तदानीमभावात् / तदुत्तरशिष्टतादशायामव्याप्तिः, मध्यवर्तिबौद्धताकालीनविरोधनिश्चयव्यक्तिप्रागभावस्यापि तादृशयावदभावान्तर्गतस्य तदानीमसत्त्वादिति / मैवम् ; यावतीस्तादृशनिश्चयव्यक्तीः प्रातिस्विकरूपेणोपादाय तत्तन्निश्चयव्यक्तिसमानाधिकरणत्वे सति तत्तद्व्यक्तिसमानकालीना यावन्तस्तत्तद्व्यक्तिविरोधिनिश्चयाभावास्तद्वत्त्वे सति तत्तद्व्यक्त्यपूर्वकालावच्छिन्नत्वं शिष्टत्वमिति विवक्षितत्वात् / पुरुषान्तरवृत्तिविरोधिनिश्चयप्रागभावमादायासम्भववारणाय समानाधिकरणत्वोपादानम् / . स्वीयपर्वजन्मीयविरोधिनिश्चयप्रागभावमादायासम्भववारणाय समानकालीनत्वोपादानम् / वेदा न प्रमाणमिति निश्चयनाशोत्तरं वेदाः प्रमाणमिति निश्चयानुत्पादकाले शिष्टतावारणाय विशेष्यदलम् / यदि च वेदाप्रामाण्याभ्युपगमाव्यवहितोत्तरक्षणे तत्प्रामाण्याभ्युपगमः, ततस्तृतीयक्षणे तदप्रामाण्याभ्युपगमव्यक्तिनाशः सम्भाव्यते, तदा तत्समानकालीनत्वं, तदुत्पत्तिसमानकालीनत्वं वा वाच्यम् ; अभावो वा अनादिर्वाच्यः, अन्यथा तत्र तादृशनाशस्य यावदन्तर्गतस्य वेदप्रामाण्याभ्युपगमव्यक्त्युत्पत्तिकालेऽसत्त्वाव्याप्त्यापत्तेः। न च यस्यैतजन्मनि वेदप्रामाण्याप्रामाण्ययोरुभयोरेवानभ्युपगमः, पूर्वजन्मनि तु प्रामाण्यमात्रमभ्युपेत्यैव मरणं, तस्यैतज्जन्मनि शिष्टत्वापत्तिरिति वाच्यम् , इष्टापत्तेः। एवं यस्यैतज्जन्मनि प्रामाण्याप्रामाण्ययोरुभयोरेवानभ्युपगमः पूर्वजन्मनि चाप्रामाण्यमभ्युपेत्यैव मरणं, तस्यैतज्जन्मन्यप्यशिष्टत्वे इष्टापत्तिः / जन्मान्तरीणप्रामाण्याभ्युपगमानन्तरकाकादिशरीरावच्छिन्नवारणाय परं प्रकृष्टचैतन्यावच्छेदकावच्छिन्नत्वेनापि विशेष्यम् / यद्वा तत्तद्व्यक्त्यपूर्वकालावच्छिन्नत्वपदेन तत्तव्यक्त्यवच्छेदकजन्मान्तरावच्छिन्नत्वविशिष्टतत्तव्यक्त्यपूर्वकालावच्छिन्नत्वं विवक्षितम्, उभयानभ्युपगमजन्मनि शिष्टाशिष्टबहिर्भूत एव / एवञ्च यथोक्तकाकादिशरीरावच्छिन्नेऽपि नातिव्याप्तिः। न चैवं तत्तन्निश्चयव्यक्तेः प्रातिस्विकरूपेणोपादानादननुगम इति वाच्यं, शिष्टपदस्य नानार्थत्वेनाननुगमस्यादोषत्वात् / अस्तु वा तावदभावकूटाभावशून्यत्वं तावदन्यतमधर्मवत्त्वं वा तत्त्वम्। . केचित्तु तादृशवेदप्रामाण्याभ्युपगमजन्यसंस्कारवत्त्वं शिष्टत्वं,तदभ्युपगमोत्पत्तिक्षणे च न शिष्टः स च संस्कारो विरोध्यभ्युपगमनाश्य इति शिष्टवोत्तरं बौद्धतादशायां

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88