Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
Catalog link: https://jainqq.org/explore/032741/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ म. म. शिवकुमारशास्त्रि-ग्रन्थमाला (द्वितीयं पुष्पम् ) म० म० मथुरानाथतर्कवागीशप्रणीतया तत्त्वचिन्तामणिरहस्याख्यया व्याख्यया संवलितः तत्त्वचिन्तामणिः अस्कृत-नि निन्द-सी विद्यालया उतम में गोपाय सम्पूर्णानन्द संस्कृत-विश्वविद्यालयः Page #2 -------------------------------------------------------------------------- ________________ MAM. SIVAKUMARASASTRE-GRANTHAMREA INITIA DUNLUME MILION III IIIII ( Vol. 2) General Editor DR. BHAGIRATHA PRASADA TRIPATHI, VAGISA SASTRI' Director, Research Institute, Sampurnanand Sanskrit Vishvavidyalaya, Varanasi enhet श्रुतम् TATTVACINTAMANI ( With the Commentary MATHURI) by M.M. MATHURANATHA TARKAVAGISA Edited by Pt. BADARINATHA SUKLA Ex.Head of the Nyaya and Vaisesika Department. Sampurnanand Sanskrit Vishvavidyalaya VARANASI 1976 Page #3 -------------------------------------------------------------------------- ________________ Published by Director, Research Institute, Sampurnanand Sanskrit Vishvavidyala ya Varanasi-221002. (U. P.) Available AtPublication Section Sampurnanand Sanskrit Vishvavidyala ya Varanasi-221002. ( U. P.) First Edition : 1100 Copies Price Rs. 15 - Printed by Ghanashyama Upadhyaya Manager, Sampurnanand Sanskrit Vishvavidyalaya Press, Varanasi-221002. (U.P.) Page #4 -------------------------------------------------------------------------- ________________ म०म० शिवकुमारशास्त्रि-ग्रन्थमाला (द्वितीयं पुष्पम् ) प्रधानसम्पादकः डॉ० भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री' अनुसन्धानसंस्थाननिदेशकः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः सकत-TOR पवावधा तट-सस गाणय म० म० मथुरानाथतर्कवागीश विरचितया तत्त्वचिन्तामणिरहस्याख्यया व्याख्यया संवलितः तत्त्वचिन्तामणिः सम्पादकः पण्डितबदरीनाथशुक्लः न्यायवैशेषिकविभागाध्यक्षचरः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः - 2033 तमे वैक्रमाब्दे . वाराणस्याम 1898 तमे शकाब्दे 1976 तमे स्रेस्ताब्दे Page #5 -------------------------------------------------------------------------- ________________ प्रकाशकः निदेशकः अनुसन्धानसंस्थानस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये प्राप्तिस्थानम्प्रकाशनविभागः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी-२२१००२ ( उ. प्र.) प्रथमं संस्करणम् : 1100 प्रतिरूपाणि मूल्यम्-१५= 00 रूप्यकाणि मुद्रकः-- घनश्याम उपाध्यायः, प्रबन्धकः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयमुद्रणालयस्य वाराणसी-२२१००२ ( उ.प्र.) Page #6 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् चतुर्दशविद्यासु न्यायविद्याऽन्यतमा दर्शनप्रवेशद्वारभूता सर्वासां विद्यानां चोपकारिकेति जानन्त्येव तत्त्वज्ञा मनीषिणः। उपनिषत्सु प्रसिद्धाऽऽत्मविद्या परत आन्वीक्षिकीत्यभिधानेन प्रथामगात् / किन्तु तत्रात्मविद्यया सह हेतुयौंगपद्येन यदा समन्वेति, तदैव साऽऽन्वीक्षिकी जायत इत्यान्वीक्षिक्यामात्मविद्या हेतुश्चेति तत्त्वद्वयम् / ऋते हेतुभ्य आन्वीक्षिकी खल्वात्मविद्यामात्रतयाऽवशिष्यते / तदुक्तं न्यायभाष्ये वात्स्यायनेन—'इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयम् आन्वीक्षिकी न्यायविद्या / तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः / तेषां पृथगवचनमन्तरेणाध्यात्मविद्यामात्रमियं स्याद् यथोपनिषदः' इति / अतो न्यायशास्त्रीयषोडशपदार्थानां ज्ञानेन मोक्षः समाश्रूयते न्यायनिकाये। गोतममुनेायसूत्ररचना खीस्ताब्दात् प्राग मन्यते तत्त्वविद्भिः। खीस्ताब्दीयदशमशताब्दीभवस्योदयनस्य कालं यावन्यायसूत्रं समजनि भाष्यवार्तिकटीकोपटीकामण्डितम् / न्यायवार्तिकतात्पर्यटीकाकारो वाचस्पतिमिश्री मिथिलामहीमण्डनः प्रसिद्धो भूमण्डले सर्वतन्त्रस्वतन्त्रोपाधिविभूषितः / श्रीमानुदयनोऽपि तमेव वसुन्धराभागमलञ्चक्रे / गोतमसूत्रप्रणयनसमनन्तरमेव बौद्धन्यायाभयापि समुद्भासितानि दिगन्तराणि / न्यायभाष्यं प्रत्यादिष्टवतो दिग्नागाचार्यस्य प्रत्याख्यानमुद्द्योतकरेण कृतम् / प्रभविष्णुना बौद्धनैयायिकेन धर्मकीर्तिना निराकृतो भारद्वाज उद्द्योतकरः। वाचस्पतिमिश्रेण बौद्धनैयायिको धर्मकीर्तिनिरसितः / ज्ञानश्रीमित्रेण बौद्धपण्डितेनास्य खण्डनं कृतम् / ज्ञानश्रीमित्रप्रतिष्ठापितबौद्धमतनिराकृतावुदयनाचार्येण समर्जिता महती प्रतिष्ठा / यद्यपीतः परमपि बौद्धनैयायिकानां परम्परायां पञ्चषा ग्रन्थकारा दृश्यन्ते, तथापि वृक्णमूलो बौद्धन्यायपादपो गतासुरेवाभूत् स्थूणारूपतामादधानः।। - यथा महायुद्धानन्तरं / सर्वत्र महत् परिवर्तमं / नैसर्गिकमावश्यकं च मन्यते समैः, तथैव सहस्त्राब्दीच्यापिनोऽस्माद् वागायोधनतः परं न्यायनिकायेऽपि महीयान् व्यतिहारः समापतितः / श्रीमदुदयनं यावत् सूत्रव्याख्यानपद्धतिं हित्वा स्वातन्त्र्येण, न्यायविषयकग्रन्थरचनापरिपाटी नोपक्रान्ता / ताहगनूनकविचारसमावेशः सूत्रानुसारिणां व्याख्यानानामन्तर्बभूव / ततः परं सूत्रानुसारिकाकानमु शित्वा निरवग्रहं प्रकरणतो ग्रन्थरचना प्रारब्धा / महती संक्रान्तिवेलाऽसौ / तत्र सर्वतः प्रथमं * सर्वज्ञः पूर्वप्रचलितपरमराभङ्गसौभाग्यभागभूद् न्यायसाराख्यं विरचय्य ग्रन्थरत्नम् / न्यायनिकाये सूत्रानुसारिव्याख्यानपरिवर्जनपुरस्सरं Page #7 -------------------------------------------------------------------------- ________________ [ आ ] शास्त्रांशप्रतिपादकप्रकरणग्रन्थादिप्रणयनेनावतीर्णा कापि भव्या नव्यता / इह षोडशपदार्थेध्वन्यतमस्य प्रमाणपदार्थस्य तथोपपादनं क्रियते यदवशिष्टाः पञ्चदशपदार्थास्तदन्तराविशन्ति भवन्ति च तत्कुक्षिगताः। उदयनात् परतः भासर्वज्ञाच्च पूर्वतो मिथिलायां न्यायशास्त्रमवलम्ब्य ग्रन्थप्रणयने यद्यपि शून्यतैव परिलक्ष्यते, तथापि तत्राध्ययनाध्यापनादिक्षेत्रेऽनितरसाधारणो व्यतिहारः समजायतेति भासर्वज्ञस्य शताब्दद्वयानन्तरं वाचस्पत्युदयनभूमौ द्वादशे खीस्ताब्दे नव्यन्यायद्यमणिरवतीणों महामहोपाध्यायो गङ्गशोपाध्यायः। सविताऽसौ नव्यन्यायशास्त्रस्य चिन्तामणिमिव तत्त्वचिन्तामणिनामक ग्रन्थमरीरचत् / सत्वरमेव समन्ततो व्याप्ताश्चिन्तामणिप्रकाशदीधितयः / तस्यालोकेन समालोकितानि सर्वाण्येव शास्त्राणि / पाणिनीयव्याकरणे सूत्रानुसारिणीं व्याख्यां हित्वा पूर्व प्रकरणशः पश्चाच्च स्वातन्त्र्येण ग्रन्थाः प्रणेतुमुपक्रान्ताः / नत्यन्यायवद् नव्यव्याकरणाध्यथनाध्यापनपरम्परा समारब्धा / इदानीं नव्यन्यायाध्ययनमन्तरा शास्त्रान्तरे गतिर्नाङ्गीक्रियते पण्डितप्रकाण्डैः। विश्वस्मिन् कस्यचन दर्शनग्रन्थस्य न तावत्यो विस्तृताश्च व्याख्या लभ्यन्ते यावत्यश्चिन्तामणेः। कतिचित्' 'तु मूलग्रन्थादपि सन्त्यत्यर्थं दुर्योधाः / इमाः सर्वा व्याख्याकारद्वयमतिरिच्य मैथिलैरेव लब्धवर्णविरचिताः। इत्थं तत्त्वचिन्तामणिः प्रसूतः पोषितश्च मिथिलायाम् , वर्धितस्तु वङ्गदेशे, श्रीनन्दनयनानन्ददो देवकीनन्दनो यथा प्रसूतो मथुरायाम् , पोषितो गोकुले, क्रीडितश्च वृन्दावने / चतुःखण्डात्मकस्यास्य ग्रन्थस्य साम्प्रतं किमपि संस्करणं नास्ति समुपलब्धम् इति धिया विश्वविद्यालयेनानेन संकल्पितमासीदस्य योजनाबद्धं प्रकाशनं मथुरानाथतर्कवागीशकृतटीकाविराजितम् एकोनषष्ट्युत्तरैकोनविंशे खीस्ताब्दे नैयायिकशिरोमणेः पण्डितप्रवरस्य श्रीवदरीनाथशुक्लमहोदयस्य सम्पादकत्वे / किन्तु दैवदुर्विपाकाद् योजना सा यथाप्रस्तावं नाङ्गीकृताऽभूत् / सम्प्रति सप्तहायनानन्तरं यावन्मुद्रितभागस्य मङ्गलवादान्तस्य प्रकाशनं विश्वविद्यालयेन निर्णीतम् / मङ्गलवादान्तस्तत्त्वचिन्तामणिश्चतसृभिष्टीकाभिष्टिप्पण्यैकया च संवलितः श्रीसूर्यनारायणशुक्लमहोदयसम्पादितो वाराणसेयराजकीयसंस्कृतमहाविद्यालयेनैकोनचत्वारिंशदुत्तरैकोनविंशे खीस्ताब्दे प्रकाशमानीतोऽभूत् / स च बहोः कालान्मुद्रणातीतो जातः। एतर्हि प्रकाशमानीयमानेन ग्रन्थरत्नेनानेन जिज्ञासुजना विद्वज्जनाश्व नूनमुपकृताः प्रीणिताश्च भवेयुरिति मन्यते / गङ्गादशहरापर्वणि.. . भागीरथप्रसादविपाठी 'वागीशः शास्त्री, 2033 बैक्रमाब्दे : * अनुसन्धानसंस्थाननिदेशकः 7 / 6 / 76 सम्पूर्णानन्दसंस्कृतविश्वविद्यालये Page #8 -------------------------------------------------------------------------- ________________ उपोद्घातः अपरिशीलितपूर्वया शैल्या सुसम्पाद्य सम्मुद्रय च प्रकाशयितुमभिमतोऽयं तत्त्वचिन्तामणिग्रन्थो नव्यन्यायशास्त्रस्य समग्रविस्ताराणामुपजीव्यभूतो नव्यन्यायस्य परमोत्कृष्टः प्रथमो ग्रन्थः। अस्य प्रणयनं न्यायविद्यानामाविर्भावभूमौ मिथिलायां प्रादुभू तेन न्यायाम्भोजपतङ्गेन मीमांसापारहश्वना विद्वज्जनजेगीयमानसर्वशास्त्रवैदुष्ययशोराशिना श्रीमता गङ्गशोपाध्यावेन द्वादशशततमे खिष्टाब्देऽकारि, महिमा चेदमीयस्तेनैवयतो मणेः पण्डितमण्डन क्रिया प्रचण्डपाखण्डतमस्तिर स्क्रिया। विपक्षपक्षे ना विचारमतुरी .... न च स्वसिद्धान्तक्चोदरिद्रता // इत्येवं ब्रुवता विदुषां समक्षं निस्सङ्कोचमुदघोषि, प्राकाशि चास्य विशिष्टा विस्तृताश्च प्रत्यक्षव्याख्या विरचय्य श्रीपक्षधरमिश्र-श्रीवासुदेवसार्वभौम-श्रीरघुनाथ-श्रीमथुरानाथसहशैर्महानैयायिकैः, उपाबृहि च श्रीरघुनाथनिर्मितदीधित्याश्रयेणैतदीयार्थगभीरा व्याख्या विधाय जगदीश-गदाधरप्रभृतिभिधुरन्धरैनवायिकः, अस्यानेकभागेषु क्रोडपत्राणि प्रणीय गोलोकनाथ-काली कर-धर्मदत्त (बच्चा ) झाप्रमुखैः परिष्कारपद्धतर्महापण्डितैश्च / ... तदेवं सकलदर्शनशास्त्रसरोजसहस्रांशप्रायस्य महतो ग्रन्थस्य वक्ष्यमाणन्या रीत्या पुनः प्रकाशनं वाराणसीस्थेन संस्कृतविश्वविद्यालयेन समकल्पि समुपन्यासि च तत्सम्पादनमारो मम कशस्कन्धयोरिति तदादेशमनुवर्तमानेन मया तत्सम्पादनयोजना या सुचिरमनुचिन्त्य पूर्व प्रास्तावि सा यथापूर्वमत्रोपन्यस्यते। ...तत्त्वचिन्तामणिग्रन्थविषये सर्वसम्मतं तथ्यमिदमस्ति यदस्य शैल्या, भाषया, विचारप्रणाल्या च संस्कृतवाङ्मयस्य प्रायः सम्पूर्णशाखानां परवर्तिनो ग्रन्था भृशं प्रभाविताः, अत एतस्यैतदुपजीविनामन्यग्रन्थानां चाभ्ययने शैथिल्यमुपंगते एतत्परवर्तिनां संस्कृतग्रन्थानां दुर्बोधताऽपरिहार्या, तत्फलतया व्याकरणस्य, साहित्यस्य, वेदान्तप्रभृतिदर्शनानां चैको महनीयो महान् शानराशिः शिक्षाजगतो नूनमेव विच्छिन्नसम्बन्धो भविता, किन्तु निरतिशयक्लेशस्थानमेतद् यदीदशस्यानेकशास्त्राणां मर्मग्रन्थिमेदनदक्षस्यानितरसाधारणीमुपयोगितां दधतोऽपि अन्मसवारणार्म दौर्लभ्यमापतितम् / अतोऽस्य ग्रन्धरत्नस्याभिनवं प्रकाशनं परमावश्यकम् / बचानका रीत्या काम्यं यत् 1. मूलबन्धस्व तत्त्वचिस्वामणेः मथुरानाथनिर्मितरहस्यटीकया सह मुद्रणं भवेत् / येषु भागेषु सा टीका नोपलभ्येत, तेषु भागेषु पक्षधरमिश्रप्रणीतालोकसदृशप्रभृतिटीका. Page #9 -------------------------------------------------------------------------- ________________ ( ख ) सूपयुक्ततमायाष्टीकायाः सन्निवेशः क्रियेत, येषु च भागेषु कापि टीका न प्राप्येत तेषु भागेषु नवीना टीका लिख्येत / 2. मूलग्रन्थस्य माथुर्याश्च विषमलान पानियः स्पष्टाष्टिप्पण्यः प्रणीयेरन् / 3. तत्त्वचिन्तामणिग्रन्थस्य यावत्यः प्राचीनाः प्रामाणिक्यष्टीकाः प्राप्यन्ते, ग्रन्थान्ते तासां सर्वासां कालक्रमेण सन्निवेशः क्रियेत / / 4. तत्त्वचिन्तामणेर्याष्टीका नोपलभ्यन्ते, किन्तु यत्र तत्रांशत उद्धताश्चर्चिताश्च सन्ति तासां यथोपलभ्यपरिचयेन साधं ग्रन्थान्ते समुल्लेखो विधीयत / 5. तत्त्वचिन्तामणेः प्रत्यक्षटीकाग्रन्थेषु याः प्रामाणिक्यः, प्रतिष्ठिताश्च जागदीशीगादाधरीसदृश्यष्टीकाः सन्ति, तासां तद्गतनवीनविचारोपन्यासपूर्वक ग्रन्थान्ते समुल्लेखो विधीयेत / 6. तत्त्वचिन्तामणिग्रन्थे विभिन्नदर्शनानां ये सिद्धान्ताश्चर्चिता आलोचिताश्च तेषां प्रामाणिकः परिचयो ग्रन्थान्ते सङ्कलितः क्रियेत / 7. तत्त्वचिन्तामणौ प्राप्यमाणानामामाणकानां सूक्तीनां नीतिवाक्यानां च ग्रन्थान्ते पृथक् सङ्ग्रहः क्रियेत / 8. तत्त्वचिन्तामणेविषयाणामेकस्या विवरणात्मकसूच्याः प्रणयमं क्रियेत, यत्रैसत्सम्बद्धानां विषयाणां ग्रन्थानां प्रन्थकाराणां चैतिहासिकः परिचयों मवेत् / ___एतद्योजनानुसारेण तत्त्वचिन्तामणेर्मुद्रणस्य सम्पन्नतायां सन्निदधत्यामेका विस्तृता भूमिका प्रस्तूयेत, यत्र न्यायशास्त्रस्य तदीययोः प्राचीननवीनन्यायधारयोश्चाविकलं वर्णनं भवेत् / ___ कार्यस्यास्योपक्रमः कतिपयवर्षपूर्वमेवाजायत, परमनेकविधप्रत्यूहपारवश्येन कार्यमिद. मुपेक्षितमभूत् / साम्प्रतं तत्कार्यपूर्तये सोत्साहं बद्धादरस्य विश्वविद्यालयस्य वर्तमानकुलपतेः पण्डितश्रीकरुणापतित्रिपाठिमहोदयस्थादेर्शन कार्यमिदं पुनरारब्धम् / कार्यस्यास्य सम्पत्स्यमानतायां विश्वासाधानभावनयाऽधुना केवलं मङ्गलवादान्तो भागोऽनेकत्र मत्प्रणीतटिप्पणीसहितो विदुषां प्रीतये सबहुमान सविनयं च समुपहियमाणो विद्यते / अशास्यते, विद्वज्जनानां शुभकामनया कुलपतेरुत्साहन शासकस्य सहयोगेन च ग्रन्थोऽयं यथासङ्कल्पं विद्वज्जगति यथासमयमवश्य पदमादध्यादिति / ........... ............: . , काश्याम् . .. बदरीनाथशुक्ला .....: अक्षयतृतीया - वायवैशेषिकविभागाध्यक्षः सं० 2033 सम्पूर्णानन्दसंस्कृतविश्वविद्यालये दि० 25-76 Page #10 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका (मालवादः) विषयः मङ्गलाचरणम्, विषयनिर्देशश्च ... मङ्गलस्याभिमतहेतुत्वं न सम्भवतोत्याक्षेपः आचारानुमितश्रुतिर्मङ्गलस्याभिमतहेतुत्वे प्रमाणम् ... व्यभिचारपरिहारः मङ्गलस्यारब्धकर्माङ्गत्वम् अलौकिकं मङ्गलं लौकिके नाङ्गमित्याक्षेरस्य समाधानम् ... विघ्नध्वंसद्वारा मङ्गलस्याङ्गत्वम् ... विघ्नध्वंसस्य द्वारत्वे बाधकमाशय तत्समाधानम् ... स्पयाश्लिष्टेज्याधिकरणविरोधपरिहारः .. अङ्गानां प्रधानविधिविधेयत्वमिति शङ्का तत्समाधानम् यागादिवत् प्रधानदेशकालान्वयस्तदङ्गे मङ्गले स्यादित्याशङ्कायाः परिहारः व्यभिचारान्मङ्गलस्य नाङ्गत्वमिति पूर्वपक्षः .. मङगल प्रधानम् , अदृष्टद्वारा आरब्धकर्मसमाप्तिः फलमिति मतस्योपन्यासः मङ्गलस्याऽऽरब्धनिर्वाहकत्वं विघ्नसंसर्गाभावद्वारा इति मतस्योपन्यासः तत्खण्डनम् मङगलस्य विघ्नध्वंसः फलमिति स्वसिद्धान्तस्योपन्यास: समाप्तिकारणम् समाप्त्यभावे कारणानि मङ्गलत्वस्य परिष्करणम् शिष्टस्य लक्षणम् आचारानुमितश्रुतेर्मङ्गलकर्तव्यताबोधकत्वम् Page #11 -------------------------------------------------------------------------- _ Page #12 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणिः मथुरानाथकृतरहस्य (माथुरी) सहितः प्रत्यक्षखण्डम् मङ्गलवादः गुणातीतोऽपीशस्त्रिगुणसचिवस्त्र्यक्षरमयस्त्रिमूर्तियः सर्गस्थितिविलयकर्माणि तनुते / कृपापारावारः परमगतिरेकत्रिजगतां नमस्तस्मै कस्मैचिदमितमहिम्ने पुरभिदे // 1 // माथुरी न्यायाम्बुधिकृतसेतुं हेतुं श्रीराममखिलसम्पत्तेः / तातं त्रिभुवनगीतं तर्कालङ्कारमादरान्नत्वा // 1 // श्रीमता मथुरानाथतर्कवागीशधीमता। विशदीकृत्य दर्यन्ते प्रत्यक्षमणिफक्किकाः॥२॥ निर्विघ्नं प्रारिप्सिततत्त्वचिन्तामणि'नामग्रन्थसमाप्तिकामनया कृतं महादेवनमस्काररूपं मङ्गलं शिष्यशिक्षार्थमादौ निबध्नाति 'गुणातीत' इति / 'तस्मै नमः' तस्मै कस्मै ? इत्यपेक्षायामाह 'गुणातीत' इति / यः, गुणातीतोऽपि-समवायसम्बन्धेन गुणसामान्याभाववानपि, 'ईशः' अप्रतिहतेच्छः, अप्रतिहतत्वम्-अविसंवादित्वम् / 'अपि:' सर्वत्र विरोधाभाससूचनाय / निर्गुणत्वस्य इच्छाविरोधात् / गुणपदस्य साङ्खयमतसिद्धसत्त्वरजस्तमोलक्षणगुणपरतया हि विरोधपरीहारसम्भवाद् विरोधाभासत्वम् / सत्त्वादयश्च न्यायनये सृष्टिस्थितिप्रलयोत्पादका अष्टभेदा एवेति नाप्रसिद्धिः२ / / 1. विरोधः-असामानाधिकरण्यम् न तु प्रतिबध्यत्वप्रतिबन्धकत्वान्यतरसम्बन्धेन ज्ञान विशिष्टज्ञानविषयत्वं, समानप्रकारकयोरेव ज्ञानयोः प्रतिबध्यप्रतिबन्धकभावेन इच्छात्वावच्छिन्न-गुणत्वावच्छिन्नाभावज्ञानयोस्तदसम्भवात् / अन्यथाऽविशेषव्यतिरिक्तस्य सत्त्वादेायमतेऽसत्त्वेनाप्रसिद्धिः स्यादिति भावः / Page #13 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये अन्वीक्षानयमाकलय्य गुरुभित्विा गुरूणां मतं चिन्तादिव्यविलोचनेन च तयोः सारं विलोक्याखिलम् / यो गुणातीतोऽपि 'त्रिगुणसचिवः' स्वनिष्ठज्ञानेच्छाकृतिसहकारेण कार्यमात्रहेतुः / स्वनिष्ठत्वप्रवेशाद् विरोधः / एवं 'गुणातीतोऽपि' इत्यस्य सर्वत्रान्वयः / 'त्र्यक्षरमयः' त्रयो ज्ञानेच्छाप्रयत्नाः, अक्षराः-अविनाशिनः यत्र, तन्मयः-तदात्मकः / केचित्तु 'त्र्यक्षरमयः' त्रयः-अकारोकारमकाराः, अक्षराः-वर्णाः, तन्मयः तद्घटितौङ्कारपदाभिधेयः, सङ्केतसम्बन्धेन ॐकाररूपशब्दवानिति यावत् / गुणातीतपदेन सम्बन्धसामान्यावच्छिन्नगुणसामान्याभाववतो विवक्षितत्वाद् विरोधः / समवायसम्बन्धावच्छिन्नगुणसामान्याभावपरतया सत्त्वादिलक्षणगुणाभावपरतया वा विरोधपरिहार इत्याहुः / 'त्रिमूर्तिः' इति / सन्निति शेषः / ब्रह्मविष्णुशिवात्मकशरीरत्रयवान् सन् , सृष्टिस्थितिप्रलयकर्माणि 'तनुते' इत्यर्थः / 'तनुते' विस्तारानुकूलयत्नवान् , अतो विरोधः। एतेन सर्गादिरेव ईश्वरे प्रमाण मिति सूचितम् / 'कृपापारावारः' निरुपधिपरदुःखप्रहाणेच्छा' 'कृपा', तस्या असाधारणाधिकरणमित्यर्थः। अत्रापि इच्छाया गुणत्वाद् विरोधः। 'त्रिजगताम्', 'परमगतिः' परमहितकर्ता, कर्तृत्वस्य गुणत्वाद् विरोधः। 'एकः' अद्वितीयः, नित्यकृतिमवृत्तिभेदप्रतियोगितानवच्छेदकैकत्ववानिति यावत् / एकत्वस्य गुणत्वाद् विरोधः / तस्मै किम्भूताय ? इत्यपेक्षायामाह 'कस्मैचिद्' इति, विशिष्यानिर्वचनीयगुणग्रामायेत्यर्थः। पुनः किम्भूताय ? 'अमितमहिम्ने' महिमा-सौन्दर्यकरुणादयः / पुनः किम्भूताय ? 'पुरभिदे'--एकदा पुरभेदनकर्त्रे। पुरभिदित्यनेन एकदा पुरत्रयभेदनसमर्थस्य सुतरां विघ्नवारणक्षमत्वं सूचितम् // 1 // 1. अत्र अग्रे च सर्वत्र 'विरोध' इति पूर्वं 'गुणातीतत्वेन' इति योज्यम् / 2. 'सम्बन्धसामान्येन गुणो नास्ति' इत्याकारकप्रतीतिसिद्ध-सम्बन्धत्वावच्छिन्नसंसर्गक प्रतियोगिताकगुणसामान्याभाववत इत्यर्थः / 3. अनुमानविधयेति भावः / 4. निरुपधिपरदुःखप्रहरणेच्छेति ग० / अन्यथा स्वसजातीयद्वितीयराहित्यस्याद्वितीयशब्दार्थत्वे ईश्वरसजातीयस्य द्वितीयस्याभावेन प्रतियोग्यप्रसिद्धथा तदभावरूपस्य तद्राहित्यस्याप्रसिद्धिस्तस्य गुणानात्मकतया गुणातीतत्वेन तद्विरोधस्यानुपपत्तिश्च स्यात् / ईश्वरगतैकत्वस्यापि कृतिमज्जीवनिष्ठभेदप्रतियोगितावच्छेदकतया, नित्यस्य जात्यादेराश्रये गगनादौ वृत्तिमतो भेदस्य प्रतियोगितावच्छेदकतया नित्यायां कृतौ वर्तमानस्य भेदस्य प्रतियोगितावच्छेदकतया च नित्य, कृति, मदिति शब्दानामुपादानम् / Page #14 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः तन्त्रे दोषगणेन दुर्गमतरे सिद्धान्तदीक्षागुरुगङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम् // 2 // यतो मणेः पण्डितमण्डनक्रिया प्रचण्डपाखण्डतमस्तिरस्क्रिया / विपक्षपक्षे न विचारचातुरी न च स्वसिद्धान्तवचोदरिद्रता // 3 // प्रेक्षावत्प्रवृत्त्यर्थ ग्रन्थान्तरापेक्षया स्वीयग्रन्थस्योत्कर्ष दर्शयन् स्वकीर्त्यनुवृत्तये स्वनाम मन्थनाम च दर्शयति 'अन्वीक्षा' इति / 'गङ्गेशः', 'अन्वीक्षानयम्' न्यायशास्त्रम्, 'गुरुभिः, आकलय्य' ज्ञात्वा, 'गुरूणां' प्राभाकराणाम् , मतं च गुरुभित्विा , 'चिन्तादिव्यविलोचनेन' च, चिन्तारूपदिव्यचक्षुषा च, 'तयोः' न्यायगुरुमतयोः, 'अखिलम्' निःशेषम् , 'सारम्' अभिप्रायम् , 'विलोक्य मितेन वचसा श्रीतत्त्वचिन्तामणि तनुते' इत्यन्वयः। अन्योऽपि 'गङ्गशः' समुद्रः, 'मितेन वचसा' स्तवादिना, 'चिन्तामणि तनुते' इत्युपमालङ्कारो व्यङ्गथः। गुरुमतस्य प्रायशो निरस्यतया विशिष्य तदुल्लेखः / गङ्गेशः किम्भूतः ? 'दोषगणेन' दोषसमूहेन, 'दुर्गमतरे' अत्यन्तदुर्गमे, 'तन्त्रे' सूत्रादौ, 'सिद्धान्तदीक्षागुरुः // 2 // ग्रन्थस्य चिन्तामणिनामकरणे बीजभूतं मणेः सादृश्यं दर्शयति 'यतो मणे' रिति / इदश्च सर्वत्र सम्बध्यते / 'प्रचण्डेति' प्रचण्डाः पाखण्डाः-बौद्धाः, त एव तमांसि, तेषां तिरस्क्रिया। मणिपक्षे-प्रचण्डपाखण्डीभूतानि यानि तमांसि तेषां तिरस्क्रियेत्युन्नेयम् / 'विपक्षेति' विपक्षा ये बौद्धादयः, तेषां यः पक्ष:-सिद्धान्तः, तत्र, 'न विचारचातुरो' न व्यवस्थानकौशलम् / मणिपक्षे तु 'विपक्षपक्षे' चौरादिपक्षे, न विलक्षणचरणचातुरी। मणिप्रभया तमोनिवृत्तेरिति भावः / न च स्वेति' स्वस्यन्यायदर्शनस्य, यानि सिद्धान्तवांसि तेषां 'न दरिद्रता'। मणिपक्षे स्वस्य -धनस्य, सिद्धः अन्तः-अवसानं वृत्तमिति वचसोऽदरिद्रता न चेत्यर्थः, अकारप्रश्लेषात् / दरिद्रता-प्रयोगाभावः, अनन्तं धनं भवतीत्यर्थः। केचित्तु मणिपक्षे विपक्षेत्यस्यविपक्षपक्षेनस्य-विपक्षपक्षश्रेष्ठस्य, विचारचातुरी-विलक्षणचरणचातुरी, न चेत्यन्वयः। 1. चिन्तादिव्यविलोकनेनेति ग०। 2. मणिसादृश्यमिति ख. / 3. न व्यस्थापनकौशलमिति ख० / 4. भवतीत्यभिप्राय इति ख० / Page #15 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये इह खलु सकलशिष्टैकवाक्यतया अभिमतकर्मारम्भसमये तत्समाप्तिकामा मङ्गलमाचरन्ति। तत्र यद्यपि मङ्गलस्य कारणता नान्वयव्यतिरेकगम्या विनापि मङ्गलं प्रमत्तानुष्ठितसमाप्तेः / न च तत्र जन्मान्तरीयतत्कल्पनम् , अन्योन्याश्रयाल्लोकावगतकारणेनान्यथासिद्धेश्च / 'स्वसिद्धे'त्यस्य स्वस्य-साधनस्य, सिद्धः अन्तः-अवसानम् , वृत्तमिति वचसो दरिद्रतेत्यर्थ इत्याहुः / एतन्मते नाकारप्रश्लेषः॥३॥ ___ स्वयंकृतस्य मङ्गलस्य कदाचित् केनचित् निरर्थकत्वमाशङ्कथेतेत्यतो मङ्गलस्य सफलत्वं व्यवस्थापयितुं प्रथमतो मीमांसकसम्प्रदायमतमुपदर्शयति 'इहे' त्यादिना 'सम्प्रदायविद' इत्यन्तेन / 'इह' अस्मिन् लोके, मनुष्यलोक इति यावत् / 'खलु' अवश्यम् , 'सकलशिष्टैकवाक्यतया' मङ्गलस्य समाप्तिहेतुत्बेन सकलशिष्टसम्मततया / एतेन भ्रममूलकता निराकृता' / 'आरम्भसमये' तत्पूर्वसमये / 'तत्समाप्तिकामाः' अभिमतकर्मसमाप्तिकामाः / ननु समाप्तिहेतुताया मङ्गलवृत्तित्वे किं मानम् ? न तावत् प्रत्यक्षम् , यस्य पुरुषस्य प्रमत्तकर्तृकसमाप्तिस्थले ऐहिकमङ्गलविरहनिश्चयो मङ्गले लोकावगतकारणेन समाप्ति प्रति अन्यथासिद्धत्वग्रहश्च विद्यमानस्तेन पुरुषेण तदानीं मङ्गलवृत्तितया तस्याः प्रत्यक्षतो निश्चेतुमशक्यत्वात् / अत एव नानुमानाद्यपि, तादृशपुरुषविशेषेण तदानीं तस्यानुमानादिनापि ग्रहासम्भवादित्यत आह 'तत्र यद्यपि' इति / तत्र-आचारे, सप्तम्यर्थो निमित्तत्वं तच्च प्रयोजकत्वम् , अन्वयश्चास्य कारणतायाम: तथा च तदाचारप्रयोजकीभता समाप्तिकारणता यद्यपि तादृशपुरुषविशेषेण ताशकालविशेषे न मङ्गलस्यान्वयव्यतिरेकगम्यति योजना। एतेन मङ्गलवृत्तिसमाप्तिकारणतात्वेन पक्षत्वे ताशकारणतायां सिद्धायां विवादाभावः ; असिद्धायामाश्रयासिद्धिः / न च मङ्गलवृत्तिकारणतात्वेन पक्षता, न तु समाप्त्यन्तर्भावः, समाप्त्यन्वयव्यतिरेकगम्यत्वाभावश्च साध्यः, कारणतात्वञ्च कारणपदप्रवृत्तिनिमित्तत्वम् , तेन कारणतात्वस्य कार्यभेदेन विभिन्नतया प्रकृतकारणतात्वेन पक्षत्वे आश्रयासिद्धिः, कारणतान्तरत्वेन पक्षत्वे चार्थान्तरमिति दोषस्य नावकाश इति वाच्यम् ; तत्रेत्यस्यानन्वयापत्तेः; मङ्गलवृत्तिकारणतायास्तादृशाचारविषयत्वासिद्वेरिति दूषणं प्रत्युक्तम्, समाप्तिकारणतात्वेन पक्षत्वात् / तादृशपुरुषविशेषस्य तादृश१. नापीति ख०। 2. सम्प्रदाय इत्यन्तेनेति ग० / 3. 'एतेन' इत्यस्य 'मङ्गलस्य समाप्तिहेतुत्वेन सकलशिष्टसम्मतत्वकथनेन' इत्यर्थः / 4. 'मङ्गलस्य समाप्तिहेतुताया' इति 'भ्रममूलकता' इत्येतत्पूर्व योज्यम् / 5. सर्वेषां शिष्टानां मङ्गलस्य समाप्तिहेतुत्वे भ्रमो न सम्भवतीत्याशयः / mr Page #16 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः कालविशेषे मङ्गलान्वयव्यतिरेगम्यत्वश्च मङ्गलान्वयव्यतिरेकसहचारज्ञानजन्यमङ्गलवृत्तिताप्रकारकप्रत्यक्षनिश्चयविषयत्वम् , तथा च 'समाप्तिकारणता न मङ्गलान्वयव्यतिरेकसहचारज्ञानजन्यतत्कालीनतत्पुरुषीयमङ्गलवृत्तिताप्रकारकप्रत्यक्षनिश्चयविषय' इति फलितम् / अखण्डाभावस्य साध्यत्वान्न जन्यान्तभागवैयर्थ्यम् / पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतया च नांशतः सिद्धसाधनम् / समाप्तिकारणतात्वसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे मङ्गलावृत्तिसमाप्तिकारणतायामुक्तसाध्यस्य सिद्धतया सिद्धसाधनं स्यादिति भावः। नन्वनन्यथासिद्धनियतपूर्ववर्तिता कारणता, तत्रानन्यथासिद्धत्वज्ञाने न सहचारज्ञानापेक्षा', न वा नियमांशज्ञानेऽपि; व्यापकतामहे सहचारग्रहस्याहेतुत्वात् / धूमत्वादिघटितव्याप्तिग्रह एवान्वयसहचारग्रहस्य हेतुत्वेन व्यवस्थापितत्वात् / अत एवान्वयोऽन्वयसहचारधीः, व्यतिरेकश्च व्यभिचारज्ञानव्यतिरेकः, तदुभयजन्यतादृशप्रत्यक्षनिश्चयविषयो नेत्यर्थ इत्यपि निरस्तम् / व्यतिरेकसहचारज्ञानवदन्वयसहचारज्ञानस्याप्यहेतुत्वात् / / ____ अत्राहुः-तदितरयावत्कारणसत्त्वे तत्सत्त्वेऽवश्यं कार्यम् , तदभावे च कार्याभाव इत्यन्वयसहचारव्यतिरेकसहचारहो विशिष्टकारणतासाक्षात्कारहेतुः, तथैवान्वयव्यतिरेकात् ; न त्वंशभेदव्यवस्था / नव्यास्तु-अन्वयो हेत्वभाववति कार्यान्वयज्ञानं व्यभिचारज्ञानमिति यावत् / तद्व्यतिरेकजन्यतादृशनिश्चयविषयो नेत्यर्थ इति प्रोचुः / हेतुमाह 'विनापि'इति / तदानीं तत्पुरुषेण विनापि मङ्गलं प्रमत्तानुष्ठितसमाप्त्युत्पत्तिदर्शनादित्यर्थः / तथा च तत्कालीनतत्पुरुषीयमङ्गलव्यतिरेकव्यभिचारग्रहविषयनिरूपितकारणतात्वादिति हेतु तो वैयधिकरण्यम् / 1. जन्यान्तभागरहितस्यापि साध्यत्वानुसरणेन यद्यप्यभिमतं सिद्धयति तथापि तदंशरहितस्य तस्याभावान्तरत्वेन तस्य तदंशघटिततादृशाभावात्मकसाध्ये प्रविष्टतया न तदंशवैयर्थ्य मिति भावः / 2. अन्यथा जलादी वह्नयादेरनन्यथासिद्धत्वं न गृह्येत, गृह्यते च 'तद्धर्मावच्छिन्नं प्रति नियतपूर्ववर्तित्वे सति तद्धर्मावच्छिन्नकारणतयाऽव्यवह्रियमाणं यद्यत् तत्तद्भेदकूटवत्त्व' रूपं तदिति भावः। 3. अन्यथा वह्नौ धूमसहचारग्रहणे धूमेऽपि वह्निव्यापकताग्रहः स्यादिति भावः / 4. वह्नथादिसामानाधिकरण्यावच्छेदकधूमत्वादिरूपव्याप्तिग्रह इत्यर्थः / 5. इति प्राहुरिति ख०। 6. पक्षतावच्छेदकेन सह हेतो सामानाधिकरण्यम् / अन्यथा पक्षतावच्छेदकस्य समाप्तिकार णतायां 'विनापि मङ्गलं प्रमत्तानुष्ठितसमाप्त्युत्पत्तिदर्शन'रूपस्य हेतोश्च तत्पुरुषे सत्त्वेन तयोस्तत्स्यादिति भावः / Page #17 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये नापि मङ्गलं सफलम् , अविगीतशिष्टाचारविषयत्वाद् दर्शवदिति फलसिद्धौ' प्रारिप्सतसमाप्तेस्तदानीमपेक्षितत्वेन नियमेनोपस्थितत्वात् फलान्तरस्यातथाभावाद् विश्वजिन्यायेन फलकल्पने गौरवात् परिशेषानुमानेन तत्कारणताग्रहः। केचित्तु -मङ्गलं न समाप्त्यन्वयव्यतिरेकज्ञानजन्यतत्कालीनतत्पुरुषीयसमाप्तिकारणत्वप्रकारकप्रत्यक्षनिश्चयविषयः, तत्कालीनतत्पुरुषीयसमाप्तिव्यभिचारित्वग्रहविषयत्वादिति समुदितार्थ इत्याहुः / ___ ननूक्तहेतुरसिद्धः, तस्य हि पुरुषस्य तदानी प्रमत्तानुष्ठितसमाप्ताहिकमङ्गलव्यभिचारित्वग्रहेऽपि न तत्र मङ्गलसामान्यव्यतिरेकव्यभिचारित्वग्रहः, तेन पुरुषेग प्रमतानुष्ठितसमाप्तिपूर्व जन्मान्तरीयमङ्गलानुमानादित्यभिप्रायेणाशङ्कते 'न च तत्रे'ति / तत्र-प्रमत्तानुष्ठितसमाप्तिपूर्वम् , 'जन्मान्तरीयतत्कल्पन' तेन पुरुषेण तदानीं जन्मान्तरीयमङ्गलानुमानम् , 'इयं समाप्तिमङ्गलपूर्विका, समाप्तित्वात्, शिष्टानुष्ठितसमाप्तिवदित्येवंरूपेणेति भावः / 'अन्योन्याश्रयादिति' सिद्धे जन्मान्तरीयमङ्गले व्यभिचारज्ञानाभावे हेतुताप्रहः, हेतु ताग्रहे च समाप्तित्वेन जन्मान्तरीयमङ्गलानुमानम् , अन्यथा त्वप्रयोजकम् , इत्यन्योन्याश्रयादित्यर्थः / नन्वनुकूलतर्को न व्याप्तिग्रहहेतुः, किन्तु कचिद् व्यभिचारज्ञाननिवर्तकतया तस्योपयोगः, तथा च कारणत्वग्रहं विनापि व्यभिचारज्ञानसामग्र्या असार्वदिकत्वेन समाप्तित्वे स्वतःसिद्धमङ्गलपूर्वकत्वव्यभिचारज्ञानाभावादेव जन्मान्तरीयमङ्गलानुमानसम्भव इत्यस्वरसाद् हेत्वन्तरमाह 'लोकावगतकारणेने ति कण्ठताल्वाद्यभिघातादिनेत्यर्थः / अन्यथासिद्धेश्च' तस्य पुरुषस्य तदानीं मङ्गले समाप्तिं प्रति अन्यथासिद्धत्वज्ञानाच्च / तथा च तत्कालीनतत्पुरुषीयमङ्गलनिष्ठान्यथासिद्धत्वज्ञानविषयनिरूपितकारणतात्वादिति हेतुः / तस्य पुरुषस्य तदानीमनुमानेनापि मङ्गले न समाप्तिकारणताग्रहसम्भव इत्याह 'नापी' 'त्यादिना, 'कारणताग्रह' इत्यन्तेन / मङ्गलमिति नमस्कारादिकमित्यर्थः / नतिस्तुत्यादिसाधारणस्य मङ्गलत्वस्यैकस्याभावान्मङ्गलपदस्य नानार्थत्वात् / 'सफलमिति' अभीष्टफलजनकमित्यर्थः / अभीष्टत्वञ्च स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् / 'अविगीतशिष्टाचारविषयत्वादिति'। अविगीतो यः शिष्टाचारस्तद्विषयत्वादित्यर्थः / आचारः-प्रवृत्तिः न तु क्रिया, विषयत्वानन्वयात् / शिष्टकृते निष्फलजल१. सफलत्वसिद्धाविति ख०, ग०, च / 2. अभीष्टफलत्वञ्चेति ख० / 3. स्वं मङ्गलं तत्कर्तव्यताप्रयोजिका इच्छा समाप्तीच्छा तद्विषयत्वात्समाप्तेरभीष्टफल त्वमित्याशयः। Page #18 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः ताडनादौ व्यभिचारवारणायाविगीतेत्याचारविशेषणम् , 'अविगीतत्वम् वेदनिषिद्धाविषयकत्वं, पापाजनकत्वं वा / शिष्टकृतं निष्फलश्च न तथा / __ नित्यनैमित्तिकैश्चैव काम्यरन्यैरहितः / कर्मभिस्तु नयेत् कालं न विप्रः क्षणिको भवेत् / / इत्यनेन, 'वृथा चेष्टां न कुर्वीत' इति, 'निष्फलानि च कर्माणि नारभेत विचक्षणः' . इत्यादिना च तन्निषेधात् / तथापि पश्वादिकृतनिष्फलचेष्टायां व्यभिचारः। 'नित्यनैमित्तिकै' रित्यादिनिषेधविधीनामुपक्रमानुरोधेनाधिकारिमात्रपरतया तदीयवृथाचेष्टाया अनिषिद्धत्वादतः “शिष्टे'ति / शिष्टत्वञ्च बालपतितान्त्यजाद्यतिरिक्तत्वे सति वेदप्रामाण्याभ्युपगन्तृत्वम् / न च तथापि भोगे व्यभिचारः तस्याप्युहेश्यतया कृतिविषयत्वादिति वाच्यम् ; साध्यत्वेन प्रवृत्तिविषयतायाः२ फलव्यावृत्ताया एव अत्र प्रवेशात् / एतेन नान्तरीयकस्य प्रवृत्तिविषयत्वाभ्युपगमेऽपि निष्फले भोजनादिनान्तरीयके न व्यभिचारः, तत्र तादृशविषयत्वाभावात् / परमेश्वरकृतेरपि तादृशविषयत्वाभावात् तादृशविषयत्वाभ्युपगमेऽपि प्रवृत्तित्वादिजातेस्तत्राभावाच्च न तामादाय निष्फले जलताडनादौ व्यभिचारस्तदवस्थः। न च तथापि कीर्तनादिना फलाजनके शिष्टकृतयागे व्यभिचार इति वाच्यम् ; स्वरूपयोग्यत्वरूपस्य फलजनकत्वस्य विवक्षितत्वात् तस्य च तत्रापि सत्त्वात् / / यद्वा आचारश्चात्र कृतिमात्रम् , तथा च बौद्धकृते निष्फलजलताडनादौ व्यभिचारवारणाय शिष्टेत्याचारविशेषणम् / शिष्टत्वम्-भ्रमाजन्यत्वम् , परमेश्वरकृतेरपि निरुक्तविषयत्वात्तामादाय निष्फले व्यभिचारवारणायाविगीतेत्याचारविशेषणम् / 'अविगीतत्वम्' अनित्यत्वम् / केचित्त-अविगीताचारविषयत्वात् , शिष्टाचारविषयत्वादिति हेतुद्वये तात्पर्यम् , निष्फले चैत्यवन्दनादौ व्यभिचारवारणाय प्रथमहेतावविगीतत्वं, द्वितीयहेतौ च शिष्टत्वमाचारविशेषणम् / अविगीतत्वश्च इष्टोत्पत्तिनान्तरीयकदुःखभिन्नदुःखाजनकत्वं, "बलवदनिष्टाननुबन्धित्वे सति इष्टसाधनत्वं वा / तद्ग्रहश्च शिष्टेकवाक्यतया, जलताडनादिकन्तु नैतादृशं निष्फलत्वात् , कर्ममात्रस्यैव कष्टत्वाच्च / न तु वेदनिषिद्धाविषयकत्वं पापाजनकत्वं वा अविगीतत्वं, तावता वैदिककर्माधिकारिणा कृते निष्फळे व्यभिचारवारणसम्भवेऽपि पश्वादिकृतवृथाचेष्टायां व्यभिचारस्य दुरित्वात् / 1. तत्र निषेधादिति ख० / 2. साध्यताख्यायाः प्रवृत्तिविषयताया इत्यर्थः / 3. साध्यताख्यविषयताप्रवेशेनेत्यर्थः / साध्यत्वेन प्रवृत्तिविषयत्वाभावादित्यर्थः / 5. बलवत्त्वं च इष्टोत्पत्तिनान्तरीयकभिन्नत्वम् / Page #19 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये 'नित्यनैमित्तिकैरि'त्यादिनिषेधविधीनामधिकारिमात्रपरत्वात् / द्वितीयहेतौ च शिष्टत्वंभ्रमाजन्यत्वम् / अन्यत् सर्वे पूर्ववदित्याहुः। केचित्त-सफलमित्यस्य पापाजनकत्वे सतीष्टसाधनमित्यर्थः / तथा च श्येनयागागम्यागमनादौ व्यभिचारवारणायाविगीतेत्याचारविशेषणम् / अविगीतत्वं-पापाजनकत्वं, निष्फले चैत्यवन्दनादौ व्यभिचारवारणाय 'शिष्टेति' / शिष्टत्वश्च इष्टसाधनताभ्रमाजन्यत्वं, न तु भ्रमाजन्यत्वमात्रं, तथा सति अगम्यागमनाद्याचारस्यापि बलवदनिष्टाननुबन्धित्वभ्रमजन्यतया हेतावविगीतपदवैयापत्तेः / बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्त्यजनकत्वनये भ्रमाजन्यत्वमात्रमेव तत् / न च 'कष्टं कर्म' इति न्यायात् 'वृथा चेष्टां न कुर्वीत' इत्यादिस्मृतेश्च' चैत्यवन्दनादावपि पापजनकत्वाच्छिष्टपदवैयर्थ्यमिति वाच्यम्, तद्विलक्षणपापस्यैवात्र प्रवेशात् पश्वादिकृतवृथाचेष्टाया अप्युक्तक्रमेण पापाजनकतया तत्रैव व्यभिचारवारकत्वेन पापसामान्यप्रवेशेऽपि सार्थकत्वसम्भवाच्चेत्याहुः / तदसत् / समाप्तिफलकत्वविचारे विशिष्टसाध्यकरणेऽर्थान्तरत्वापत्तेरिति सक्षेपः / 'इति फलसिद्धौ' इत्यनुमानेन, सफलत्वसिद्धौ जातायाम् , 'परिशेषा. नुमानेन तत्कारणताग्रहः' तस्य पुरुषस्य, तदानीं मङ्गले समाप्तिकारणताग्रह इति योजना। परिशेषानुमानश्च 'मङ्गलं समाप्तिजनकं, समाप्त्यन्यफलाजनकत्वे सति सफलत्वाद्' इत्याकारकम् / फलत्वश्च स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् , तेन मङ्गलस्य स्वध्वंसविघ्नध्वंसादिजनकत्वेऽपि न सत्यन्तविशेषणासिद्धिः२ / एतदनुमाने च पूर्वानुमान विशेष्यदल साधकतयोपयुक्तमिति भावः। ननु 'मङ्गलं न समाप्तिजनक, समाप्तिविषयककामनावत्पुरुषाकर्तृकत्वाद्, घटादिविषयककामनावत्पुरुषाकर्तृको यागादिर्यथा न घटादिजनक' इति सामान्यतोदृष्टानुमानेन' मङ्गले समाप्तिजनकत्वाभावज्ञानात् कथमिदं समाप्तिजनकत्वानुमानमित्यत आह 'प्रारिप्सितेति' / 'नियमेनापेक्षितत्वेन' नियमेन मङ्गलकतः कामनाविषयत्वेन, 'उपस्थित 1. श्रुतेश्चेति ख, ग, च / 2. स्वं मङ्गलं, तत्कर्तव्यताप्रयोजिका इच्छा समाप्तीच्छा, न तु तद्ध्वंसस्य तत्साध्यविघ्न ध्वंसस्य वा इच्छा, अतः समाप्तेरेव फलत्वं न तु तयोः / एवं च सत्यन्तशरीरे फलांशानिवेशे समाप्त्यन्यस्मिन् स्वध्वंसे विघ्नध्वंसे च मङ्गलस्य कारणताया: सम्भवतया विशेषणासिद्धर्नावकाश इति भावः। 3. 'मङ्गलं समाप्तिफलकं, समाप्त्यन्याफलकत्वे सति सफलत्वाद्' इत्यनुमाने। 4. 'मङ्गलं सफलम्, अविगीतशिष्टाचारविषयत्वाद्' इत्यनुमानम् / 4. उक्तहेतुघटकसफलत्वरूपविशेष्यदलेत्यर्थः / 5. 'यो यद्विषयककामनावत्पुरुषाकर्तृकः स न तज्जनक' इत्यनुमानेनेत्यर्थः / Page #20 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः त्वात्' अनुमातुस्तादृशपुरुषस्योपस्थितत्वात्। तथा च समाप्तिजनकत्वाभावसाधकोक्तहेतोरज्ञानासिद्धि रिति भावः।। ननु तथापि समाप्तिभिन्नस्य ग्रामपशुहिरण्यादेरपि फलत्वज्ञानसम्भवात् सत्यन्तविशेषणज्ञानमेव नास्ति, कुतोऽनुमानमिदमित्यत आह 'फलान्तरस्येति समाप्तिभिन्नस्य ग्रामपशुहिरण्यादेरित्यर्थः / 'अतथाभावात्' अतथाभूतत्वेनोपस्थितत्वात् , मङ्गलकर्तुस्तदानीं कामनाया अविषयत्वेनोपस्थितत्वादिति यावत् / तथा च हेतुज्ञानसत्त्वाद् 'मङ्गलं न समाप्तिभिन्नग्रामादिफलक, प्रामादिविषयककामनावत्पुरुषाकर्तृकत्वाद, घटादिविषयककामनावत्पुरुषाकर्तृको यागादिर्यथा न घटादिफलक' इति सामा- . न्यतोदृष्टानुमानेन ग्रामादिफलकत्वाभावज्ञानमिति भावः। नन्वेतादृशानुमानेन समाप्तिभिन्नग्रामादिफलकत्वाभावज्ञानसम्भवेऽपि विश्वजिन्यायेन समाप्तिभिन्नस्वर्गफलकत्वज्ञाने बाधकाभावात् कुतः सत्यन्तविशेषणज्ञानं ? स्वर्गकामनां विना समाप्तिकामनाया एवानुपपन्नतया मङ्गलकत्तुस्तदानीं स्वर्गकामनाया अप्यावश्यकत्वेनोक्तहेतुना स्वर्गफलकत्वाभावज्ञानसम्भवादित्यत आह 'विश्वजिदिति / यथा विश्वजिद्यागस्य स्वर्गरूपफलाश्रवणेऽपि स्वर्गफलकत्वज्ञानं तथेत्यर्थः। 'फ.कल्पने' समाप्तिभिन्नस्वर्गफलकत्वज्ञाने गौरवादिति / २अनन्तस्वर्गव्यक्तिकल्पनारूपगौरवज्ञानस्य प्रतिबन्धकत्वादित्यर्थः / न च समाप्तित्वापेक्षया लघुतया स्वर्गवावान्तरवैजात्यस्य कार्यतावच्छेदकस्य कल्पनेऽनन्तस्वर्गव्यक्तिकल्पनं फलमुखतया न दोषायेति वाच्यम् , फलमुखगौरवस्यापि दोषत्वादिति भावः। ___ यद्वा स्वर्गमात्रस्य फलत्वे नियमतः समाप्तिकामनया शिष्टानां मङ्गलानुष्ठानानुपपत्त्या समाप्तिस्वर्गयोरुभयोः फलत्वकल्पने गौरवमिति गौरवज्ञानस्य प्रतिबन्धकत्वादित्यर्थः / स्वर्गकामना च समाप्तिकामनोपपादकतयोपपन्नेति भावः / नव्यास्तु 'इति फलसिद्धाविति'। तस्य पुरुषस्य तदानीं जायमानायामिति शेषः। तथा चैतदनुमानेन तस्य पुरुषस्य तदानीं सफलत्वसिद्धौ जायमानायां 'परि१. समाप्तेमङ्गलकर्तु : काम्यत्वेन मङ्गले कथितहेतोरज्ञानरूपासिद्धिरिति भावः / 2. मङ्गलस्य स्वर्गफलकत्वस्वीकारे स्वर्गस्य क्षणिकसुखविशेषात्मकतया स्वर्गजनने मङ्गलस्य द्वारभूतमदृष्टं यावदवतिष्ठते तावदेकस्याः स्वर्गव्यक्तेदुष्कल्प्यत्वेनानन्तस्वर्गव्यक्तिकल्प नायां गौरवमित्याशयः / 3. फलोत्तरभाविनो गौरवग्रहस्य पूर्व फलं प्रति विरोधित्वासम्भवेन फलमुखं गौरवं न दोष इत्याशयः / मङ्गलं यदि स्वर्गफलकं स्यात्, तदाऽनन्तफलकं स्यादिति दिशा फलविचारवेलायामेव गौरवस्योपस्थिततया तद्ग्रहस्य फलं प्रति विरोधिताया निर्बाधतया फलमुखं गौरवमपि दोष इत्यभिप्रायः / Page #21 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये व्यभिचारेण कारणत्वस्याभावादुपायसहस्रेणापि ग्रहीतुमशक्यत्वात् / तथापि तथाविधशिष्टाचारानुमितश्रुतिरेव मङ्गलस्याभिमतहेतुत्वे मानम् / शेषानुमानेन' समाप्त्यन्यफलजनकत्वबाधज्ञानसहकारेण, 'तत्कारणताग्रह' समाप्तिकारणताग्रहः, इति योजना / 'प्रारिप्सिते'त्यादिग्रन्थस्तु पूर्ववदिति व्याचक्रः / / __'व्यभिचारेण' व्यभिचारज्ञानेन, अन्यथासिद्धत्वग्रहेण चेति शेषः। 'कारणत्वस्याभावात्' कारणत्वाभावज्ञानात् , तथा च बाध इति भावः। 'उपायसहस्रण' हेतुसहस्रण, 'ग्रहीतुमशक्यत्वादिति / न च प्रमत्तानुष्ठितसमाप्तिस्थले जन्मान्तरीयमङ्गलसंशयेन व्यभिचारसंशयादन्यथासिद्धत्वसंशयाच बाधसंशय एव, न तु बाधनिश्चयः; स चानुमानप्रवृत्तावनुकूल एव, न तु प्रतिबन्धक इति वाच्यम् , प्रमत्तानुष्ठितसमाप्तिस्थले जन्मान्तरमङ्गलस्य साधकाभावेन व्यतिरेकनिर्णये व्यभिचारनिर्णयस्यैव सत्त्वाद्, अन्यथासिद्धत्वस्यापि निर्णयसत्त्वाच्च / न चैवं सिद्धान्ते वेदोऽपि कथं बोधकः स्यात् ? बाधनिश्चयसत्त्वेन योग्यताज्ञानविरहादिति वाच्यम्, मीमांसकनयेऽन्वयप्रयोजकरूप'वत्त्वस्यैव योग्यतात्वेन बाधनिश्चयसत्त्वेऽपि योग्यताज्ञानसम्भवाद् बाधनिश्चयस्य शाब्दबोधाप्रतिबन्धकत्वादिति भावः / ___ केचित्तु 'ग्रहीतुमशक्यत्वाद्' इत्यस्य अप्रामाण्यज्ञानानास्कन्दितनिश्चयस्याशक्यत्वादित्यर्थः। व्यभिचारान्यथासिद्धत्वयोः संशयसत्त्वादुत्पन्नायामप्यनुमितावप्रामाण्यसंशयादिति भावः / न चैवं सिद्धान्ते वेदस्यापि तादृशनिश्चयजनकत्वासम्भवः, व्यभिचारादिसंशयसत्त्वेन तत्राप्यप्रामाण्यसंशयसम्भवादिति वाच्यं , वेदजन्यत्वज्ञानादेव तत्र नाप्रामाण्यसंशय इत्यभिप्रायादित्याहुः, तदसत् ; तथा सति वेदानुमाने अप्रामाण्यसंशयस्य दुर्वारत्वादिति ध्येयम्। . यद्यपि तत्पुरुषस्य तदानीं प्रत्यक्षादितो मङ्गले समाप्तिकारणत्वग्रहासम्भवेऽपि पुरुषान्तरस्य कालान्तरे तस्यैव पुरुषस्य च समाप्तिकारणत्वप्रत्यक्षानुमानसम्भवात् प्रत्यक्षानुमानमपि तत्र प्रमाणं सम्भवति, अन्यथा दण्डादावपि प्रत्यक्षादितो घटादिकारणत्वासिद्धिप्रसङ्गात् , कस्यचित् पुरुषस्य कदाचित् तत्रापि व्यभिचारादिज्ञानसत्त्वात् , तथापि प्रौढिवादेन तादृशपुरुषस्यापि तस्मिन् काले समाप्ति१. एकपदार्थेऽपरपदार्थान्वयस्य योग्यतात्वे तज्ज्ञानं प्रति तदभावात्मकं बाधं गृह्णतो ज्ञानस्य प्रतिबन्धकत्वं युक्तम्, परं तादृशान्वयप्रयोजकरूपस्य योग्यतात्वे तादृशान्वयाभावात्मकबाधज्ञानस्य ग्राह्याभावानवगाहितया न ताशरूपात्मकयोग्यताज्ञाने प्रतिबन्धकत्वसम्भव इति तात्पर्यम् / Page #22 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः कारणत्वग्रहमुपपादयति 'तथापी ति / 'तथाविधशिष्टाचारानुमिते'ति अविगीतशिष्टाचारानुमितेत्यर्थः। 'मानमिति' तस्य पुरुषस्य तदानीं प्रमाजनकमित्यर्थः / न चानुमितवेद आनुपूर्वी विशेषानिश्चयेन नार्थप्रत्यये क्षम इति वाच्यं, विनाप्यानुपूर्वीज्ञानं तदर्थबोधकत्वेन ज्ञातादेव शब्दात्तदर्थबोधादिति भावः / श्रत्यनुमानश्च 'नमस्कारादिकं वेदबोधितसमाप्तिसाधनताकं, समाप्त्युद्देश्यकाविगीतशिष्टाचारविषयत्वाद् इति / साध्ये विशिष्य समाप्तेः प्रवेशादविगीतशिष्टाचारविषयत्वे सामान्यतो हेतूकृते दर्शादावेव व्यभिचार इति हेतौ समाप्त्युद्देश्यकेत्याचारविशेषणम् / उद्देश्यत्वश्च विषयताविशेषः। तथा च 'यो यदुद्देश्यकाविगीतशिष्टाचारविषयः, स वेदबोधिततत्साधनताकः, यथा दर्शः' इति सामान्यतो व्याप्तिः। शिष्टकृते निष्फले चैत्यवन्दनादौ व्यभिचारवारणाया विगीते'ति / अविगीतत्वं वेदनिषिद्धाविषयकत्वम् / शिष्टकृतनिष्फलञ्च 'वृथा चेष्टां न कुर्वीत' इत्यादिवेदनिषिद्धमेव / पश्वादिकृते निष्फले व्यभिचारवारणाय 'शिष्टेति' / शिष्टत्वश्च बालकपतितान्त्यजाद्यतिरिक्तत्वे सति वेदप्रामाण्याभ्युपगमविशिष्टत्वम् , अभ्युपगमो निश्चयः। . ___ न च तथापि वेदप्रामाण्याभ्युपगन्तुर्भोजनादौ व्यभिचार इति वाच्यम् , अलौकिकत्वे सतीत्यनेनापि विशेषणीयत्वात् / अलौकिकत्वञ्च लोकावगतेष्टसाधनताश्रयान्यत्वम् / वेदतदुपजीविप्रमाणातिरिक्तप्रमाणं लोकः, दर्शादेरिष्टसाधनत्वस्य वेदेन तदुपजीविना 'यागः स्वर्गसाधनं, स्वर्गसाधनत्वेन वेदबोधितत्वाद्' इत्यनुमानेनैव वा बोधनान्न दृष्टान्तासिद्धयादिः / तावत्पदार्थोपस्थितिसहकृतमनोजन्यविशिष्टज्ञानमादाय यथा न दृष्टान्तासिद्धयादिस्तथा वेदलक्षण एव स्फुटीभविष्यति / . न च तथापि भ्रान्त्या स्वर्गफलान्यफलमुद्दिश्य यथोक्तशिष्टकृतयागादौ व्यभिचारः, तस्य तत्साधनत्वेन वेदाबोधितत्वादिति वाच्यं, चैत्यवन्दनादिवत् तस्यापि वृथाचेष्टात्वेन वेदनिषिद्धत्वात् / स्वकर्तव्यताप्रयोजकेच्छाविषयस्वरूपायोग्यकर्मण एव वृथाचेष्टात्वात् / वस्तुतस्तु पश्वादितदितरसाधारणकृते चैत्यवन्दनादिनिष्फलसामान्ये स्वःफलान्यफलमुद्दिश्य कृते यागादौ च व्यभिचारवारणाय 'शिष्टे'ति / शिष्टत्वम्-भ्रमाजन्यत्वम् / भोजनादौ लौकिककर्मणि व्यभिचारवारणाया विगीतेति'। अविगीतत्वं-लौकिकाविषयकत्वं, तच्च निरुक्तमेव / न च तथापि उत्पन्नतत्त्वज्ञानिकृते चैत्यवन्दनादौ व्यभिचारः, तस्यापि भ्रमाजन्यत्वादिति 1. नार्थप्रत्यायन इति ग० / 2. तदर्थज्ञापकत्वेनेति ग० / 3. वेदप्रामाण्याभ्युपगन्तृत्वमिति ग० / 4. लोकावगतेष्टसाधनताश्रयाविषयकत्वरूपमित्यर्थः / Page #23 -------------------------------------------------------------------------- ________________ 12 तत्त्वचिन्तामणौ सरहस्ये वाच्यं, चैत्यवन्दनादेस्तत्त्वज्ञानिकर्तृकत्वे मानाभावात्; तत्सत्त्वे प्रवृत्त्यन्यथानुपपत्त्या भ्रमस्याप्यावश्यकत्वाच्च / तदुद्देश्यकत्वेनाप्याचारो विशेषणीयः, तेन दर्शादौ वेदबोधितसमाप्तिसाधनत्वाभावेऽपि न व्यभिचार इति तत्त्वम् / उपाध्यायास्तु भोजनादौ व्यभिचारवारणायालौकिकत्वे सतीति पूरणीयम् / अलौकिकत्वञ्च लोकावगतबलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनताश्रयान्यत्वम् , अविगीतपदसार्थक्याय बलवदनिष्टाननुबन्धित्वमखण्डभेद घटकम् / इत्त्थश्चागम्यागमनादौ व्यभिचारवारणाया विगीते'ति / अविगीतत्वं-बलवदनिष्टाननुबन्धित्वम् / अत्र निष्फलजन्यानिष्टव्यावृत्तानिष्टस्य प्रविष्टतया चैत्यवन्दनादौ भ्रान्त्या स्वःफलान्यफलमुद्दिश्य कृते यागादौ च व्यभिचारवारणाय 'शिष्टे'ति / बलवदनिष्टसामान्यप्रवेशेऽपि पश्वादिकृतवृथाचेष्टायां व्यभिचारवारणाय 'शिष्टे'ति / शिष्टत्वम्-इष्टसाधनत्वभ्रमाजन्यत्वं, न तु भ्रमाजन्यत्वमात्रम् ; अगम्यागमनाचारस्यापि बलवदनिष्टाननुबन्धित्वभ्रमजन्यतयाऽविगीतपदवैयर्थ्यापत्तेः / बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्त्यहेतुत्वनये तु भ्रमाजन्यत्वमेव शिष्टत्वमित्याहुः / ___अन्ये तु 'नमस्कारादिर्वेदबोधितबलवदनिष्टाननुबन्धित्वविशिष्टसमाप्तिसाधनताकः, समाप्त्युद्देश्यकाविगीतशिष्टाचारविषयत्वाद्' इत्यनुमानम् / व्याप्तिश्च पूर्ववत् / हेतावविगीतत्वविशेषणसार्थक्याय साध्ये बलवदित्यादि। तथा सति हेतावविगीतविशेषणानुपादाने इष्टानिष्टोभयजनके श्येनादौ व्यभिचारापत्तेः। अविगीतत्वश्च पापाजनकत्वम् / रात्रिश्राद्धादिवारणाय 'शिष्टे'ति / शिष्टत्वम्-इष्टसाधनत्वांशेऽभ्रान्तत्वं, 1. अतिरिक्तभेदघटकमित्यर्थः। तथा च हेतावविगीतत्वविशेषणफलादगम्यागमनादिवारणा द्भिन्नस्य फलस्याभावेनालौकिकत्वगर्भ तस्य निष्प्रयोजनत्वेऽपि इष्टसाधनत्ताश्रयान्यत्वातिरिक्तोक्तविशिष्टेष्टसाधनताश्रयान्यत्वघटकतया न वैयर्थ्य, तथाविधभेदत्वयोः परस्परव्यधिकरणत्वात्; स्वसमानाधिकरणत्वे सति, स्वावच्छिन्नीयसाध्यव्याप्यतावच्छेदकत्वे सति, स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वे च सति स्वावच्छिन्नाविषयकप्रतीतिविषयतानवच्छेदकत्वसम्बन्धेन स्ववृत्तिवर्माविच्छिन्नाविषयकप्रतीतिविषयतावच्छेदक स्वावच्छिन्नघटकतावच्छेदकधर्मवत्त्वस्यैव स्वावच्छिन्नांशे पारिभाषिकवैयर्थ्यपदार्थत्वात् / 2. शिष्टपदस्य भ्रमाजन्यत्वमात्रार्थकत्वे तत्पदेनैव अगम्यागमनादिवारणसम्भवादिति भावः / 3. यदि प्रवृत्तौ बलवदनिष्टाननुबन्धित्वज्ञानं न हेतुः किन्तु इष्टसाधनत्वज्ञानमेव, तर्हि अगम्यागमनादेरिष्टसाधनतया भ्रमाजन्ये तत्र व्यभिचारवारणायाविगीतपदसार्थक्यं सम्भवतीति भावः। 4. यो यदुद्देश्यकाविगीतशिष्टाचारविषयः स वेदबोधितबलवदनिष्टाननुबन्धित्वविशिष्ट तत्साधनताक इति सामान्यव्याप्तिरिति भावः / 5. साध्ये बलवदितीति ग० / Page #24 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः 13 न च व्यभिचारः / निष्परिपन्थिश्रुत्या मङ्गलं समाप्तिसाधनमिति प्रमापिते तत्रापि तयैव लिङ्गेन जन्मान्तरीयतदनुमानात् / न तु अभ्रान्तत्वमात्रम् , अविगीतपदवैयापत्तेः; श्येनादेरपि बलवदनिष्टाननुबन्धित्वभ्रमेणाचरणात् / तथा चेष्टसाधनत्वांशे भ्रमाजन्येति फलितार्थः। बलवदनिष्टाननुबन्धित्वज्ञानस्य हेतुत्वे च भ्रमाजन्यत्वमात्रं वक्तव्यम् / लौकिकभोजनादौ व्यभिचारवारणायालौकिकत्वे सतीत्यनेनापि विशेषणीयम् / 'तत्त्वश्चेष्टसाधनत्वेन लोकावगतान्यत्वं, लोकश्च वेदतदुपजीविप्रमाणातिरिक्तप्रमाणमेव / यदि च श्राद्धत्वेनामावास्याश्राद्धत्वेन वा रात्रिश्राद्धमपि पितृप्तिस्वरूपयोग्यतया वेदबोधितमिति साध्यसत्त्वाद् , अन्यथा तु चैत्यवन्दनादिवनिष्फलत्वेन पापजनकतया हेत्वसत्त्वादेव न तत्र व्यभिचार इति विभाव्यते, तदा तु लोकावगतेष्टसाधनताश्रयान्यत्व'मलौकिकत्वम् / तथा च पश्वादिकृतवृथाचेष्टायां व्यभिचारवारणायैव 'शिष्टे'ति / तञ्च निरुक्तमेवेत्याहुः। तदुभयमपि 'स्वीकृतवेदप्रमाणभावः शिष्टः' इत्यग्रिममूलविरुद्धत्वादश्रद्धेयम् / 'न च व्यभिचारः' इति प्रमत्तानुष्ठितसमाप्तौ व्यभिचार इत्यर्थः / तथा च विषयबाधेन वेदजस्य ज्ञानस्य भ्रमतया कुतो वेदस्य तत्र प्रमाणत्वमिति भावः / 'निष्परिपन्थीति' शाब्दबोधविघटकासमवहितेत्यर्थः। बाधसंशयतन्निश्चययोः शाब्दबोधाप्रतिबन्धकत्वादन्वयप्रयोजकरूपवत्त्वस्यैव योग्यतात्वेन बाधनिश्चयसत्त्वेऽपि योग्यताज्ञानसम्भवाच्चेति भावः। 'प्रमापिते' ज्ञापिते, 'तत्रापि' नास्तिकसमाप्तावपि, 'तयैव' समाप्त्यैव, 'प्रमत्तानुष्ठितसमाप्तिमङ्गलजन्या, समाप्तित्वात् , शिष्टानुष्ठितसमाप्तिवद्' इत्यनुमानाकारः / तथा च तत्रापि मङ्गलस्य प्रमाणसिद्धत्वाद् न व्यभिचारः। . यद्यपि स्वजन्यविनध्वंसोत्पत्त्यवच्छेदकत्वसम्बन्धेन फलीभूतसमाप्तिकर्तृशरीरनिष्ठतया मङ्गलस्य, स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन तादृशशरीरनिष्ठतया मङ्गलजन्यविन्नध्वंसस्य वा समाप्तिहेतुत्वं वक्ष्यमाणयुक्त; तथा च जन्मान्तरीयमङ्गलसत्त्वेऽपि व्यभिचारो दुर्वारः, नास्तिकशरीरे जन्मान्तरीयमङ्गलजन्यविघ्नध्वंसोत्पत्त्यभावात् / तथापि स्वजन्यविघ्नध्वंसवत्त्वसम्बन्धेन मङ्गलस्य, विशेषणताविशेषसम्बन्धेन तज्जन्यविघ्नध्वंसस्य चात्मनिष्ठतयैव समाप्तिहेतुत्वमित्येकदेशिमतमाश्रित्यैतत् समाधानम् / यथोक्तहेतुत्वपक्षे च व्यभिचारोऽग्रे निरसनीयः। 1. अलौकिकत्वं चेत्यर्थः / 2. अपरसमाप्तिवदित्यनुमानप्रकार इति ग० / 3. मङ्गले समाप्तिसाधनत्वस्य प्रमाणसिद्धत्वादिति ग० / Page #25 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये तच्चेदमारब्धकर्माङ्ग कर्मार्थितया शिष्टैस्तत्पूर्व क्रियमाणत्वात् फलान्तराभावे सति फलवकर्मारिप्समानेन नियमतस्तत्पूर्व क्रियमाणत्वाच्च दर्श प्रयाजादिवत् / ___ यद्यपि मङ्गलस्यारब्धकर्मभिन्नस्यैतावता प्रबन्धेन वस्तुगत्याऽऽरब्धकर्मजन्या या समाप्तिस्तजनकत्वं सिद्धं', तथाप्यारब्धकर्माङ्गत्वत्वरूपेणारब्धकर्माङ्गत्वं न सिद्धम्'; अतः प्रसङ्गात्तदपि साधयति 'तच्चेदमि'ति / 'आरब्धकर्माङ्गम्' आरब्धकर्मभिन्नत्वे सति आरब्धकर्मजन्यफलजनकम् / न चैवं तद्भिन्नत्वे सति तज्जन्यफलजनकत्वस्य तदङ्गत्वरूपत्वे आरब्धकर्मणोऽपि मङ्गलाङ्गत्वापत्तिः, दर्शस्य प्रयाजाद्यङ्गत्वापत्तिश्चेति वाच्यं, सहकारित्वरूपस्याङ्गत्वस्य तत्रेष्टत्वात् / मुख्यफलाजनकत्वे सति मुख्यफलजनकव्यापारजनकत्वरूपं लौकिकाङ्गव्यावृत्तपारिभाषिकाङ्गत्वमेव हि न दर्शादौ, किन्तु प्रयाजादावेव, प्रयाजादेरङ्गापूर्वद्वारा परमापूर्वमानं प्रत्येव जनकत्वेन स्वर्ग प्रत्यजनकत्वात् / परमापूर्व साधनताज्ञानात् स्वर्गप्रयोजकताज्ञानाद् वा तत्र प्रवृत्तेः। अङ्गप्रधानव्यवस्थान्यथानुपपत्त्या तथैव कल्पनात् / तदुक्तं'यागे रागादङ्ग वैधी' इति / 'रागात्' मुख्यफलेच्छातः प्रवृत्तिरिति शेषः। 'वैधी'ति / विधिः-अपूर्व, तदिच्छा, प्रवर्तिकेति शेषः / ___ अथैवं 'फलवत्सन्निधावफलं तदङ्गम्' इति जैमिनिसूत्रस्य का गतिरिति चेत् ? तत्रारम्भणीयादावतिव्याप्तिवारणाय सप्तम्यन्तम् , फलवान् यः सन्निधिस्तदीयमुख्यफलजनको यो व्यापारस्तत्रेति तदर्थः। जनकत्वं सप्तम्यर्थः, अन्वयश्वास्याफलमित्यनेन / अफलत्वश्च तदीयमुख्यफलाजनकत्वम् , एतच्च स्वस्य स्वाङ्गत्ववारणाय दर्शादेः प्रयाजायङ्गत्ववारणाय च। तदोयमुख्यफलजनकजनकत्वे सति तदीयमुख्यफलाजनकत्वं तदङ्गत्वमित्येव फलितम् / न च प्रायश्चित्तादेर्दक्षिणादानादिचरमाङ्गेऽव्याप्तिस्तस्य साक्षादेव पापनाशरूपमुख्यफलजनकत्वादिति वाच्यम् ; अङ्गत्वान्यथानुपपत्त्या तत्राप्यङ्गापूर्वाद्युपगमात् / न चाङ्गाङ्गेऽतिव्याप्तिः, तस्याप्यङ्गत्वस्येष्टत्वाद् ; अङ्गाङ्गस्याङ्गाङ्गापूर्वजनकतयैवान्यथासिद्धतयाऽङ्गापूर्वजनकत्वे मानाभावाच्च / मुख्यफलत्वश्च वैधफलत्वम् / न च 1. मङ्गले आरब्धकर्मभिन्नत्वमेतावता प्रबन्धेन वस्तुगत्या आरब्धकर्मजन्या या समाप्ति___ स्तज्जनकत्वञ्च सिद्धमिति ख०, ग० च / 2. आरब्धकर्माङ्गत्वं विशिष्टं न सिद्धमिति ख० ग० च / 3. रागो मुख्यफलेच्छा. तत इति क० / 4. जैमिनेरङ्गलक्षणसूत्रस्येति ख०, ग० च / Page #26 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः मीमांसकनये अपूर्वस्यापि विध्यर्थत्वादङ्गस्य च तजनकत्वादसम्भव इति वाच्यम् ; अगस्याङ्गापूर्वजनकतयैवान्यथासिद्धतया स्वर्गादिमुख्यफलमिव परमापूर्व प्रत्यजनकत्वाद् , अङ्गापूर्वजनकतामादायैव च सर्वत्र लक्षणसम्भवात् ; प्रायश्चित्तस्थलवद् यागादिस्थलेऽप्यङ्गत्वान्यथानुपपत्त्या दक्षिणादानादेश्वरमाङ्गस्यापूर्वजनकत्वाभ्युपगमात् / यद्वा यत्कामनात्वेन तदीयफलं प्रति जनकता तत्त्वं तदीयमुख्यफलत्वम् ; भवति च स्वर्गादिकामना स्वप्रयोज्यदर्शादिसम्बन्धेन दर्शादिफलस्वर्गादिकं प्रति जनिका / अन्यथा भ्रान्त्या स्वर्गफलान्यफलकामनया कृतादपि दर्शात् स्वर्गोत्पत्त्यापत्तेः; अपूर्वकामना च न तत्त्वेन दर्शादिजन्यस्वर्गजनिका मानाभावात् / पुत्रादिफलान्तरकामनावत् केवलापूर्वकामनया कृतादपि दर्शात् स्वर्गानुत्पत्तेः सकलमीमांसकसिद्धत्वात् / यत्तु अफलत्वं फलान्तराभाववत्त्वं तदीयफलातिरिक्ताफलकत्वमिति यावत् / फलत्वश्च स्वकर्तव्यताप्रयोजकेच्छाविषयत्वमिति / तन्न; अङ्गप्रधानोभयरूपे शिखादाकव्याप्तेः। न च शिखाया न द्वैरूप्यं , किन्तु 'विशिखी व्युपवीतश्च यत् करोति न तत् कृतम्' इति वचनादङ्गत्वमेवेति वाच्यं; 'सदोपवीतिना भाव्यं सदा बद्धशिखेन तु' इति वचनात् प्रधानत्वस्यापि तत्र सत्त्वात् / न चैकस्याः शिखाव्यक्ते!भयरूपत्वं, किन्तु व्यक्तिभेदेनेति वाच्यं; तथा सति कर्मपूर्व नियमतः शिखाद्वयानुष्ठानापत्तेः, प्रधानफलकामनाकृतशिखादिव्यक्तित एव प्रसङ्गादङ्गस्यापि निर्वाह इति सकलशिष्टसम्मतत्वाञ्च / न च शिखा प्रधानं, तद्बन्धनञ्चाङ्ग; बन्धनस्य क्रियाविशेषरूपस्यास्थिरत्वेऽपि तज्जन्याङ्गापूर्वसत्त्वादेव दिनान्तरबद्धशिखातोऽप्यङ्गनिर्वाह इति वाच्यं ; 'विशिख' इति श्रवणेन शिखाया एवाङ्गत्वप्रतीतेः। लौकिकस्थले च सहकारित्वमेवाङ्गत्वं न त्वन्यद् दुर्वचत्वात् / ___ननु तथापि किन्तावदारब्धं कर्म ? न चोपान्त्यवर्णपर्यन्तवर्णसमूहरूपो ग्रन्थ एवारब्धं कर्म, चरमवर्णश्च समाप्तिः,तस्य चासमवायिकारणविधयोपान्त्यवर्णजन्यत्वेन समाप्तेरारब्धकर्मजन्यत्वमिति वाच्यम् , उपान्त्यवर्णस्य चरमवर्णविजातीयतया तत्रासमवायिकारणत्वासम्भवात्', सजातीयस्थलेऽपि कण्ठताल्वाद्यभिघातादिजन्ये चरमवणे तस्यासमवायिकारणत्वासम्भवाच्चेति चेन्न ; प्रकृते चरमवर्णपर्यन्तवर्णसमहरूपो ग्रन्थ एवारब्धं कर्म। चरमवर्णजन्यं तद्वितीयक्षणोत्पन्नतत्सजातीयं 1. सजातीयशब्दस्यैव शब्दासमवायिकारणत्वनियमादिति भावः। 2. उपान्त्यवर्णस्य शब्दात्मकत्वेन द्विक्षणस्थायितया चरमवर्णकारणीभूतकण्ठताल्वाद्यभि घातादिना नाशात् कारणत्वासम्भव इति भावः। Page #27 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये वर्णान्तरं चरमवर्णध्वंसो वा समाप्तिः / न चैवं समाप्तेरारब्धकर्मजन्यत्वमनुपपन्न, चरमवर्णस्यासमवायिकारणतया प्रतियोगितया२ वा यथोक्तसमाप्तिफलकत्वेऽपि तत्पूर्वपूर्ववर्णानां तत्राजनकत्वादिति वाच्यम् , पूर्वपूर्ववर्णाजन्यत्वेऽपि चरमवर्णजन्यतयैव ग्रन्थत्वाश्रयजन्यतानिर्वाहाद् ग्रन्थत्वपर्याप्त्यधिकरणजन्यत्वस्य प्रकृतेऽविवक्षितत्वात् / घटादिस्थले च तत्सामग्रीसम्पादनमेवारब्धं कर्म, घटादिरेव समाप्तिः। __केचित्त ग्रन्थादिस्थलेऽपि कण्ठताल्वाद्यभिघातदृष्टप्रतिबन्धकाभावादिरेव पुरुषप्रयत्नसाध्यतया आरब्धं कर्म, चरमवर्णपर्यन्तवर्णसमूहरूपग्रन्थादिरेव समाप्तिः। ____ अन्ये तु चरमवर्णपर्यन्तवर्णसमूहरूपो ग्रन्थ एवारब्धं कर्म, चरमवर्णाशे लौकिकप्रत्यक्षात्मकमानुपूर्वो विशेषविशिष्टतावद्वर्णविषयकसमूहालम्बनानुसन्धान समाप्तिः, तस्य च विषयविधया चरमवर्गजन्यत्वेन ग्रन्थत्वाश्रयजन्यत्वमित्याहुः / .. 'कर्माथितये'ति आरब्धकर्मजन्यफलेच्छयेत्यर्थः, न त्वारब्धकर्मनिष्पत्तीच्छयेत्यर्थः / 'दर्श प्रयाजादिवद्' इति दृष्टान्तासङ्गतेः, प्रयाजस्य दर्शानिष्पादकत्वात् / 'शिष्टः' अभ्रान्तैः, 'तत्पूर्वम्' आरब्धकर्मपूर्व; तथा च तद्विषयककृतिपूर्वकालीनभ्रमाजन्यतत्फलेच्छाजन्यकृतिविषयत्वादिति हेतुः। यत् तद्विषयककृतिपूर्वकालोनभ्रमाजन्यतत्फलेच्छाजन्यकृतिविषयो भवति, तत् तदनं भवतीति सामान्यतो व्याप्तिः। दर्शप्राक्क्रियमाणायामारम्भणीयायां समिदाहरणादौ च व्यभिचारवारणाय तत्फलेच्छाजन्येति, तत्र तत्फलार्थितयाऽप्रवृत्तेः / दर्शादिफलसाधनताभ्रमेण तत्प्राक् कृते तदनने व्यभिचारवारणाय भ्रमाजन्येति / प्रधानस्यापि प्रधानफलेच्छया क्रियमा. णत्वमिति तत्र व्यभिचारवारणाय कालीनान्तम् / न चैवमैन्द्रदधिपयोयागत्रितयात्मकस्य' दर्शस्य पूर्वप्रतीके व्यभिचारः। 'यत् फलजनकतावच्छेदकपर्याप्त्यधिकरणयविषयककृतिपूर्वकालीनभ्रमाजन्यतत्फलेच्छाजन्यकृतिविषयो भवति, तत् तदनं भवतीति विवक्षितत्वात् / ऐन्द्रादिप्रत्येक१. ननु यत्र चरमवर्णनाशानन्तरमेव तत्सजातीयवर्णान्तरोत्पत्तिस्तत्र न चरमवर्णस्या समवायिकारणत्वमत आह 'चरमेति' / 2. चरमवर्णसजातीयवर्णान्तरस्य समाप्तित्वे असमवायिकारणतया, चरमवर्णध्वंसस्य समा प्तित्वे च प्रतियोगितया समाप्तिजनकत्वमिति भावः / 3. समाप्तिजनकत्वेऽपीति ग०। 4. अनुसन्धानं हि स्मरणात्मकज्ञानलक्षणसन्निकर्षजन्यं ज्ञानम् / 5. ऐन्द्रयागः, दधियागः, पयोयागश्चेति यागत्रयरूपस्येत्यर्थः। Page #28 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः यागस्तु न फलजनकतावच्छेदकदर्शत्वपर्याप्त्यधिकरणं तस्य त्रितयनिष्ठत्वादिति न व्यभिचारः / फलत्वञ्च स्वकर्त्तव्यताप्रयोजकेच्छाविषयत्वमिति / हेत्वन्तरमाह 'फलान्तराभावे सतीति'। दर्शप्राकक्रियमाणारम्भणीयायां व्यभिचारवारणाय सत्यन्तं, तदजन्यफलजनकान्यत्वे सतीति तदर्थः। न चेदमप्रसिद्धं, नमस्कारादेरपि फलान्तरस्य स्वध्वंसविघ्नध्वंसादेर्जनकत्वादिति वाच्यम् , फलपदस्य स्वकर्त्तव्यताप्रयोजकेच्छाविषयपरत्वात् / अत एव नमस्कारस्यानुषङ्गिकफलान्तरसत्त्वेऽपि नासिद्धिः / नियमतश्चैत्यवन्दनादिनिष्फलप्राक्क्रियमाणे केशोल्लुश्चनादौ न तदङ्गत्वमिति तत्र व्यभिचारवारणाय तत्पूर्वमित्यत्र तत्पदार्थस्य फलवत्त्वविशेषणलाभार्थ 'फलवकर्मारिप्समानेनेति' फलवकर्मेच्छावतेत्यर्थकं ; तथा च तदजन्यफलाजनकत्वे सति नियमतः फलवत्तत्पूर्व क्रियमाणत्वादिति समुदितार्थः। फलत्वश्च स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् , अन्यथा चैत्यवन्दनादेरपि ध्वंसादिलक्षणफलसत्त्वेन व्यभिचारतादवस्थ्यात् / प्रधानत्वाभिमतपूर्व कदाचित् क्रियमाणे निष्फले कर्मणि अनेकान्तवारणाय 'नियमतः' इति / प्रधानकर्मणि व्यभिचारवारणाय 'तत्पूर्वमि'ति / ननु नियमतो यत्किञ्चित्प्रधानव्यक्तिप्राक्कृते प्रतारकशिक्षितेऽनङ्गभूते निष्फले व्यभिचारः। न च तद्व्यक्तिवृत्तिफलजनकतावच्छेदकाश्रयफलोपहितसकलकर्मव्यक्तिप्राक्रियमाणत्वं विवक्षितम् , प्रयाजं विनापि केनचिद् भ्रान्त्यादिना दर्शानुष्ठानाद् दृष्टान्तासिद्धिवारणाय फलोपहितेति कर्मविशेषणमिति वाच्यं ; तथा सति सत्यन्तवैयाद् आरम्भणीयामकृत्वापि कस्यचिद् दर्शकरणसम्भवेन तत्रोक्तहेतोरभावात् , कस्यापि मङ्गलस्य न तादृशसकलव्यक्तिप्राकक्रियमाणत्वमित्यसिद्धेश्च / अत्राहुः 'नियमतः' इत्यस्य भ्रमं विनेत्यर्थः। अन्वयश्चास्य कृधात्वर्थकृतौ / न चैवं 'फलवकर्मारिप्समानेनेति व्यर्थ केशोल्लुचनादेर्धमजन्यकृतिविषयत्वादिति वाच्यम् , फलजनकतावच्छेदकपर्याप्त्यधिकरणतव्यक्तिपूर्वत्वलाभार्थं तदुपादानाद्, अन्यथा ऐन्द्राद्येकदेशे व्यभिचारापत्तेः। फलत्वश्च पूर्ववत् / न च तथाप्यङ्गाङ्गे व्यभिचार इति वाच्यम् , अङ्गापूर्वस्यैव तत्फलत्वेन फलान्तराभाववत्त्वस्यैव तत्राभावादिति सङ्केपः। 1. आदिपदेन प्रत्यक्षपरिग्रहः / ध्वंसं प्रति प्रतियोगिनः प्रत्यक्ष प्रति विषयस्य च कारणतया ध्वंसादेश्चैत्यवन्दनादिफलत्वमित्याशयः / व्यभिचारवारणायेत्यर्थः / Page #29 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये आचारमूलकश्रुत्यनुमानाभ्यां तदर्थितया तत्कर्त्तव्यत्वबोधनात् तत्कलकत्वबोधनाच / दर्शारम्भसमये नियमेन क्रियमाणाया अप्यारम्भणीयायास्तदर्थितया अक्रियमाणत्वात् फलान्तरश्रवणाच प्रधानत्वमिति न तया व्यभिचारः / ननु मङ्गलमलौकिकं लौकिके नाङ्गं भवति, लोकावगतकारणत एव तदुपपत्तेः / अत एव गृहरथादावारे भग्ने इन्द्रबाहुर्बद्धव्यः, पायसं ब्राह्मणो भोजयितव्य इत्यत्र तदुभयं नाङ्गं किन्तु नैमित्तिकं; तद्वदिदमप्यारम्भसमयनिमित्तकमस्तु विश्वजिन्न्यायात् स्वर्गफलमिति चेत्, न ; प्रथमहेतौ 'कर्माथितयेति विशेषणस्य 'फलान्तराभावे सती'ति विशेषणस्य चासिद्धिं परिहरति 'आचारमूलकश्रुत्यनुमानाभ्यामिति / एतद्वयं यथासङ्खथेन 'तथितया तत्कर्तव्यत्वबोधने', 'तत्फलकत्वबोधने चान्वितम् / 'आचारमूलकत्वम्' समाप्त्यु. द्देश्यकाविगीतशिष्टाचारानुमितत्वम् / 'तथितया' तत्कर्मजन्यफलार्थितया | यद्यपि वेदोऽपि विवक्षितफलार्थिकर्त्तव्यत्वं न बोधयति, तथापि समाप्तिसाधनतायां बोधितायामर्थात् तत्सिद्धिरिति भावः / 'तत्फलकत्वबोधनात्' तत्फलमात्रफलकत्वबोधनात् , तत्फलान्याफलकत्वबोधनादिति यावत् / यथाश्रुते फलान्तराभावस्यैव हेतुघटकतया तत्फलकत्वबोधनस्यानुपयुक्तत्वापत्तेः / तत्फलान्याफलकत्वानुमानश्च 'मङ्गलं नारब्धकर्माजन्यफलजनकं समाप्त्युद्देश्यकशिष्टाचारविषयत्वाद् आरब्धकमेवद्' इत्याकारकम् / फलत्वञ्च निरुक्तमेव / उभयहेतौ प्रथमविशेषणप्रयोजन माह 'दर्शेति' / 'दर्शारम्भसमये' दर्शारम्भपूर्वसमये, 'आरम्भणीयायाः' यागस्य, 'आग्नेयाष्टाकपालं चरं निर्वपेद्, दर्शपौर्णमासावारिप्समानः' इति श्रुतिवचनेन दर्शपौर्णमासपूर्वकाले क्रियमाणत्वं ; न तु तदर्थितया'; न वा फलान्तराभाव इति भावः / मङ्गलस्य समाप्तिजनकत्वे 'अलौकिकं लौकिके नाङ्गम्' इति तक्षसूत्रं बाधकमाशङ्कते 'नन्विति' / 'अलौकिकं मङ्गलं लौकिकेऽङ्ग न भवति' इति योजना; भवतिसम्भवति; 'अलौकिक लौकिके नाङ्ग भवति' इति तक्षसूत्रविरोधापत्तेः / तत्सूत्रेणालौकिकत्वस्य लौकिकानङ्गत्वव्याप्यत्वबोधनात् / अलौकिकत्वञ्च वेदबोधितेष्टसाधनताककर्मत्वं; लौकिकानङ्गत्वश्च न लौकिककर्मजन्यफलाजनकत्वं, यागादेरपि शरीरात्मादिसहकारेण चन्दनसंयोगादिसहकारेण च स्वर्गादिफलजनकतया तत्रैव व्यभिचारापत्तेः, किन्तु लौकिकफलाजनकत्वम् ; फलनिष्ठलौकिकत्वञ्च मानसेतरलौकिकसाक्षात्कारविषयत्वं , समाप्तिश्च तथा। घटादिजनकादृष्टजनककर्मणश्च न 1. 2. तज्जन्यफलाथितयेति ग० / भ्यामिति क०। 3. दर्शपूर्वसमये इति ख०, ग० च / Page #30 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः तस्यापूर्वरूपोपकारजनकाङ्गविषयत्वात् / अयन्तु प्रतिबन्धकामावरूप उपकारः, तस्य च लोकावगतकारणसहकारितैव, प्रतिबन्धके सति घटादिजनकत्वम् , मानाभावात् / नापि यागादेः स्वर्गादिजनकशरीरतच्चन्दनसंयोगादिजनकत्वं, तेन न तेषु व्यभिचारः। न च तथापि वृष्टिपुत्रादिरूपलौकिकफलजनके कारीरीपुत्रेष्ट्यादौ, रोगनाशादिरूपलौकिकफलजनके भेषजपानाभिमन्त्रणादौ च व्यभिचार इति वाच्यं , व्यापारीभूतावग्रहनिवृत्त्यादेरलौकिकस्यैव तेषां फलत्वात् , न तु वृष्ट्यादेः / 'वृष्टिकामो यजेत' इत्यादौ च वृष्ट्यादिप्रयोजकत्वस्यैव विध्यर्थत्वात् / एवं यत्र यत्र लौकिकं फलं श्रूयते तत्रैव प्रयोजकत्वं विध्यर्थः, तज्जनकव्यापार एव फलमिति न कापि व्यभिचारः। फलत्वं तु स्वकर्त्तव्यताप्रयोजकेच्छाविषयत्वमिति भावः / केचित्त 'तच्चेदमारब्धकर्माङ्ग मिति पूर्वोक्तानुमाने बाधकमाशङ्कते 'ननु मङ्गलमिति' / 'मङ्गलं' यतः 'अलौकिकम्', अतो लौकिकफलजनकं न भवतीत्यर्थः / तथा चालौकिकत्वेन हेतुना लौकिकफलजनकत्वाभावसिद्धौ तेनैव हेतुनाऽऽरब्धकर्माङ्गत्वाभावसिद्धेः पूर्वोक्तानुमाने बाध इत्याहुः, तदसत् ; समानबलतया तत्प्रतिपक्षत्वेन बाधासम्भवात् / न च वक्ष्यमाणगृहरथाद्यधिकरणविरोधप्रसङ्गलक्षणानुकूलतर्कणास्याधिकबलवत्त्वमिति वाच्यं, तावता लौकिकफलजनकत्वाभावसाधकहेतावधिकबलवत्त्वेऽप्यारब्धकर्माङ्गत्वाभावसाधकहेतावधिकबलवत्त्वाभावात् / नन्वेवं कुतः समाप्तिरित्यत आह 'लोकेति' / ननु तत्सूत्रमप्रयोजकमित्यत आह 'अत एवेति' / अलौकिकस्य लौकिकफलाजनकत्वादेवेत्यर्थः। 'आरः'लौहकीलः, गृहरथादिचक्रमित्यन्ये / 'इन्द्रबाहुः' लौहकाकः, 'तदुभयमिति' लौहकाकबन्धनब्राह्मणभोजने इत्यर्थः। 'नैमित्तिकमिति' अपूर्वद्वारा आरभङ्गनिमित्तकपापनाशजनकमित्यर्थः। तच्च पापमनिष्टान्तरजनकम् / न च तस्य पापनाशफलत्वे प्रायश्चित्तवत् साक्षादेव तत्सम्भवेनापूर्वद्वारत्वाभ्युपगमो व्यर्थ इति वाच्यं , क्रियाविशेषरूपस्य बन्धनादेराशुविनाशितया दक्षिणादानाद्युत्तराङ्गपर्यन्तमवस्थानासम्भवेनापूर्वस्य व्यापारत्वावश्यकत्वात् / अत एव प्रायश्चित्तस्थलेऽपि पापनाशार्थमपूर्वमावश्यकमिति भावः। - नन्वेवं प्रकृतानुपयोगित्वे आरम्भसमये नियमतः शिष्टैर्नानुष्ठीयेतेत्यत आह 'तद्वदिति'। इन्द्रबाहुबन्धनादिकं यथा आरभङ्गोत्तरकालसहकारेणैव स्वर्गफलजनकव्यापारजनकं, तथा मङ्गलमपि आरम्भसमयसहकारेणैव स्वर्गफलजनकव्यापारजनकमित्यर्थः / 'आरम्भसमयः' कर्त्तव्यकर्मचिकीर्षासमयः / ननु मङ्गलस्य समाप्त्यजनकत्वे तस्य किं फलं ? को वा व्यापार ? इत्यत आह 'विश्वजिदिति' / अपूर्वञ्च व्यापारः, अन्यथानुपपत्त्या तथैव कल्पनादिति भावः / 'तस्येति' / “अलौकिक लौकिके नाङ्गम्" इति तक्षसूत्रस्येत्यर्थः / 'अपूर्वरूपेति'। 'उपकारः' Page #31 -------------------------------------------------------------------------- ________________ 20 तत्त्वचिन्तामणौ सरहस्ये तस्मात्तदनुत्पत्तेः। अपूर्वन्तु न तथा, विघ्नध्वंसद्वारा चेदमङ्गं, न विडो यजतीत्यादिविधिबोधितप्रयाजाद्यङ्गयागवददृष्टद्वारा, मङ्गलजन्यादृष्टं विनापि स्वतः सिद्धविन विरहवत आरब्धनिर्वाहात् / नचैवं विघ्नध्वंसद्वारापि नेदमङ्गं तत्रैव व्यभिचारादिति वाच्यं, सति विघ्ने तद्ध्वंसद्वारा तस्याङ्गत्वात् / न चैत्रं प्रयाजादेरपि दुरितध्वंस एव द्वारं, कल्प्यदुरितध्वंसतोऽपूर्वस्य लघुत्वात् / व्यापारः, अपूर्वद्वारा स्वफलजनककर्मविषयत्वादित्यर्थः। स्वफलत्वं स्वकर्तव्यताप्रयोजकेच्छाविषयत्वं, तेन समाप्तिमुद्दिश्य कृतस्य दक्षिणादानाद्यङ्ग कस्य कस्यचिन्मङ्गलस्यापूर्वद्वारा विघ्नध्वंसजनकत्वेऽपि न क्षतिः, समाप्तरेव निरुक्ततत्फलत्वात् , तत्र चापूर्वस्याद्वारत्वात् / न च तत्सूत्रस्य तादृशकर्मविशेषपरत्वे मानाभाव इति वाच्यं, तस्यालौकिककर्ममात्रपरत्वे "वृष्टिकामो यजेत' इत्यादिविधीनामप्रामाण्यापत्तेः, समभिव्याहृतफलजनकत्वस्यैव विध्यर्थतायाः सकलमीमांसकसिद्धत्वादिति भावः। ननु तथापि मङ्गलस्य लौकिकसमाप्तौ जनकत्वासम्भव एव मङ्गलस्याशुविनाशितया चिरकालानन्तरभाविसमाप्तिं प्रति साक्षाजनकत्वासम्भवेनापूर्वद्वारजनकताया वाच्यत्वा'दित्यत आह 'अयन्त्विति' मङ्गलाजन्यस्त्वित्यर्थः। 'प्रतिबन्धकाभावरूपः' विघ्नाभावरूपः, प्रतिबन्धकपदस्य विघ्नेऽपि प्रयोगात्, न तु कारणीभूताभावप्रतियोगित्वमत्र प्रतिबन्धकत्वं, 'तस्य चेत्यादिग्रन्थानुत्थितेः। ननु विघ्नाभावस्य कुतो व्यापारत्वं समाप्तौ तस्याजनकत्वादित्यत आह 'तस्य चेति' विघ्नाभावस्य चेत्यर्थः / 'सहकारिता' समाप्तिजनने सहकारिता, क्लुप्तैव / 'प्रतिबन्धके सति' विघ्ने सति, विघ्नत्वञ्च मङ्गलनाश्यतावच्छेदकोऽदृष्टनिष्ठो जातिविशेषः / नन्वेवं यत्र लौकिकं फलं श्रयते तत्रापि तज्जनकत्वमेव विध्यर्थः, अन्यथा सूत्रस्य विशेषपरत्वे मानाभावात्। तथा च"पुत्रकामो यजेत" इत्यादिपुढेष्ट्यादिविधीनामप्रामाण्यापत्तिः, तस्यापूर्वद्वारकत्वेन भवन्मतेऽपि पुत्रादिलौकिकफलजनकत्वासम्भवादित्यत आह 'अपूर्वन्त्विति' / 'न तथेति / न लौकिकफलजनने यागादे 1. अपूर्वस्य द्वारताया अवश्यवाच्यत्वादिति ख०। 2. अयञ्चेतीति ग० / 3. धर्मविशेष इति ग०। Page #32 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः ापारः, किन्तु प्रतिबन्धकीभतपापनाश एव तस्य व्यापार इत्यर्थः। तथा च यत्र यत्र लौकिकं फलं श्रूयते, तत्रैव तत्प्रतिबन्धकपापनाशो व्यापार इति भावः / . ननु विन्नाभावस्य कुतो मङ्गलव्यापारत्वमत्यन्ताभावरूपस्य तस्य नित्यत्वादित्यत आह 'विघ्नध्वंसेति' / 'अङ्ग' समाप्तिकारणम् / मङ्गलस्यापूर्वविशेष एव समाप्तिजनने व्यापारः, न तु विनध्वंसः, विनध्वंसत्वमपेक्ष्यापूर्वविशेषत्वस्य लघुत्वात् / विनध्वंसस्य व्यापारत्वे विघ्नानुरोधेन मङ्गलक स्तज्जनककर्मकल्पनापत्तेः, अपूर्वविशेषस्य व्यापारत्वे मङ्गलकत्तर्विघ्नसत्त्वे मानाभावेन तज्जनककर्मणोऽप्यकल्पनादिति केचिन्मीमांसका वदन्ति, तन्मतं दूषयति 'न विति। न तु मङ्गलमलौकिकं लौकिके नाङ्गमिति पूर्वपक्षिणामपूर्वद्वारकत्वाशङ्कायामेतग्रन्थावतारः, 'अपूर्वद्वारकत्वे लौकिकाङ्गत्वविरोधः' इत्यग्रिमदूषणासङ्गतेः। तेन लौकिकानङ्गत्वस्यैवाभ्युपगमात् / 'इडः' इति द्वितीयाबहुवचनम् , इडादयो देवताभेदाः। 'मङ्गलजन्यादृष्टं विनापीति। __ यद्यपि जन्मान्तरीयमङ्गलजन्यादृष्टस्यैव सुवचत्वात् कुतोऽस्य दोषः ? तथापि जन्मान्तरकृतमङ्गलस्यादृष्टद्वारा जन्मान्तरीयसमाप्त्युपधायकत्वे जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्तिप्रसङ्ग इति वक्ष्यमाणदोषापत्तिः / अतो जन्मान्तरीयमङ्गलस्य जन्मान्तरीयसमाप्त्युपधायकतावारणाय स्वोत्पत्त्यवच्छेदकता. सम्बन्धेन समाप्तिकर्त्त शरीरनिष्ठतयैव मङ्गलजन्यादृष्टस्य समाप्तिहेतुत्वं वाच्यं; स्वोत्पत्त्यवच्छेदकत्वश्च स्वोत्पत्तिसमानाधिकरणं स्वावच्छेदकत्वमित्यभिप्रायेणायं दोषः, जन्मान्तरीयमङ्गलजन्यादृष्टस्य नास्तिकशरीरे स्वोत्पत्त्यवच्छेदकतासम्बन्धेनाभावात् / एवञ्च 'मङ्गलजन्याहष्टं विनाऽपि' मङ्गलजन्यादृष्टस्य स्वोत्पत्त्यवच्छेदकतासम्बन्धेनाभावेऽपि, 'स्वतः सिद्धविघ्नविरहवतः' स्वावच्छेदेन मङ्गलानुष्ठानं विनापि सिद्धविघ्नाभावकस्य नास्तिकशरीरस्य, 'स्व' नास्तिकशरीरम् , 'आरब्धनिर्वाहात् आरब्धकर्मसमाप्तेरिति ग्रन्थार्थः / इदमुपलक्षणं , युवादिशरीरे मङ्गलानुष्ठानाद् वृद्धादिशरीरे यत्र समाप्तिस्तत्रापि व्यभिचारो बोध्यः / 'दुरितध्वंसद्वारापीति' विघ्नध्वंसद्वारापि, 'इदम्' मङ्गलम्, 'नाङ्गम्' न समाप्तिजनकमित्यर्थः / 'तथैव' स्वतःसिद्धविघ्नविरहवतो नास्तिकशरोरस्य समाप्तावेव, 'व्यभिचारात' स्वोत्पत्त्यवच्छेदकतासम्बन्धेन विघ्नध्वंसस्य व्यभिचाराद् ; उक्तातिप्रसङ्गवारणाय त्वयापि स्वोत्पत्त्यवच्छेदकतासम्बन्धेन फलीभूतसमाप्तिकत शरीरनिष्ठतयैव मङ्गलजन्यविघ्नध्वंसस्य समाप्तिहेतुताया वाच्यत्वादिति भावः। 'सति विघ्ने' इति / विघ्नस्थलीयसमाप्तावित्यर्थः। तस्य' मङ्गलस्य, 'अङ्गत्वात्' विघ्नध्वंसद्वाराङ्गत्वात् / प्रमत्तादिशरीर 2. 'न तु' इत्यस्य अग्रिमेण 'एतद्ग्रन्थावतारः' इत्यनेनान्वयः। Page #33 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये कर्त्तकसमाप्तिश्च न विघ्नस्थलीया, विघ्नस्य फलाभावोन्नेयतया विघ्नस्थलीयत्वस्य तत्र विरहात् / भवन्नये तु विघ्नस्थलीयत्वस्य न कार्यतावच्छेदकत्वसम्भवः, त्वया कर्त्त विघ्नाख्यादृष्टविशेषानभ्युपगमात् / विघ्नस्थलीयत्वञ्च विघ्नविशिष्टत्वम्, वैशिष्ट्यश्च स्वोत्तरत्वे सति स्वाश्रयशरीरकर्तकत्वं तच्च संसर्गविधया प्रविष्टम् / अतः स्वत्वस्याननुगततयाऽननुगतत्वेऽपि न क्षतिः / यत्रैकस्मिन्नेव शरीरे पूर्वाह्ने मङ्गलं विनापि प्रारब्धकर्मसमाप्तिः, मध्याह्नोत्पन्नविघ्नेन प्रतिबन्धाचापराहे न प्रारब्धकर्मसमाप्तिस्तत्र भाविविघ्नवच्छरीरकत्र्तकपूर्वाह्नजातसमाप्तौ व्यभिचारवारणाय सत्यन्तम्। वस्तुतस्तु तत्रापराह्ने प्रारब्धकर्मसमाप्त्यभावस्य लोकावगतकारणाभावादेव सुवचतया तस्य विघ्नप्रयुक्तत्वे मानाभावात् सत्यन्तमनुपादेयमेव / न चैवं मङ्गलस्यापि कि समाप्तिहेतुत्वेन ? मङ्गलविरहस्थलेऽपि लोकावगतकारणाभावादेव समाप्त्यभावस्य सुवचत्वादिति वाच्यं शिष्टाचारतः कल्पितविध्यन्यथानुपपत्त्या एव मङ्गलस्य हेतुत्वकल्पनात् / तथा च विघ्नवच्छरीकत कत्वमेव विघ्नस्थलीयत्वं , न तु स्वत्वघटितमिति भावः। ___केचित्तु-विघ्नध्वंसजन्यत्वं विघ्नस्थलीयत्वं, नास्तिकादिकर्तृ कसमाप्तिश्च न विघ्नध्वंसजन्या, तत्त्वस्य फलबलकल्प्यत्वादित्याहुः, तदसत् ; प्रतिबन्धकीभूतविघ्नाभावस्य यदि विघ्नसामान्यात्यन्ताभावत्वेन हेतुत्वं तदा समाप्तेर्विघ्नध्वंसजन्यत्वस्यैवासिद्धेः। अथ विघ्नसंसर्गाभावत्वेन तथा, तदा नास्तिककर्तृकसमाप्तरपि जन्मान्तरोत्पन्नविघ्नध्वंसजन्यतया व्यभिचारतादवस्थ्यादिति ध्येयम् / 'न चैवमिति' / एवम्-ध्वंसस्यापि व्यापारत्वे / 'कल्प्येति' / दर्शजन्यपरमापूर्व प्रति कारणत्वेन कल्पनीयो यो दुरितध्वंसस्तमपेक्ष्येत्यर्थः / तस्य कारणत्वेन क्लप्तत्वे तदेव विनिगमकं स्यादिति हृदयम् / 'लघुत्वादिति' लघुशरीरत्वादित्यर्थः / प्रकृते चापूर्वस्य द्वारत्वासम्भवादनायत्या गुरुरपि व्यापारः स्वीक्रियत इति भावः / इदमुपलक्षणम् / प्रयाजादिस्थले विघ्नध्वंसस्य व्यापारत्वे स्वतः सिद्धविघ्नाभावस्थले प्रयाजादिकं विनापि कर्मसाङ्गतापत्तेः, प्रकृते च नेहशी क्षतिरित्यपि बोध्यम् / 1. विघ्नस्थलीयत्वस्य कार्यतावच्छेदकत्वासम्भवेन विघ्नस्थलीयसमाप्तौ विघ्नध्वंसद्वारा मङ्ग लस्य कारणत्वानुपपत्तिरूपा क्षतिः न, विघ्नविशिष्टसमाप्तित्वस्य कार्यतावच्छेदकत्वात्। 2. तस्य-अपराले प्रारब्धकर्मसमाप्त्यभावस्येत्यर्थः / 3. तस्य-दुरितध्वंसस्येत्यर्थः / 4. तदेव-कारणत्वेन क्लृप्तत्वमेवेत्यर्थः / 5. विनिगमकम्-अपूर्वापेक्षया दुरितध्वंसस्य द्वारत्वे युक्तिरित्यर्थः / 6. प्रकृते–मङ्गलेन समाप्तिजनन इत्यर्थः / Page #34 -------------------------------------------------------------------------- ________________ 23 प्रत्यक्षखण्डे मङ्गलवादः वस्तुतस्तु प्रायशो विघ्नसंशये तनिश्चये वा नियमेन शिष्टानां मङ्गलाचरणे विनाभाव एव द्वारत्वेनाभिमतः / निर्विघ्नं समाप्यतामिति कामनया तत्करणपक्षे श्रुतित एव द्वारत्वनिर्णयः। - किश्चापूर्वद्वारत्वे लौकिकाङ्गत्वविरोधः, क्लप्तकारणादेव तदुत्पत्तेरिन्द्रबाहुबन्धनवत्। ननु विघ्नसन्देहे कथं तन्नाशार्थं प्रवृत्तिः ? दुरितध्वंसार्थिप्रवृत्ती तनिश्चयस्य हेतुत्वात् प्रायश्चित्तवदिति चेत्, न; विनसंशये निश्चये वा ननु मयाऽप्यनायत्या मङ्गलकर्तुविनोऽभ्युपेयः / तथा च तत्स्थलीयसमाप्तावेव फलीभूतसमाप्तिकर्तृ शरीरनिष्ठतयां मङ्गलजन्यमपूर्व कारणमतो नोक्तव्यभिचार इत्यस्वरसादाह 'वस्तुतस्त्विति' / 'अभिमतः' अनुमितः, 'आकाङ्क्षितः' इति पाठेऽप्ययमेवार्थः। अनुमानश्च 'मङ्गलं विघ्नध्वंसजनकं विनाजनकत्वे सति विघ्नज्ञानवतामेव भ्रमाजन्यतत्प्रवृत्तिविषयत्वाद' इत्याकारकम्। समाप्त्युद्देश्यकप्रवृत्त्यनुपपत्त्या विनाजनकत्वस्य सिद्धत्वात् / सिद्धे विघ्नध्वंसे फले समाप्त्युद्देश्यकप्रवृत्त्यनुपपत्त्यैव तस्य मुख्यफलत्वे निरस्ते परिशेषाद् द्वारत्वनिर्णय इति भावः / 'इति कामनया' इत्युद्दिश्य, 'तत्करणपक्षे' तस्य शिष्टाचारविषयत्वपक्षे, 'श्रुतित' इति निर्विनसमाप्तिकामो मङ्गलमाचरेदिति तादृशाचारानुमितविन्नध्वंसविशिष्टसमाप्तिजनकताबोधकवेदादेवेत्यर्थः / न च तज्जन्यत्वे सति तजन्यजनकत्वस्य द्वारत्वस्य न वेदादुपस्थितिः, निर्विघ्न- . पदस्य जन्यतासम्बन्धेन विघ्नध्वंसविशिष्टार्थकतया समाप्तौ विघ्नध्वंसजन्यत्वस्य मङ्गले तद्विशिष्टसमाप्तिजनकत्वस्यैव च, तस्मात् प्रतीतेरिति वाच्यं, विशिष्टनिरूपितकारणताग्राहकमानेन विशेषणं प्रत्यपि कारणताग्रहनियमाद् , विघ्नध्वंसं प्रत्यपि मङ्गलस्य तेन कारणताग्रहादिति भावः। ननु नियमतो विघ्नज्ञानसत्त्व एव शिष्टस्तत्करणं निर्विघ्नं समाप्यतामिति कामनया शिष्टैस्तत्करणञ्चासिद्धमित्यरुचेराह 'किञ्चेति' / 'अपूर्वद्वारत्वे' अपूर्वद्वारा फलजनकत्वे, 'लौकिकाङ्गत्वविरोधः' लौकिकफलजनकत्वाभावप्रसङ्गः; क्लुप्तकारणादेव' अपूर्वद्वारकफलजनककारणातिरिक्तकारणादेव, 'तदुत्पत्ते.' तदुत्पत्तिनियमात् , लौकिकफलो. त्पत्तिनियमादिति यावत् / 'अलौकिकं लौकिके नाङ्गम्' इति तक्षसूत्रस्यापूर्वद्वारा स्वफलजनककर्मविषयत्वादिति भावः / 'इन्द्रबाहुबन्धनवदिति' / तादृशनियमादिन्द्रबाहु 1. तस्मात्-वेदादित्यर्थः / Page #35 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये नियमेन शिष्टानां मङ्गलाचाराद् विघ्नज्ञानं प्रवर्तकम् / तादृशाचारानुमितविधिनापि विघ्नज्ञानवानारब्धसमाप्तिकामोऽधिकारी बोध्यते। प्रायश्चित्ते तु तनिश्चयवान्', तथैव विधिबोधनात् / अत एवाधिकारिविशेषणं विघ्न इति, तत्सन्देहे कथं प्रवृत्तिः 1 वैदिकेऽधिकारनिश्चयादेव प्रवृत्तेरित्यपास्तम्। यतः प्रधानाधिकारिण एवाङ्गेऽधिकारो न स्वतन्त्रः, अङ्गत्वभङ्गप्रसङ्गात् / न च प्रधाने प्रारिप्सिते दुरितमधिकारिविशेषणं, विरोधात् / किन्तु समाप्तिकामना सा तु निश्चितैव / बन्धनस्य यथा लौकिकफलजनकत्वाभाव इत्यर्थः / इदमुपलक्षणम् / अपूर्वधर्मिकल्पनां तस्य समाप्तिकारणत्वकल्पनाश्चापेक्ष्य प्रतिबन्धकामावतया समाप्तिकारणत्वेन क्लप्तस्य विन्नध्वंसस्य मङ्गलजन्यत्वमात्रकल्पने लाघवात् , नाशकान्तरकल्पने गौरवात् , तस्य समाप्तिजनकताया अपि क्लप्तत्वाञ्चेत्यपि बोध्यम् / विघ्नध्वंसविशिष्टसमाप्तेमङ्गलाचारोद्देश्यत्वमते बाधकमाशङ्कते-'नन्विति / तन्नाशार्थम् 'तन्नाशमुद्दिश्य, 'दुरितध्वंसाथिप्रवृत्ताविति' दुरितध्वंसोद्देश्यकप्रवृत्तावित्यर्थः / तन्निश्चयस्य' दुरितनिश्चयस्य, 'प्रायश्चितवत्' प्रायश्चित्तप्रवृत्तिवत् / ननु 'दुरितध्वंसाथिप्रवृत्तौ' इत्यादेः कतमोऽर्थः ? किं पापध्वंसार्थिप्रवृत्तौ पापनिश्चयो हेतुः ? किं वा सामान्यतोऽनिष्टध्वंसार्थिप्रवृत्तावनिष्टनिश्चयो हेतुः ? किं वा तदुद्देश्यकप्रवृत्तौ तदुपधायकत्वनिश्चयो हेतुः? प्रकृते च विघ्नसन्देहेन विघ्नध्वंसोपधायकत्वसन्देहात् कथं तदर्थिप्रवृत्तिरिति ? तत्र नाद्य इत्याह 'विघ्नसंशय' इति / 'विघ्नज्ञानम् वित्रज्ञानसामान्यम् , 'प्रवर्तकम्' मङ्गले प्रवर्तकम् / तथा च पापध्वंसार्थिप्रवृत्तौ पापनिश्चयो हेतुरिति व्याप्तिरप्रयोजिकेति भावः / इदमुपलक्षणम् / संवत्सरञ्चैकमपि चरेत्कृच्छ द्विजोत्तमः / अज्ञातभुक्तशुद्धयर्थ ज्ञातस्य च विशेषतः / / इत्येतद्वचनबोधितपापसंशयजन्यप्रायश्चित्तविशेषप्रवृत्तौ शौचाचमनादिलक्षणदुरितध्वंसहेतुक्रियाविशेषप्रवृत्तौ च व्यभिचारोऽपि बोध्यः। 1. तन्निश्चयज्ञानवानिति क० / 2. इति परास्तमिति क० / 3. मङ्गलोद्देश्यत्वमते इति ख० / 4. प्रतिसंवत्सरञ्चकमिति क० / Page #36 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः 25 नन्वेवं विधिनापि विघ्नज्ञानवमात्रकर्त्तव्यत्वेन 'बोध्येते'त्यत्रेष्टापत्तिमाह 'ताहशाचारे'ति विघ्नस्य संशये निश्चये च शिष्टाचारेत्यर्थः / अनुमानश्च 'मङ्गलं विघ्नज्ञानवन्मात्रकर्तव्यत्वेन' वेदबोधितं विघ्नस्य संशये निश्चये च शिष्टाचरणाद्'२ इत्याकारकमिति भावः। 'अधिकारी', 'बोध्यते' कर्तृत्वेन बोध्यते, तत्कर्त्तव्यत्वेन मङ्गलं बोध्यत इति यावत् / 'विघ्नज्ञानवान् समाप्तिकामो मङ्गलं कुर्याद्' इत्येवानुमितवेदशरीरमिति भावः / 'प्रायश्चिते तु'प्रायश्चित्तविशेषे तु, तनिश्चयवानि' ति पापनिश्चयवानित्यर्थः। कर्तेति शेषः। तथा च विधिना यत्र पापनिश्चयमात्रवत्कर्तव्यत्वं बोध्यते तत्रैव पापनिश्चयो हेतुः, अन्यत्र पापज्ञानसामान्यमेवेति भावः / 'अत एवे' ति 'इत्यपास्तम्' इत्यनेनान्वितम् , 'अधिकारिविशेषणमिति अधिकार इत्यर्थः / यत् प्रवर्तमानपुरुषनिष्ठतया ज्ञायमानं सत् प्रवृत्तिहेतुः सोऽधिकारः, यथा शौचतत्कालजीवित्वादिः / शौचभ्रमाद्यत्र प्रवृत्तिस्तत्रापि भ्रमविषयीभूतं व्यधिकरणशौचमेव प्रवृत्तिहेतुरिति भावः / विनस्य मङ्गलेऽधिकारत्वमेव नास्तीत्याह 'यतः' इति, प्रधानाधिकारिण एव' प्रधानाधिकारस्यैवेति यावत् / 'अङ्गेऽधिकारः' तदीयवैदिकाङ्गेऽधिकारत्वं, तदीयवैदिकाङ्गत्वश्च तज्जन्यफलजनकत्वप्रकारेण वेदबोधितत्वं, भवति च प्रयाजादिस्तथा / अङ्गविधयो हि तावत् प्रधानसहकार्याकाङ्क्षायां प्रवर्तन्ते, न तु फलजनकत्वमात्राकाङ्क्षायां, प्रधानविधितः प्रधानज्ञानादेव तदुच्छेदात् ; तथा च यदाकाङ्क्षया यत्प्रवर्तते स तस्याथै इति सकलमीमांसकमतसिद्धतया दर्शादिसहकारित्वस्याप्यङ्गविध्यर्थत्वात् / न च 'विधौ न परः शब्दार्थः' इति न्यायादङ्गविधेरपीष्टसाधनत्वमेवार्थ इति वाच्यं, शाब्दबोधस्याकाङ्कानुरोधितया 'न विधौ' इत्यस्य प्रधानविधिपरत्वात् , तथैव मीमांसकैरभ्युपगमादिति भावः / 'न स्वतन्त्रः' न तदधिकारातिरिक्तः, तदीयवैदिकाङ्गेऽधिकारः, 'अङ्गत्वभङ्गप्रसङ्गादिति वैदिकाङ्गत्वभङ्गप्रसङ्गादित्यर्थः / तदधिकारातिरिक्तानधिकारकत्वस्य निरुक्ततदीयवैदिकाङ्गत्वव्यापकत्वादिति भावः। यद्यपि प्रारब्धकर्मण्यनधिकारस्यापि शौचादेमङ्गलेऽधिकारत्वान्नायं नियमः, तथापि तदतिरिक्ताधिकारेऽयं नियमो बोध्यः / नन्वतावता प्रकृतेऽपि किमायातमित्यत आह 'न चेति / 'प्रधाने' स्वजन्यफलजनकत्वेन वेदबोधितमङ्गलके, स्वपदं प्रारिप्सितकर्मपरम् , 'अधिकारिविशेषणम्' अधिकारः, 'विरोधादिति अधिकारत्वफलप्रतिबन्धकत्वयोर्विरोधस्य सर्वसिद्धत्वादित्यर्थः / तथा च तदीयवैदिकाङ्गे मङ्गले कुतो विघ्नस्याधिकारत्वमिति भावः / 1. विघ्नज्ञानमात्रवत्कर्त्तव्यत्वेनेति क०, ग० च / 2. विघ्नसंशयनिश्चयकालीनालौकिकशिष्टाचारविषयत्वादिति : विघ्नसंशयनिश्चयकालीन शिष्टाचारविषयत्वादिति ग०। 3. व्यापकाभावेन व्याप्याभावसिद्धिरित्याशयः / Page #37 -------------------------------------------------------------------------- ________________ 26 तत्त्वचिन्तामणौ सरहस्ये ____ यत्त्वन्यत्र निश्चिताधिकारकत्त कत्वेऽपि मङ्गलं सन्दिग्धाधिकारकर्तृकमेव, विघ्नसन्देहवतां शिष्टानामाचारानुमितवेदेन तथैव बोधनादिति, तन; विनवत्वेनाधिकाराभावात् , क्वचित् तनिश्चयेऽपि प्रवृत्तेश्च / न च समाप्तिकामो मङ्गलमाचरेदित्याकारकः, निर्विघ्नसमाप्तिकामो मङ्गलमाचरेदित्याकारको वा विधिः, तथा च प्रारब्धकर्मजन्यफलजनकत्वप्रकारेण वेदबोधितत्वरूपं तदीयवैदिकाङ्गत्वं कुतो मङ्गल इति वाच्यं, प्रारब्धकर्मजन्यसमाप्तिमे जायतामित्युद्दिश्य शिष्टप्रवृत्तेनिर्विनप्रारब्धकर्मजन्यसमाप्तिकामो मङ्गलमाचरेदित्याकारकस्यैव विधेरुन्नयनाद् , विधेः समाप्तिकामो मङ्गलमाचरेदित्याकारकत्वेऽपि प्रारब्धकर्मसहकार्याकाङ्क्यैव तत्प्रवृत्तेः प्रारब्धकर्मसहकारित्वस्य तदर्थत्वाच्च / मीमांसकनये आकाङ्क्षानुरोधित्वाच्छब्दानामिति भावः / ननु कस्त_धिकारः ? इत्यत आह। 'किन्त्वि'ति, सा त्विति' स्वर्गकामस्यामिष्टोमः कार्यः,अहमपि तथेति प्रतिसन्धानेन प्रवृत्तेःकामनाज्ञानमपि प्रवृत्तिहेतुरित्यभिमानेनेदम् / वस्तुतस्तु कामना फलं प्रति, प्रवृत्तिं प्रति च स्वरूपसत्येव हेतुः, न तु ज्ञाता, मानाभावात् / न चैवमधिकारत्वानुपपत्तिः, यत् स्वनिष्ठतया ज्ञातं सत्पुरुषं प्रवत्तयति तस्याधिकारत्वादिति वाच्यं, यद्धर्मविशिष्टेन कृतस्य कर्मणः फलजनकत्वं सोऽधिकार इति तल्लक्षणात् / न चाधिकारनिश्चयः फलाङ्गमिति वाच्यं, स्वरूपसत एव तस्य तथात्वात् / अन्यथा शौचादिभ्रमात् कृतमपि सुकृतमर्जयेत् / न च तत्प्रमा तथा, मानाभावात् / न चैवं प्रायश्चित्तविशेषादौ पापानिश्चयेऽपि प्रवृत्तिः स्यात् , स्याच्च तन्निश्चयं विना कृतादपि तस्मात् फलोत्पाद इति वाच्यं, तत्र पापनिश्चयस्याधिकारत्वात् , निश्चितपापकर्तृकत्वेन वेदबोधनात् / न च कामनाभिलापं विना काम्यकर्मणः फलानिष्पत्तेः कामनाज्ञानमपि प्रवर्तकमिति वाच्यं, तावता फलं प्रति तस्य हेतुत्वेऽपि प्रवृत्तिं प्रति तस्य हेतुत्वे मानाभावात् / न हि काम्यकर्मप्रवृत्ति प्रति कामनाभिलापो हेतुः, भ्रान्त्या अभिलापमकृत्वा केनचित् काम्यकर्मानुष्ठानात् , फलं प्रति कामनाभिलापस्यैव हेतुतया कामनाज्ञानस्य हेतुत्वे मानाभावाच्च / वाक्यप्रयोगं प्रति वाक्यार्थज्ञानस्याहेतुतया प्रयोजकत्वस्याप्यसम्भावितत्वादित्यन्यत्र विस्तरः / ___ 'अन्यत्र' प्रायश्चित्तविशेषादौ, 'निश्चिताधिकारकर्तृ कत्वेऽपीति अधिकारनिश्चयस्यैव प्रवर्तकत्वेऽपीत्यर्थः / 'मङ्गलं सन्दिग्धाकारकर्तृकमेव' इति मङ्गले विनरूपाधिकारसंशय एंव प्रवर्तक इत्यर्थः / 'विघ्नवत्त्वेने ति विघ्नस्याधिकारत्वाभावादित्यर्थः / अभ्युपगम्याह 'क्वचिदिति / तथा च विघ्नसंशय एव प्रवर्तक इति नियमोऽसिद्ध इति भावः। Page #38 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः अपि च शङ्कितानिष्टवारणार्थमपि प्रवर्तन्ते परीक्षकाः; यथा सर्पादिदंशजन्यविषसंशये तन्नाशाय भेषजपानादौ / ___किश्च फलस्य संशयेऽप्युपायत्व निश्चयाद् यथा कृष्यादौ प्रवृत्तिः, तथा मङ्गलेऽपि / यदि च वृष्टयादौ सति कृष्यादितोऽवश्यं फलमिति तर्कात् तत्र प्रवृत्तिः, तदा सति विघ्ने मङ्गलादवश्यं फलमिति तर्कादत्रापि प्रवृत्तिः / ननु स्फ्यस्य भक्ताश्लेषनिमित्तकेज्यायामिष्टित्वेन दर्शधर्मत्वे' सत्यतिदेशागतपूर्व दिनकर्तव्यदेवतावाहनस्याङ्गस्य स्फ्याश्लेषद्वार द्वितीयविकल्पे व्यभिचारमाह 'अपि चेति / यथाश्रुते दुरितध्वंसार्थिप्रवृत्तावेव दुरितनिश्चयहेतुतायाः पूर्व शङ्कितत्वादनिष्टध्वंसार्थिप्रवृत्तावनिष्टनिश्चयव्यभिचाराभिधानस्यासङ्गतत्वापत्तेः। ___ केचित्तु पूर्वत्रैव दुरितध्वंसार्थिप्रवृत्तावित्यादौ दुरितपदमनिष्टसामान्यपरम् , अतो नासङ्गतिरित्याहुः, तदसत् ; तथापि 'किञ्चे'त्यादिवक्ष्यमाणदोषासङ्गतेः / इदमुपलक्षणम् / एतत्कल्पेऽपि 'संवत्सरञ्चैकमपी'त्यादिवचनबोधितप्रायश्चित्तप्रवृत्त्यादौ व्यभिचारोऽपि बोध्यः। तृतीयकल्पमभिप्रेत्याह 'किञ्चेति / 'फलस्य' फलोपधायकत्वस्य, 'उपायत्वनिश्चयात्' स्वरूपयोग्यत्वनिश्चयात् / 'वृष्टयादौ' इत्यादिपदादुक्तप्रायश्चित्तविशेषादिपरिग्रहः / 'तथा मङ्गलेऽपीति विनध्वंसरूपफलोपधायकत्वसंशयेऽपि, प्रवृत्तिरिति शेषः। ननु सति वृष्टथादौ कृष्यादावपि सामान्यतः फलावश्यम्भावनिश्चयोऽस्त्येवेत्यत आह 'यदि चे'ति / 'तर्कात्' निश्चयात् , 'सति विघ्ने' इति विघ्नसमवहितमङ्गलमवश्यं विनध्वंसोपधायकमिति निश्चयादित्यर्थः / न च कृष्यादौ सामान्यतो निश्चयस्य हेतुत्वेऽपि वैदिके विशिष्य तन्निश्चयो हेतुरिति वाच्यम् , अन्तरा कर्मनाशाजलस्पर्शकरतोयापारगमनादिशङ्कया तत्रापि विशिष्य तत्संशयात् / न च व्यापारवति वैदिके व्यापारावश्यम्भावनिश्चयस्तथा, तत्राप्युत्तराङ्गनिर्वाहसंशयेन संशयादिति भावः / ननु वैदिके द्वारवैपरीत्यज्ञाने न प्रवृत्तिः / अत एव 'यत् स्फ्या आश्लिषेत् तदधोऽपमृज्यात् , विष्णवे उरुविक्रमाय चरुं' निर्वपेत्' इत्यनेन विहितस्य स्फ्यस्य भक्ताश्लेषनिमित्तकस्य यागस्य इष्टित्वेन दर्शप्रकृतिकत्वात् 'प्रकृतिवद्विकृतिः' इति न्यायेन दर्शधर्मकत्वेऽपि पूर्वदिने देवतावाहनस्य दर्शधर्मस्य स्म्याश्लेषरूपद्वारसंशयादननुष्ठानमुक्तं, तथा च मङ्गले दुरिंतध्वंसरूपसंशयात् कथं प्रवृत्तिरित्याशङ्कते 'नन्विति / 1. दर्शधर्मग्रहे इति क० / 2. सर्वत्रैवेति ख०। 3. वैदिकेपीत्यर्थः / 4. फलोपधायकत्वसंशयादित्यर्थः / 5. द्वादशकपालं चरुमिति ग० / Page #39 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये संशयेऽननुष्ठानमुक्तं, यथा कृष्णले द्वारबाधे। अतो विघ्नसंशयात् तद्ध्वंसद्वारसंशये कथं मङ्गलानुष्ठानमिति चेत् , न; नैमित्तिके हि निमित्तवानधिकारी, यथा भिन्ने जुहोतीत्यत्र पात्रमेदवान ; तथेहाश्लेषवानधिकारीति पूर्वदिने आश्लेषनिश्चयाभावाद् युक्तमननुष्ठानम् / 'स्फ्यः' खदिरकाष्ठनिर्मितखड्गः२, 'इज्या' यागः, 'दर्शधर्मत्वे सति' दर्शप्रकृतिकत्वे सत्यपि, 'दर्शधर्मग्रहे सति'ति पाठेऽप्ययमेवार्थः। 'अतिदेशे'ति प्रकृतिवद्विकृतिरित्यतिदेशेत्यर्थः। स्क्याश्लेषेज्यायां देवतावाहनस्याननुष्ठाने दृष्टान्तमाह 'यथेति / 'कृष्णलः' सुवर्णकलापः, 'द्वारबाधे' वैतुष्यरूपद्वाराभावनिश्चये, अवघाताननुष्ठानमिति शेषः / 'द्रोहीन् प्रोक्षति,बीहीनवहन्ति' इत्यत्र यवादिसाधारण्यार्थ व्रीहिपदस्याजहत्स्वार्थलक्षणया घृतादिव्यावृत्तनियोगसाधनताश्रयद्रव्यमानपरत्वेन 'कृष्णलं अपयेत्' इति श्रुत्या तादृशनियोगसाधनत्वेन बोधिते कृष्णलेऽप्यवघातप्राप्तावपि वैतुष्यद्वारबाधाद् यथाननुष्ठानमित्यर्थः / 'अत' इति द्वारसंशयेऽननुष्ठानवचनाद् वैदिकप्रवृत्तौ द्वारसंशयस्य प्रतिबन्धकत्वकल्पनादिति भावः। ___'यथा वेति वाकारसम्बलितपाठपक्षे विघ्नध्वंससन्देहे मङ्गलानष्ठानानुपपत्तौ हेत्वन्तरमाह 'यथा वेति / 'यथा वा' येन वा यतो वेति यावत् / यथाश्रुते अत' इत्यनेनान्वयापत्तेः / शेषस्तु पूर्ववत् / 'अत' इति द्वारस्य संशये व्यतिरेकनिश्चये वाननुष्ठानाद्, द्वारवैपरीत्यज्ञानमात्रस्यैव प्रतिबन्धकत्वकल्पनादिति भावः। वस्तुतो मूले वाकारः प्रामादिक इति ध्येयम् / स्फ्याश्लेषो हि निमित्तमतो निमित्तनिश्चयाभावादेव तत्र न प्रवृत्तिः, न तु द्वारसन्देहात् , स्फ्याश्लेषस्य द्वारत्वाभावादित्याशयेन सिद्धान्तयति 'नैमित्तिके होति / 'निमित्तवान्' निमित्तनिश्चयवान् , 'अधिकारी' अनुष्ठाता, निमित्तनिश्चयो निष्कम्पप्रवृत्तिहेतुरित्यर्थः / 'पात्रभेदवान्' पात्रभेदनिश्चयवान् , पात्रभेदनिमित्तकहोमे पात्रभेदनिश्चयो यथा निष्कम्पप्रवृत्तिहेतुरित्यर्थः। 'इह' स्फ्याश्लेषनिमित्तकेज्यायाम् , 'आश्लेषवान्' आश्लेषनिश्चयवान् , 'अधिकारी' अनुष्ठाता, आश्लेषनिश्चयो निष्कम्पप्रवृत्तिहेतुरित्यर्थः / आश्लेषस्य निमित्तत्वादिति भावः / 'युक्तमननुष्ठानमिति युक्तं पूर्वदिने देवतावाहनाननुष्ठानमित्यर्थः / 1. निमित्तनिश्चयवानिति क० / 2. खदिरकाष्ठनिर्मितचरुरूपकरणविशेष इति ख०, ग० च / 3. व्रीहिपदं घृतान्यप्रयोगसाधने लाक्षणिकं, लक्षणा चेयमजहत्स्वार्था, ताहशसाधनत्वरूप लक्ष्यतावच्छेदकस्य शक्यलक्ष्योभयवृत्तित्वात् / Page #40 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः રહ अपि चेज्याकर्त्तव्यतानिश्चये तदङ्गानुष्ठानं, न चाश्लेषसंशये तन्निश्चयः पूर्वदिने। अतः प्रधानेऽधिकाराभावान्नाङ्गेऽधिकार इति नावाहनं पूर्वदिने। स्फ्याश्लेषनिमित्तनिश्चयस्य प्रधाने प्रवर्तकत्वेनाङ्गेऽपि प्रवर्तकत्वात् / तत्र प्रवर्तकस्य तदीयवैदिकाङ्गेऽपि प्रवर्तकत्वनियमात् / अत एव प्रधानचिकीर्षाया एव वैदिकाङ्गे प्रवर्तकत्वम् , प्रकृते च विनध्वंसो न निमित्तं , किन्तु व्यापार एव / अतस्तत्सन्देहेऽनुष्ठाने न किञ्चिद् बाधकमिति भावः। नन यत्राप्तवाक्यादिना पूर्वदिने भक्ताश्लेषनिश्चयस्तत्रावाहनप्रसङ्गः। न च निमित्तस्य स्वरूपसतो हेतुत्वेन तत्रापि न तद्नुष्ठानमिति' वाच्यं , तथा सति क्षयाहनिमित्तकश्राद्धादौ पूर्वदिने क्षयाहाभावात् तदङ्गनिरामिषभोजनाद्यकरणापत्तेरिति चेत् , न; यत्र पूर्व दिने भक्ताश्लेषनिश्चयः, तत्र पूर्वदिने देवतावाहनस्येष्टत्वात् / . प्रकारान्तरेणापि पूर्वदिने देवतावाहनाननुष्ठानमुपपादयति 'अपि चेति / 'तदङ्गानुष्ठान' तदीयवैदिकाङ्गस्य देवतावाहनस्यानुष्ठानम् , प्रधानकर्त्तव्यतानिश्चयस्य वैदिकाङ्गे निष्कम्पं प्रवर्तकत्वात् , 'कर्तव्यमिति निश्चित्य' इत्यादिस्मृतेरिति भावः / 'तन्निश्चयः' इज्याकर्तव्यतानिश्चयः / न चैवं क्षयाहनिमित्तकश्राद्धादावप्यशौचादिसन्देहेन कर्त्तव्यतासन्देहात् पूर्वदिने तदङ्गनिरामिषभोजनाद्यकरणापत्तिरिति वाच्यं, तत्रापि तर्कादिना मानसकर्त्तव्यतानिश्चयात् / अन्यथा न निष्कम्पं क्रियत एव / यद्वा सकलशिष्टाचारान्यथानुपपत्त्या तत्र उत्कटकोटिककर्त्तव्यतासंशयस्यैव प्रवर्तकत्वं, तदतिरिक्तस्थले च तन्निश्चयो हेतुरिति / वस्तुतस्तु इदमभ्युपगमवादेन; प्रधानकर्त्तव्यतानिश्चयस्य वैदिकाङ्गप्रवृत्तौ तदङ्गफले वा कारणत्वे मानाभावात् / अतः प्रथमपक्षमेवोपसंहरति 'अत' इति / 'प्रधाने' स्फ्याश्लेषेज्यायां , यः 'अधिकारः' निष्कम्पं प्रवर्तकः स्फ्याश्लेषनिमित्तनिश्चयः, तस्य पूर्वदिनेऽभावाद् न तदीयवैदिकाङ्गे देवतावाहने 'अधिकारः' निष्कम्पं प्रवर्तक इत्यर्थः।. ___ यद्वा अधिक्रियतेऽनेन इत्यधिकारः कर्त्तव्यतानिश्चयः, तेन प्रधाने कर्त्तव्यतानिश्चयाभावाद् नाङ्ग देवतावाहने 'अधिकारः' निष्कम्पं प्रवर्तक इत्यर्थः / तथा च चरमपक्षस्यैवायमुपसंहार इति ध्येयम् / 1. तादृशानुष्ठानमिति घ० / 2. कर्तव्यत्वानिश्चये निष्कम्पं क्रियत एवेति नेत्यर्थः / Page #41 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये ___यदि च 'यदि न स्यादिति न्यायेन कुर्यात् तदा अनधिकृतककत्वेन निष्फलं स्यात् / स्फ्याश्लेषे सतीज्याकर्त्तव्यतानिश्चयेऽपि नावाहनम्, पूर्वदिनस्याङ्गस्याभावादितीज्यायामावाहनबाध एव / ननु तथापि फ्याश्लेषरूपनिमित्तनिश्चयाभावेऽपि 'यदि न स्यात् ततः किं स्याद्' इति न्यायेन सकम्पप्रवृत्तौ बाधकाभावेन तादृशप्रवृत्त्या पूर्वदिनजनितदेवतावाहनात् फलोत्पत्तिप्रसङ्ग इत्यत आह 'यदी'त्यादि / सन्दिग्धे परलोकेऽपि त्याज्यमेवाशुभं जनैः / यदि न स्यात् ततः किं स्यादस्ति चेन्नास्तिको हतः // इति न्यायेनेत्यर्थः / 'कुर्यात्' पूर्वदिने सङ्कल्पं करोति; 'तदा' तथापि, 'अनधिकृतकर्तृकत्वेन' निष्कम्पप्रवृत्तिजनकनिमित्तनिश्चयाभाववत्कर्तृकत्वेन, 'निष्कलं स्यादिति निष्फलं भवतीत्यर्थः / निमित्तनिश्चयस्य स्वप्रयोज्यनैमित्तिकेज्याद्वारा तज्जन्यव्यापार प्रति हेतुत्ववत्तदीयवैदिकाङ्गजन्यव्यापारं प्रत्यपि स्वप्रयोज्यतदङ्गद्वारा हेतुत्वात् / न चैवमुपरागश्राद्धादावपि निमित्तीभूतोपरागादिसंशयात् कृतस्य तद्वैदिकाङ्गपूर्वदिननिरामिषभोजनस्य निष्फलत्वापत्तिरिति वाच्यम् , इष्टत्वात् / ___ यद्वा तत्रोपरागसंशयेऽपि शिष्टाचारादुत्कटकोटिकनिमित्तज्ञानमेव हेतुः, तदतिरिक्तस्थल एव निमित्तनिश्चयो हेतुरिति भावः / ननु तथाप्युत्तरदिने स्फ्याश्लेषेज्याकर्त्तव्यतानिश्चये जाते देवतावाहनकरणसम्भवात् तदपि देवतावाहनं फलजनकं स्यादित्यत आह 'स्फ्याश्लेष' इति, "निश्चयेऽपीति सतीति शेषः। 'नावाहनं' नोत्तरदिनकृतमावाहनम् , फलजनकमिति शेषः। 'अङ्गस्य' तज्जनिताङ्गापूर्वजनकस्य, 'आवाहनबाध एव' आवाहनस्य सफलत्वबाध एव। ननु पूर्वदिने देवतावाहनाकरणे स्फ्याश्लेषेज्यातः कथं फलसिद्धिः 1 अङ्गहानेन भवत्येव फलमिति चेत् , न; सकलवैदिकमीमांसकैः पूर्वदिने तदकृत्वापि तद्यागानुष्ठानात् / न चात एव न तत्र तस्याङ्गत्वमिति वाच्यम्, प्रकृतिवद्विकृतिरिति न्यायेन तदङ्गत्वस्यावश्यकत्वात् , न्यायलब्धसहकारित्वस्यापि मीमांसकैविधौ भानाभ्युपगमात् / न च नित्यवन्नैमित्तिकेऽपि किश्चिदङ्गहानावपि फलसिद्धिरिति वाच्यं, तर्हि पूर्वदिनस्याङ्गस्य बाधेऽप्युत्तरदिने देवतावाहनापत्तेः, 1. बुधैरिति ख०। Page #42 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः मङ्गले तु विनज्ञानवानधिकारीत्युक्तं, तच्च संशयेऽप्यस्ति / प्रधाने कर्तव्यतानिश्चयोऽस्त्येवेति द्वारसन्देहेऽपि युक्तमनुष्ठानम्। भविष्यद्विवाहादावाभ्युदयिकेऽपि तज्ज्ञानवानधिकारी तथैवाचारात् / नन्वङ्गानां प्रधानविधिविधेयत्वं, न च ग्रन्थादिसमाप्तौ प्रधानविधिरस्ति / न च तत्कर्त्तव्यता किश्चिदङ्गहानावपि कर्मनिष्पत्त्यभ्युपगमे तत एव यागनिष्पत्तिसम्भवेन प्रयत्नगौरवादङ्गाननुष्ठानापत्तेश्चेति, मैवं; स्फ्याश्लेषसंशयस्थले तस्यानङ्गत्वात् प्रकृतिवद्विकृतिरिति न्यायेनाङ्गत्वे कल्प्यमाने यत्र न बाधकं तत्रैव कल्पनात् / अत्र त्वधिकाराभावस्यैव बाधकत्वात् / यत्र त्वाप्तवाक्यादिना स्फ्याश्लेषनिश्चयस्तत्र पूर्वदिने तत्कर्त्तव्यमेवान्यथाङ्गबाधात् / अत एवैकादशाहक्रियमाणेऽधिवासाङ्गकगोयागविकृतीभूते वृषोत्सर्गेऽधिवासो नाङ्गं, कार्तिक्यादिक्रियमाणे त्वङ्गमेव / एवमशौचमध्यक्रियमाणे कर्मणि सन्ध्याया नाङ्गत्वं , तदतिरिक्तस्थले त्वङ्गत्वमेव / प्रकृतिविकृतिन्यायेनाङ्गत्वे कल्प्यमाने यत्राशौचादि बाधकान्तरं वा न वर्त्तते तत्रैवाङ्गत्वस्य कल्पनादिति दिक् / प्रकृतेऽनुष्ठानमुपपादयति 'मङ्गले विति, 'विघ्नज्ञानवानि ति विघ्नज्ञानमात्रं कारणमित्यर्थः / न चैवं द्वाराभावनिश्चयत्वेन प्रतिबन्धकत्वे गौरवं, लाघवात् 'तज्ज्ञानत्वेनैव प्रतिबन्धकत्वस्यैवोचितत्वादिति वाच्यम्, आचारानुमितश्रुत्या विनज्ञानमात्रस्य कारणत्वे बोधिते प्रामाणिकगौरवस्यादोषत्वादिति भावः। ननु 'नैमित्तिके निमित्तनिश्चयवानधिकारी'त्युक्तं तत्कथं विवाहादिनिमित्तसंशयेऽपि नैमित्तिकश्राद्धानुष्ठानम् ? इत्यत आह 'भविष्यदिति / तत्राचारबलाद् निमित्तज्ञानमात्रमेवाधिकार इत्यर्थः / 'नैमित्तिके निमित्तनिश्चयवानधिकारी'ति नियमो वृषोत्सर्गादाविति भावः। न च विवाहो न निमित्तं, किन्तु सीमन्तोन्नयनादिवद्विवाहे श्राद्धमङ्गमेव, तथा च तत्सन्देहेऽपि तत्र प्रवृत्तौ न किश्चिद् बाधकमिति कथं 'भविष्यदिति ग्रन्थोत्थितिः ? इति वाच्यं, नूतनगृहप्रवेशादौ लौकिकविवाहादौ च वृद्धिश्राद्धं नाङ्गम् , इष्ट पुंसवने चैव सीमन्तोन्नयने तथा / एतेष्वेव प्रधानेषु श्राद्धकर्माङ्गमिष्यते // इति वचनान्नैमित्तिकमेवेत्यभिप्रायात् / 1. द्वाराभावज्ञानत्वेनैवेत्यर्थः / Page #43 -------------------------------------------------------------------------- ________________ 32 तत्त्वचिन्तामणौ सरहस्ये बोधकस्य लौकिकप्रमाणस्य शास्त्रमेकदेशो युज्यते, तस्य तनिरपेक्षत्वादिति चेत् , न; अपूर्वजनकाङ्गानां तथात्वाद् , आचारानुमितश्रुत्या प्रधानविधि विनापि तदङ्गत्वविधानाच / / अन्ये तु ननु इज्याकर्त्तव्यतानिश्चयाभावात् पूर्वदिने तदङ्गानुष्ठानमित्ययुक्तम् , विवाहसन्देहेऽपि तदङ्गाभ्युदयिकाचरणादित्यत आह 'भविष्यदि'तीत्याहुः / मङ्गले व्यापकाभावात् प्रारब्धकर्मीयवैदिकाङ्गत्वासम्भवमाशङ्कते 'नन्वि'ति, 'अङ्गानां' तदीयवैदिकाङ्गानाम् / तदीयवैदिकाङ्गत्वञ्च प्राङ् निरुक्तमेव', यथाश्रुते लौकिकाङ्ग व्यभिचारापत्तेः, यागादेरपि शरीरात्मादेः यत्नादेश्च सहकारितारूपाङ्गत्वाश्रयतया तत्रापि व्यभिचारापत्तेश्च / 'ग्रन्थादिसमाप्तौ' ग्रन्थादिसमाप्तिस्थले, 'प्रधाने विधिरस्ति' प्रधाने-मङ्गलविधिप्रकारीभूतमङ्गलनिष्ठस्वसहकारिताके प्रारब्धकर्मणि', 'विधिरस्ति', तथा च तत्कर्त्तव्यताबोधकविधिसाकाङ्कविधिबोधितत्वस्य तदीयवैदिकाङ्गत्वव्यापकतया व्यापकाभावान्मङ्गले प्रारब्धकर्मवैदिकाङ्गत्वासम्भव इति भावः / ननु प्राथमिक विधित्वमतन्त्रं , गौरवात् / किन्तु तद्वोधकप्रमाणसाकाङ्कविधिविधेयत्वमेव तदीयवैदिकाङ्गत्वव्यापकं लाघवात् / तच्चानुमानादिलौकिकप्रमाणादावपि सम्भवत्येवेत्यत आह 'न चेति न वेत्यर्थः / 'शास्त्रम्' मङ्गलबोधकवेदः, 'एकदेशः' साकाङ्क्षः, 'तस्य' लौकिकप्रमाणस्य, 'निरपेक्षत्वादिति आकाङ्क्षायाः शब्दमात्रधर्मतया आकाङ्क्षाया अनिरूपकत्वादित्यर्थः / तथा चैतदपि मङ्गले नास्तीति भावः / 'अपूर्वजनकाङ्गानाम्' अपूर्वद्वारा तदीयवैदिकाङ्गानां, 'तथात्वात्' तद्विधिविधेयत्वनियमात्, तथा चोक्तनियमोऽप्रयोजक इति भावः।। , केचित्तु तथा चापूर्वद्वारकत्वम् उपाधिरिति भाव इत्याहुः ; तदसत्, योगाङ्गप्राणायामादौ भेषजपानाङ्गभेषजाभिमन्त्रणादौ च साध्याव्यापकत्वात् तेषां पापनाशादिद्वारैवाङ्गत्वात् / व्यभिचारमप्याह 'आचारेति'। 'प्रधानविधि विनापि' प्रारब्धकर्मविधिं विनापि, 'तदङ्गत्वविधानाच्च' तथाविधाचारानुमितश्रुत्या मङ्गलस्य प्रारब्धकर्मजन्यसमाप्तिजनकत्वप्रकारेण बोधनाच्च / तथा च साध्याभाववतो मङ्गलस्यैव निश्चितहेतुमत्त्वात् तत्रैव व्यभिचार इति भावः। यथा च मङ्गलविधेः प्रारब्धकर्मजन्यसमाप्तिजनकत्वप्रकारेण बोधजनकत्वं तथोपपादितमधस्तात् / 1. प्रधानफलातिरिक्तफलाजनकत्वे सति प्रधान जनकव्यापारजनकत्वेन वेदबोधितत्वरूपम् / 2. नैमित्तिकाने इति क० / 3. प्रधानकर्मणीति क० / 4. प्रधानविधिविधेयत्वनियमादित्यर्थः। 5. अपूर्वजनकत्वमिति ख०, ग• च / Page #44 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः अपि च प्रधानकर्तव्यताबोधकबोध्यकर्तव्यताकत्वं प्रयोजक, तच्चेहाप्यस्ति; प्रतिबन्धकामावस्य सकलकार्यहेतुत्वेन लौकिकप्रमाणस्यापि तत्सापेक्षत्वात् / नन यागादिवत् प्रधानदेशकालान्वयस्तदङ्गे मङ्गले स्यादिति चेत् , न; असाधारणेपूर्वजनके चाङ्गे तदन्वयात् / उभयत्रैव विधित्वमतन्त्रं गौरवादित्याशयेनाह 'अपि चेति / 'प्रधाने ति प्रधानकर्तव्यताबोधकापेक्षणीयबोध्यकर्तव्यताकत्वमित्यर्थः। 'प्रयोजकम्' वैदिकाङ्गत्वव्यापकम् / 'इहापि' मङ्गलेऽपि, 'प्रतिबन्धकामावस्य' मङ्गलजन्यविघ्नध्वंसस्य, 'सकलकार्यहेतुत्वेन' सकलप्रारब्धकर्मजन्यसमाप्तिहेतुत्वेन, 'लौकिकप्रमाणस्यापि' प्रारब्धकर्मकर्तव्यताबोधकलौकिकप्रमाणस्यापि, 'तत्सापेक्षत्वात्' मङ्गलकर्तव्यताबोधकसापेक्षत्वात् / एतच्चापाततोऽपेक्षाया दुर्वचत्वात् / ननु तद्देशकालसहकारेणैव व्यापारजनकत्वस्य तदीयवैदिकाङ्गत्वव्यापकतया मङ्गलस्य प्रारब्धकर्मवैदिकाङ्गत्वे तद्देशकालसहकारेणैव विघ्नध्वंसजनकत्वं स्यात् / न चेष्टापत्तिः, देशान्तरे कालान्तरेऽपि शिष्टमङ्गलाचरणादित्याशङ्कते 'यागादिवदिति अङ्गयागादिवदित्यर्थः / 'प्रधानदेशकालान्वय:' प्रारब्धकर्मदेशकालसहकारेणैव व्यापारजनकत्वं, 'तदङ्ग तदीयवैदिकाङ्गे। क्वचित्त वतिशून्यः पाठः, तत्र यागादि यत्प्रधानं तद्देशकालान्वयो यागाद्यङ्ग स्यादित्यर्थः। यद्यपि स्थूलदेशकालावादाय मङ्गलस्यापि तदुभयान्वयसम्भवः, सूक्ष्मदेशकालावादाय प्रयाजादेरप्यसम्भवः, तथापि प्रधानकर्त्तव्यताबोधकप्रमाणेन यादृशापराहादिकाले दक्षिणाप्लवनादिदेशे प्रधानानुष्ठानं बोधितं, तदीयवैदिकाङ्गानां तथाविधदेशकालसहकारेणैव व्यापारजनकत्वनियम इत्यर्थः / लौकिकस्य प्रधानत्वे त देशकालनियमः केनापि न बोधित इति भावः। ____ 'असाधारण' इति / 'अङ्गे वैदिकाङ्गे, 'तदन्वयात्' प्रधानदेशकालसहकारेणैव व्यापारजनकत्वनियमात् / अत्रापूर्वजनकाङ्गत्वमात्रं शिखाबन्धने व्यभिचारीति तद्वारणाय 'असाधारणे'ति, असाधारणत्वञ्च न यावद्वैधकर्माङ्गान्यत्वं, शिखाबन्धनस्यापि वामागमबोधिताद्यनङ्गत्वेन तथात्वात् ; किन्तु वैधेफलजनकतावच्छेदकद्वयावच्छिन्नस्यानङ्गत्वम् / न च शिखाबन्धनं तथा, बहुतरकर्माङ्गत्वात् / दक्षिणागमबोधितयावत्कर्मानङ्गत्वं वा तत् / शिखाङ्गकयावत्कर्माङ्गान्यत्वं तदिति केचित् / असाधारणत्वमानं पापक्षयद्वारा यागाङ्गभूते 1. प्रारब्धकर्माङ्गकत्वे इति का / 2. यावतां वैधकर्मणां यदङ्गं तदन्येषामित्यर्थः / 3. वैधेति फलाद्यवच्छिन्नान्तस्य विशेषणम् / Page #45 -------------------------------------------------------------------------- ________________ वस्वचिन्तामणो सरहस्ये आसनप्राणायामादौ व्यभिचारीति तद्वारणाय 'अपूर्वजनके'ति / अपूर्वजनकाङ्गत्वश्च अपूर्वद्वाराङ्गत्वम् , अन्यथा समाप्तिकामनया दिनान्तरक्रियमाणे शिवपूजादिरूपमङ्गले आनषङ्गिकादृष्टजनके व्यभिचारापत्तः / न च पूर्वदिनविहिताधिवासाश्वमेघाङ्गभूताश्वरक्षण-लक्ष्मीपूजाङ्गचतुष्पथदीपदानादौ२ व्यभिचार इति वाच्यं, विशेषविधिं विनेति विशेषणात् / / ननु केशस्य त्रिवृतसंयोगविशेषः शिखा, तद्वन्धनश्च तदनुकूलक्रिया, सा च नाङ्गं, किन्तु शिखैव, 'विशिख' इति श्रवणात् ; तस्याश्च नापूर्वद्वाराङ्गत्वं, स्थिरत्वेन परमापूर्वकालपर्यन्तस्थायित्वात् / तथा च किमसाधारणत्वविशेषणेन ? अपूर्वजनकत्वदानेनैव वारणात् / न च शौचादिहेतुमृद्ग्रहणादौ व्यभिचारवारणाय तदिति वाच्यं, तस्याप्यपूर्वाजनकत्वाद् , अंशुद्धधात्मकवैधकर्मप्रतिबन्धकादृष्टध्वंसरूपत्वात् शौचपदार्थस्येति / मैवं शिखामात्रं हि नाङ्गं, किन्तु मन्त्रविशेषविशिष्टैव, अन्यथा मन्त्रोपदेशवैयाद्, विशिष्टा च न परमापूर्वपर्यन्तस्थायिनी, मन्त्रस्यास्थिरत्वाद्; अतोऽदृष्टं द्वारमावश्यकम् / न च विशिष्टस्य तावत्कालानवस्थायित्वेऽपि न क्षतिः, कारणतावच्छेदकपूर्वसत्त्वस्यानपेक्षितत्वादिति वाच्यं, तत्पूर्वसत्त्वमप्यपेक्षितमित्यन्यत्रे व्यवस्थापितत्वाद्, अन्यथा व्यभिचारात् / माँस्तु वा कारणतावच्छेदकपूर्वसत्त्वमपेक्षितं, तथापि मन्त्रपूर्वकशिखाबन्धनानन्तरं जुटिकाबन्धनादिकाले कराभिघातादिना मन्त्रपूर्वकसंयोगविशेषात्मकशिखानाशेऽपि कर्मणोऽङ्गवैगुण्यवारणायादृष्टं द्वारमावश्यकम् / न चादृष्टस्य द्वारत्वेऽदृष्टोत्पत्त्यनन्तरं शिखामोक्षणेऽपि कर्म साङ्गं स्यादिति वाच्यम् ; मोक्षणस्य स्वप्रतियोगिजन्यत्वसम्बन्धेनादृष्टनाशकत्वात् / मोक्षणश्च न मन्त्रपूर्वक 1. शिवनमस्कारादिरूपमङ्गले इति ख०, ग० च / 2. अश्वरक्षणादाविति ख०, ग० च / / 3. अशद्धधात्मकप्रतिबन्धकाधर्मध्वंसरूपत्वादिति क०। 4. कारणतावच्छेदकस्य पूर्वसत्त्वमित्यर्थः / 5. श्रोत्रस्य श्रावणहेतुत्वोपपादनस्थल इत्यर्थः / 6. कारणतावच्छेदकस्य पूर्वसत्त्वानपेक्षणे श्रोत्रगतायाः श्रावणकारणताया अवच्छेदिकायाः कर्णशष्कुल्या असत्त्वदशायां तदवच्छिन्नाकाशात्मनः श्रोत्रस्य सत्त्वेऽपि श्रावणानुत्पत्त्या अन्वयव्यभिचार इति भावः / / 7. श्रोत्रस्य कर्णशष्कुलीविशिष्टाकाशत्वेन न कारणता, तादृशाकाशत्वेनाकाशविशिष्टकर्ण शष्कुलीत्वेन वा कारणतेत्यत्र विनिगमकाभावेन गुरुतरकार्यकारणभावद्वयापेक्षया आकाशकर्णशष्कुल्योर्द्वयोरेव कारणतया कर्णशष्कुल्याः कारणतानवच्छेदकत्वेनोक्तरीत्या कारणतावच्छेदकस्य पूर्वसत्तायाः समर्थयितुमशक्यत्वादित्याशयः / Page #46 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः अत एव बद्धशिखत्वादौ न प्रधानदेशकालान्वयः। न च दुरिताभावे स्वतः सिद्धे साङ्गमङ्गलानुष्ठानं निष्फलमिति तद्वेदाप्रामाण्यम् / तत्संयोगविशेषध्वंसमात्र, तथा सति जुटिकाबन्धनादिकाले कराभिघातादिना तादृशसंयोगविशेषनाशेऽदृष्टनाशात् कर्मणो निष्फलत्वापत्तितादवस्थ्यं, किन्तु तादृशसंयोगविशेषसामग्र्यसमवहितोत्पत्तिकमन्त्रपूर्वकतत्संयोगविशेषनाश एव मोक्षणमिति भावः। त्वन्तानुयायिनस्तु निरुक्तमोक्षणं न तददृष्टनाशकं, किन्त्वनापूर्ववत् स्वजन्यपरमापूर्वान्तरमेव तददृष्टनाशकं, मोक्षणेऽपि कर्म साङ्गं भवत्येव, किन्तु “सदोपवीतिना भाव्यं सदा बद्धशिखेन तु" इत्यनेन सार्वकालिकशिखाधारणस्यापि विहिततया तंदकरणात् पुरुषस्य प्रत्यवायमात्रम् / न च स्वजन्यपरमापूर्वस्य तदपूर्व. नाशकत्वे यत्रैकयैव शिखया नानाकर्मानुष्ठानं, तत्र प्रथमकर्मजन्यपरमापूर्वेणैव तज्जन्यापूर्वनाशाद् द्वितीयादिकमणोऽङ्गवैगुण्यापत्तिरिति वाच्यम् , प्रथमकर्मजन्यपरमापूर्वेण तदपूर्वनाशेऽप्यवस्थितशिखया पुनरपूर्वान्तरजननात् / न च मन्त्रपूर्वकशिखाया उत्पत्तिसम्बन्धेनैवा पूर्वजनकत्वम् , अन्यथा धारावाहिकापूर्वोत्पत्तिप्रसङ्गादिति कथमवस्थितशिखयाऽपूर्वान्तरोत्पत्तिरिति वाच्यं , शिखाजन्याङ्गापूर्व प्रति शिखाजन्याङ्गापूर्वस्य प्रतिबन्धकत्वादेव धारावाहिकापूर्वानुत्पत्तेः, क्रमिकशिखाद्वयस्थले द्वितीयशिखयाऽपूर्वाजननेऽपि क्षतिविरहात् प्राथमिकशिखाजन्यापूर्वत एव कर्मसाङ्गतोपपत्तेरित्याहुः / 'बद्धशिखत्वादाविति शिखाबन्धनादावित्यर्थः / यद्वा बद्धशिखादावित्यर्थः, तेन बन्धनस्यानङ्गत्वेऽपि न क्षतिः / 'न प्रधानदेशकालान्वयः' न प्रधानदेशकालसहकारेणैवाङ्गापूर्वजनकत्वनियमः / 'न चे'ति, 'स्वतः सिद्धे' दुरितकारणाभावप्रयुक्ते, 'निष्फलं' विनध्वंसानुपधायकं, ध्वंसं प्रति प्रतियोगिनोऽपि हेतुत्वादिति भावः / 'तद्वेदाप्रामाण्यमिति विशेषणीभूतविघ्नध्वंसं प्रत्यपि जनकताबोधकस्य निर्विघ्नसमाप्तिकामो मङ्गलमाचरेद्' इति विशिष्टसमाप्तिकारणताबोधकवेदस्याप्रामाण्यमित्यर्थः। 1. कर्मणोऽङ्गवैगुण्यतादवस्थ्यादिति ख० , ग० च / 2. तादृशेत्याद्युत्पत्तिकान्तं नाशस्य विशेषणम् / तदुपादानेन जुटिकाबन्धनस्थलीयस्य काराभिघातादिजस्य शिखानाशस्य न मोक्षणत्वं, तस्य जुटिकात्मकताशसंयोग विशेषसामग्र्या समवहितत्वात् / 3. त्वन्तं 'किन्तु' इति, तदनुयायिनः तेनोक्तस्य शिखामात्रं नाङ्गम्, किन्तु 'मन्त्रविशिष्टव शिखा' इति मतस्यानुयायिन इत्यर्थः। 4. शिखाधारणस्याकरणादित्यर्थः / Page #47 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये लोकावगतकारणे हि दुरिते सति वेदेन तस्य तद्ध्वंसजनकत्वं बोध्यते; न तु तदुल्लङ्घय / अत एव तत्त्वज्ञानवतो भोगार्थ निषिद्धानुष्ठानं दोषाभावानाधर्मजनकमिति न तद्वेदाप्रामाण्यम् / प्रमाणान्तरात् स्वतः सिद्धदुरिताभावावगतौ मङ्गलाकरणे नित्यवदनुष्ठानं शिष्टानां भज्येतेति चेत् , न; विघ्नज्ञानवतो नित्यवदनुष्ठानादिति सम्प्रदायो। मैवम् , मङ्गलं विनापि प्रमत्तानुष्ठितसमाप्तेः। यद्यपि फलोपधायकत्वं न विध्यर्थः, किन्तु स्वरूपयोग्यत्वं, तस्य च सहकारिविरहेण क्वचित् फलानुपधानेऽपि सम्भवात् कुतोऽप्रामाण्यम् ? तथापि साङ्गवैदिककर्मत्वव्यापकं फलोपधानम्। अतस्तदभावेन साङ्गे तस्मिन् साङ्गवेदबोधितकर्मत्वाभावः सिध्यन् तद्बोधकविधेर्वेदत्वाभावमादाय सिध्यति, वेदत्वाभावश्च सिध्यन् शब्दतदुपजीविप्रमाणातिरिकप्रमाणजन्यप्रमित्यविषयार्थके तस्मिन् प्रमाणत्वाभावमादायैव पर्यवस्यतीति क्रमेणाप्रामाण्यं स्यादिति भावः / 'लोकावगतकारणे होति / 'हि' यस्मात् , 'लोकावगतकारणे दुरिते सती ति योजना, 'वेदेन' वेदसहकृतप्रमाणान्तरेण, वेदस्य फलोपधायकत्वाबोधकत्वाद् यथाश्रुतासङ्गतः। 'तस्य' मङ्गलस्य, 'तद्ध्वंसजनकत्वं' दुरितध्वंसोपधायकत्वम् , 'न तु तदुल्लध्य' न लोकावगतकारणदुरितं विना / तथा च दुरितध्वंसजनने दुरितस्याप्यङ्गतया साङ्गत्वाभावादेव तत्र विशिष्टाभावसिद्धिः, न तु वेदस्य प्रामाण्याभावादिति भावः / एतदेव दृष्टान्तेन द्रढयति 'अत एवेति / 'निषिद्धानुष्ठानम्' इत्युपलक्षणम् / विहितानुष्ठानमपि न धर्मजनकमित्यपि बोध्यम् / 'मङ्गलाकरण' इति, निष्फलत्वादिति भावः / 'विघ्नज्ञानवत' इति, तथा च सर्वेषां शिष्टानां नित्यवदनुष्ठानमेवासिद्धमिति भावः / 'सम्प्रदायः' मीमांसकसम्प्रदायः। इह खलु 'सकलशिष्टैकवाक्यतया' इत्यारभ्य सम्प्रदायमतं, तद् दूषयति 'मैवमिति / मङ्गलव्यापारीभूतस्य तज्जन्यविन्नध्वंसस्य स्वोत्पत्त्यवच्छेदकजातीयतासम्बन्धेन फलीभूतसमाप्तिकर्तृशरीरनिष्ठतया समाप्तिकारणत्वम् , उत आश्रयता. सम्बन्धेन तादृशात्मनिष्ठतयों वा ? आये व्यभिचारमाह 'मङ्गलं विनापी'त्यादिना / 'मङ्गलं विनापि' ऐहिकमङ्गलं विनापि, 'प्रमत्तानुष्ठिते'ति, प्रमत्तनास्तिकशरीरे कर्तृता 1. सम्प्रदाय विद इति ख० / 2. वेदत्वं च नाम शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकप्रमाणशब्दत्वम् / 3. कष्टकफलत्वादितीति ग० / 4. सम्प्रदायविदां मतमिति ख० / 5. फलीभूतसमाप्तिकर्तृ निष्ठतयेत्यर्थः / Page #48 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः न च तेन विनापि सिद्धतस्तदङ्गम् / न च जन्मान्तरीयं तत् , जन्मान्तरीयग्रन्थादिकमुद्दिश्य शिष्टैस्तदकरणात् / ननु यथा पुढेष्टौ कर्मसाद्गुण्ये ऐहिकफलाभावे आमुष्मिकं फलं, तथा साङ्गेऽपि मङ्गले यत्र न फलं तत्रामुष्मिकफलमिति चेत् , न; तत्र पुत्रमात्रस्य कामनाश्रवणात् / इह तु प्रारिप्सितसमाप्तिकामनया मङ्गलाचार इति, तथैव वेदानुमानात् कारीरीवदासनसमयारब्धसमाप्तिः फलम् / सम्बन्धेन समाप्त्युत्पत्तरित्यर्थः। तथा चैहिकमङ्गलाभावेन समाप्तिकर्तरि तच्छरीरे वा विघ्नध्वंसस्योत्पत्तेरवश्यम्भावात् स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन विघ्नध्वंसो व्यभिचारीति भावः / ननु जन्मान्तरीयशरीरकृतमङ्गलादेव प्रमत्तादिशरीरे विघ्नध्वंसोत्पत्तिरित्यतो न व्यभिचार इत्यत आह 'न चेति / 'तेन विनापि' अव्यवहितपूर्वक्षणे तेन विनापि, 'सिद्धतः' उत्पद्यमानस्य, 'तदङ्गम् तत्कारणम् , तथा च जन्मान्तरकृतमङ्गलानास्तिकशरीरे विघ्नध्वंसोत्पादे विघ्नध्वंसं प्रति मङ्गलं कारणमेव न स्याद् , अव्यवहितपूर्ववर्तित्वस्य कारणताशरीरत्वादिति भावः / अन्त्यमभिप्रेत्य शकते 'न चेति / 'जन्मान्तरीयमिति जन्मान्तरीयमङ्गलाज्जन्मान्तरोत्पन्नं विघ्नध्वंसवत्त्वमित्यर्थः / 'तत्' प्रमत्तकर्त्त कसमाप्तौ कारणम् , 'जन्मान्तरीयग्रन्थमुद्दिश्य'ति जन्मान्तरीयग्रन्थसमाप्तिमुहिश्येत्यर्थः / तथा च जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्य मङ्गले शिष्टप्रवृत्त्यापत्त्या यथोक्तक्रमेण मङ्गलस्य न समाप्तिकारणत्वमिति भावः। पुत्रेष्टिरपि जन्मान्तरीयपुत्रमुद्दिश्य न क्रियत इति भ्रमेणाशङ्कते 'ननु यथेति / तथा च तत्र यथा जन्मान्तरीयपुत्रमुद्दिश्य शिष्टैः करणप्रसङ्गरूपबाधकसत्त्वेऽप्यात्मनिष्ठतया व्यापारीभूतस्यादृष्टस्य हेतुत्वं , तथात्रापि विघ्नध्वंसस्यात्मनिष्ठतयैव हेतुत्वमिति भावः। भ्रमं निराकृत्य दूषयति 'तत्रे'ति / 'कामनाश्रवणादित्यस्य' जन्मान्तरोयपुत्रमुद्दिश्यापि शिष्टैः करणादिति शेषः।। 'इह त्वि'ति फलमित्यन्तमेको ग्रन्थः, 'प्रारिप्सितसमाप्तिकामनया मङ्गलाचारः' प्रारिप्सितसमाप्तिकामनयैव मङ्गलाचारः। जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यर न मङ्गलाचार इति यावत् / 'तथैव' स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन फलीभूतसमाप्तिकर्तृशरीरनिष्ठतया मङ्गलजन्यविनध्वंसस्य समाप्तिकारणताबोधकत्वेनैव / 'वेदानुमानात्' वेदस्यानुमेयत्वात् , 'आसन्नसमयेति मङ्गलानुष्ठानसन्निहितसमयेत्यर्थः / 'फलं' फलोपधानात्मकमङ्गलजन्यताश्रयः। 1. जन्मान्तरीयग्रन्थादिकमुद्दिश्येतीति ग० / 2. मङ्गलजन्यविघ्नध्वंसस्येति ख० / 3. स्वोक्तेवकारव्यवच्छेद्यमाह जन्मान्तरीयेति / Page #49 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहत्ये - नन्वासन्नसमयस्तत्सम्बन्धो वा न मङ्गलजन्य इति समाप्तिमात्रं जन्यं, तच्चैहिकामुष्मिकसाधारणमिति चेत् , न; आसन्नसमयस्य स्ववृत्तिसमाप्त्युपलक्षकत्वात्। अन्यथा कारीयेपि नासन्नसमयफला स्यात् / तस्माद् व्यभिचारान्न तदङ्गमिति / अन्ये तु मङ्गलं प्रधानम् , अदृष्टद्वारा आरब्धकर्मसमाप्तिः फलम् , तत्कामोऽधिकारी; क्वचित्तु फलाभावः, कर्मादिवैकल्यात् , कारीरीवत् / आसन्नसमयस्य विशेषणत्वमभिप्रेत्य शङ्कते 'नन्वि'ति / 'स्ववृत्ती'ति, आधेयतया मङ्गलफलीभूतसमाप्तीनां परिचायकत्वादित्यर्थः। तथा च तत्र मङ्गलकार्यत्वान्वयेऽपि न क्षतिरिति भावः। 'तस्मादि'ति, 'व्यभिचारात्' नास्तिकसमाप्तौ स्वोत्पत्यवच्छेदकजातीयत्वसम्बन्धेन मङ्गलजन्यविघ्नध्वंसस्य व्यभिचारात् , 'न तदङ्गमिति न स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन फलीभूतसमाप्तिकर्त्त शरीरनिष्ठतया समाप्तिजनकीभूतं विघ्नध्वंसं द्वारीकृत्य मङ्गलं समाप्तिजनकमित्यर्थः / यद्यपि सति विघ्ने तध्वंसद्वारा तस्याङ्गत्वादिति पूर्वमभिधानाद् विघ्नस्थलीयसमाप्तित्वमेव कार्यतावच्छेदकम् , तथा च नास्तिकशरीरकर्तृकसमाप्तौ व्यभिचारेऽपि न क्षतिः, तत्कतकसमाप्तः कार्यतावच्छेदकानाक्रान्तत्वात् / न च तादृशसमाप्तित्वस्य कार्यतावच्छेदकत्वं वेदेन न बोध्यत इति वाच्यम् , कारणतामानं हि वेदो बोधयति, कार्यतावच्छेदकञ्चोत्तरकालकल्प्यम् , तथापि विघ्नस्थलीयत्वं विघ्नवज्जातीयशरीरकत कत्वम् , तच्च तादृशशरीरनिष्ठकृतिजन्यत्वम् / तथा च कृतौ समाप्तिजनकतायां गृहीतायामेव मङ्गले समाप्तिकारणताग्रहसम्भवादन्यथासिद्धिः, अतो न तत् कार्यतावच्छेदकम् , किन्तु समाप्तित्वमात्रम् / अतो नास्तिकसमाप्तिरपि कार्यतावच्छेदकाक्रान्तेति भावः / एतच्चोपलक्षणम्। विघ्नवज्जातीयशरीरनिष्ठकृतिजन्यत्वस्य चानुगतस्य अभावादनन्तकार्यकारणभावापत्तेश्वेत्यपि बोध्यम् / मीमांसकैकदेशिमतमाह 'अन्ये विति / 'प्रधानम्' आरब्धकर्मणो नाङ्गम् , न आरब्धकर्मजन्यसमाप्तिजनकमिति यावत् / आरब्धकर्मजन्यसमाप्तिश्च चरमवर्णरूपा, तध्वंसरूपा वा। एतच्चापूर्वद्वारकत्वे लौकिकफलाङ्गत्वविरोध इति पूर्वोक्तदोषवारणायाभिहितम् / 'आरब्धकर्मसमाप्तिः' आरब्धकर्मोत्पत्तिः, “फलं' तस्य फलम्, सा चातीन्द्रियत्वेनालौकिकी एवेति भावः / ___ नन्वेवं विघ्नध्वंसकामनया मङ्गले शिष्टप्रवृत्तिर्न स्यादित्यनेष्टापत्तिमाह 'तत्काम' इति / आरब्धकर्मोत्पत्तिकामनैव मङ्गले शिष्टप्रवृत्तिजनिका, न तु विघ्नध्वंस Page #50 -------------------------------------------------------------------------- ________________ 36 न चान्यदापि करणम्, नियतकालीनतादृशाचारेण 'फलवकर्मारिप्समानस्तत्समाप्तिकामो मङ्गलमाचरेद्' इति श्रुत्या आरम्भसमयकर्त्तव्यताबोधनात् / यथा “अग्नावैष्णवमेकादशकपालं चरु निर्वपेद् दर्शपूर्णमासावारिप्समानः" इति श्रुत्या आरम्भणीयेष्टेः प्रधानाया दर्शारम्भसमयकर्त्तव्यत्वम् , कामनोपाधिकार्यत्वेऽप्यारम्भसमये' नियतमनुष्ठानम् , आरब्धकर्मसमाप्त्यर्थिनोपायत्वेनावश्यं तदनुष्ठानात् / न च काम्यत्वे परिसमाप्तिकामनां विना फलवकर्मारम्भेऽपि तदनुष्ठानं न स्यादिति वाच्यं, समाप्तं कर्म फलायालमिति फलार्थिनः समाप्तौ कामनेत्यर्थः / तथा च श्रुतिरपि तथैवोन्नेया, न तु “निर्विघ्नसमाप्तिकामो मङ्गलमाचरेद्" इत्याकारिकेति भावः / 'कर्मादी'त्यादिपदात् कर्त साधनयोः परिग्रहः / 'अन्यदापि' आरब्धकर्मप्राक्कालातिरिक्तकालेऽपि, 'करणमिति अपूर्व जनयत्विति शेषः। 'आरम्भसमयकर्त्तव्यताबोधनादि'ति आरब्धकर्मपूर्वसमयकर्तव्यताबोधनादित्यर्थः। तथा च तज्जन्यापूर्व प्रति तादृशसमयस्यापि हेतुत्वादन्यदा तत्करणान्नापूर्वमिति भावः / 'अग्नावैष्णवमि'ति छान्दसः, अग्नौ वैष्णवमेकादशकपालं चरुं निर्वपेदित्यर्थः / यद्वा अग्निदेवताकविष्णुदेवताकमेकादशकपालं तत्र संस्कृतं चरु निर्वपेदित्यर्थः; अग्निश्च विष्णुश्च अग्नाविष्णू , तौ देवते अस्येति व्युत्पत्तेः। 'प्रधानायाः' दर्शजन्यफलाजनिकायाः, 'कर्तव्यत्वमिति बोध्यत इति शेषः। .. ननु मङ्गलस्याङ्गत्वेऽङ्गवैगुण्यभिया अनायत्या आरम्भसमयेऽवश्यं तत्करणं घटते, अनङ्गत्वे चारम्भसमयेऽवश्यं कथं तत्करणम् ? न ह्यारम्भणीया दर्शसमयेऽवश्यं क्रियत इति नियम इत्यत आह 'कामनोपाधिकार्यत्वेऽपी'ति फलान्तरकामनाधीनेच्छाजन्यकृतिविषयत्वेऽपीत्यर्थः। 'आरम्भसमये आरब्धकर्मपूर्वसमये, 'आरब्धकर्मसमाप्त्यथिना' आरब्धकर्मोत्पत्त्यर्थिना आरब्धकर्मका, 'उपायत्वेन' तादृशोत्पत्तिरूपेष्टसाधनत्वेन, 'अवश्यं तदनुष्ठानादिति अवश्यमारब्धकर्मपूर्वसमये तस्य ज्ञानादित्यर्थः। तथा चेष्टसाधनताज्ञाननियमेन इच्छानियमात् प्रवृत्तिनियम इति भावः। नन्वेवं यत्रोत्पत्तिकामनां विनैव कर्मारब्धं, तत्र मङ्गलं नानुष्ठीयेतेत्याशङ्कते 'न चेति / 'काम्यत्वे' आरब्धकर्मोत्पत्तिकामनाधीनकामनाविषयत्वे, 'परिसमाप्तिकामनां विना' आरब्धकर्मोत्पत्तिकामनाविरहेण, 'समाप्तं कर्म' उत्पन्न कर्म, 'अलं' समर्थ, 'फलाथिनः' ग्रन्थप्रयोजनकीर्त्यर्थिनः, 'समाप्तौ' उत्पत्ती, आरभ्भकाले इति क० / 2. यत्र विशेष्यतासम्बन्धेनेष्टसाधनताज्ञानं तत्रैव विशेष्यतासम्बन्धेनेच्छा प्रवृत्तिश्चेति नियम इत्याशयः। Page #51 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये कामनावश्यंभावादिति / तन्ना कारीरीजन्यातिशयवद्विहितप्रधानजन्यातिशयत्वान्मङ्गलजन्यापूर्वस्यापि फलसम्पादकाशेषकारणसम्पादकतया 'अवश्यम्भावादिति तदभावेऽननुष्ठानमिष्टमेवेति भावः। 'विहिते'ति विहितजन्यप्रधानापूर्वत्वादित्यर्थः। विहितजन्यप्रधानापूर्वस्य फलसम्पादकाशेषकारणसम्पादकत्वनियमादिति भावः / अत्र फलपदस्येष्टपरतयो पापे व्यभिचारवारणाय 'विहितजन्ये ति / विहितत्वं बलवदनिष्टाननुबन्धित्वेन वेदबोधितत्वम् / तेन श्येनजन्यपापे न व्यभिचारः / विहितजन्यत्वमात्रोक्तौ फले व्यभिचार इत्यतः 'प्रधानापूर्वे'ति, अजनितप्रधानापूर्वाङ्गापूर्वे व्यभिचारवारणाय प्रधानेत्यपूर्वविशेषणं, प्रधानेत्यस्य विहितेन सहान्वयेऽङ्गप्रधानोभयरूपशिखादिना३ अङ्गविधया जनितेऽपूर्वे व्यभिचारापत्तेः। फलशिरस्कापूर्वमेव प्रधानापूर्वम् / तेन दक्षिणादानादिविनाकृतप्रधानजन्यापूर्वे न व्यभिचारः / कीर्तनाद्यनाश्यत्वमप्यपूर्वविशेषणं, तेन तन्नाश्ये न व्यभिचारः। फलोपधायकत्वस्य साध्यत्वात् स्वरूपयोग्यत्वस्य मङ्गलजन्यादृष्टेऽपि सत्त्वात् / यदि च सत्यपि अपूर्वे सत्प्रतिपक्षवत् प्रतिकृत्या प्रतिबन्धाद् न फलोदय इत्युपगम्यते, तदा तदप्रतिरुद्धत्वेनाप्यपूर्व विशेषणीयमिति। न च मङ्गलजन्यापूर्वाप्रसिद्धया पक्षाप्रसिद्धेः कथमिदमापादनमिति वाच्यम् ; मङ्गलं यदि विहितत्वे सति प्रधानापूर्वजनकं स्यात्, तदा फलसम्पादकाशेषकारणसम्पादकापूर्वजनकं स्यादित्यापादनात् / पापजनके कर्मणि व्यभिचारवारणाय सत्यन्तं, पक्षतावच्छेदकावच्छेदनापाद्यसिद्धेरुद्देश्यत्वादिति दिक् / 1. अन्यथा फलपदस्येष्टानिष्टसाधारणफलसामान्यपरत्वे पापस्याप्यनिष्टसम्पादकाशेष कारणसम्पादकतया तत्र व्यभिचारो न स्यादिति भावः / / 2. विहितत्वस्य वेदबोधितत्वमात्ररूपत्वे श्येनजन्यपापे व्यभिचारः स्यात्, श्येनस्यापि वेदबोधितत्वादित्याशयः। 3. आदिना उपवीतपरिग्रहः / 4. प्रतिकृत्या-दुरितेनेत्यर्थः / 5. सत्प्रतिपक्षरूपदुरितेन प्रतिबन्धादिति क०; प्रतिकृत्या प्रतिरोधादिति ख० / सत्प्रतिपक्षभूतदुरिताप्रतिबद्धत्वेनेत्यर्थः / पक्षतावच्छेदकसामानाधिकरण्येनापाद्य सिद्धरुद्देश्यत्वे उक्तापादनं न सम्भवति, तादृश्यामापाद्यसिद्धौ पक्षतावच्छेदकावच्छेदेनापाद्याभावनिश्चयस्यापेक्षितत्वात्, मङ्गलविशेष उक्तापाद्यस्य सत्त्वेन मङ्गलत्वावच्छेदेन फलसम्पादकाशेषकारणसम्पादकापूर्वजनकत्वाभावनिश्चयस्य दुर्घटत्वात् / पक्षतावच्छेदकावच्छेदेनापाद्यसिद्धरुद्देश्यत्वे चोक्तापादनं निर्बाध सङ्गच्छते / तादृशसिद्धावपेक्षितस्य पक्षतावच्छेदकसामानाधिकरण्येन आपाद्याभावनिश्चयस्य मङ्गलविशेष उक्तापाद्याभावस्य सत्त्वेन सुलभत्वादिति भावः / Page #52 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः आरब्धकर्मसमाप्त्यवश्यम्भावापत्तेः फलावश्यम्भावनिश्चयं विना वैदिककर्मानमुष्ठानात् / न चैवम्, भूयसि साङ्गेऽपि मङ्गले कचिदारब्धसमाप्त्यभावात् / न च तत्रामुष्मिकं फलम् , ऐहिकमात्रफलत्वात् , वैदिककर्मणः फलावश्यम्भावनागन्तुकदुरितेनाप्यप्रतिबन्धात् / किञ्च, यथा कार्यादिकमग्रिमपुरुषव्यापार विनैव फलहेतुः, तथा मङ्गलमपि तेन विनैव हेतुः स्यात् / न चैवम् / लोकावगतकारणत्वात् तदपेक्षेति चेत् , तर्हि स एव हेतुरस्तु, किमनेन ? आरब्धकर्मजनकदृष्टकारणसम्पत्तौ पुत्रेष्टिवत्तत्समाप्तिसाधनत्वं 'आरब्धकर्मसमाप्त्यवश्यंभावापत्तरिति मङ्गले कृते सर्वत्रैवारब्धकर्मोत्पत्त्यापत्तेरित्यर्थः / नन्विदमप्रयोजकमित्यत आह 'फलावश्यम्भावेति तन्निश्चयश्च नोक्तनियमं विनेति भावः। ___इष्टापत्तिमाशङ्क्याह 'न चैवमि'ति / न च मङ्गले कृतेऽवश्यमारब्धकर्मोत्पत्तिरित्यर्थः। 'भूयसी'ति प्रौढ्या / 'समाप्त्यभावात्' उत्पत्त्यभावात्, ‘ऐहिकमात्रे'ति स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन फलीभूतारब्धकर्मोत्पत्तिजनककर्तृशरीरनिष्ठतयैव मङ्गलजन्यापूर्वस्यारब्धकर्मोत्पत्तिहेतुत्वाभ्युपगमादित्यर्थः। अन्यथा स्वावच्छेदकत्वसम्बन्धेन शरीरनिष्ठतया, समवायसम्बन्धेन तादृशात्मनिष्ठतया वा आरब्धकर्मोत्पत्तिजनकत्वे जन्मान्तरीयग्रन्थोत्पत्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्त्यापत्तेरिति भावः / ननु मङ्गलपूर्वोत्पन्नेन मङ्गलानन्तरोत्पन्नेन वा दुरितेन प्रतिबन्धान फलम् ; अस्मन्नये मङ्गलस्य दुरितानाशकतया तत्पूर्वोत्पन्नेनापि प्रतिबन्धसम्भवादित्यत आह 'वैदिके'ति / 'फलावश्यम्भावेन' फलावश्यम्भावनियमेन / 'आगन्तुके'ति मङ्गलपूर्वोत्तरोत्पन्नेत्यर्थः। ननूक्तनियमोऽप्रयोजकः, इतरसकलकारणसत्त्वे फलावश्यम्भावनिश्चयरूपायाः श्रद्धाया एव वैदिककर्मप्रवृत्तौ हेतुत्वादित्यस्वरसादाह 'किञ्चेति / 'यथेति, कारीयेपि अदृष्टद्वारा हेतुरिति मते नेदम् / वस्तुतस्तु अवग्रहनिवृत्तिरेव तत्फलमित्यन्यत्र सुव्यक्तम् / 'हेतुः स्यादिति प्रधानापूर्वजनकविहितकर्मणोऽप्रिमपुरुषव्यापारानपेक्ष्यफलजनकत्वनियमादिति भावः / 'न चैवमिति च्छेदः। शङ्कते 'लोके'ति / तदपेक्षा' कण्ठाभिघातादेरारब्धकर्मजनकत्वे कण्ठादिक्रियाद्यपेक्षा। तथा च प्रधानापूर्वजनकविहितकर्मत्वं लोकावगतकारणेतराप्रिमपुरुषव्यापारानपेक्ष्य फलजनकत्वस्यैव व्याप्यम् , अन्यथा पुत्रेष्टौभोजनादिद्वाराभोगजनकादृष्टजनककर्मणि च व्यभिचारादिति भावः। स एवेति कण्ठाभिघातादिरेवेत्यर्थः / 'किमनेन' किं मङ्गलेन, दृष्टकारणसाकल्येऽदृष्टविलम्बेन कार्यविलम्बाभावादिति भावः। 1. तत्समाप्तिकारणत्वमिति ख० / 2. प्रारब्धसमाप्त्यभावात् तदुत्पत्त्यभावादिति क.। Page #53 -------------------------------------------------------------------------- ________________ 42 तत्त्वचिन्तामणौ सरहस्ये त्या बोध्यत इति चेत , न; तत्र दृष्टकारणसम्पत्तौ पुत्रानुत्पादाददृष्टद्वारा पुत्रेष्टेस्तजनकत्वमस्तु / न च कर्मनिर्वाहे दृष्टसकलहेतुसम्पत्तौ विलम्बः, येन मङ्गलजन्यादृष्टापेक्षा स्यात् / अपि च मङ्गलं विनापि प्रमत्तनास्तिकानुष्ठितसमाप्तेः न तत्तत्र कारणम् / ___ जन्मान्तरीयपुण्यसम्पत्तिस्तत्र हेतुरिति चेत् , न; तथापि व्यभिचारात् / कचित् पुण्यसम्पत्तिः, कचिन्मङ्गलं हेतुरिति व्रीहियववद्विकल्प एवेति चेत् , तर्हि तत्सत्त्वसम्भावनया नियतं मङ्गलानुष्ठानं न स्याद् यवप्रयोगे व्रीहेरिव, विकल्पे चोभयस्याशास्त्रार्थत्वात् / 'तत्समाप्तिसाधनत्वमिति मङ्गलस्य तदुत्पत्तिजनकत्वमित्यर्थः। कर्मनिर्वाहे' कर्मोत्पत्ती, 'येने ति तथा च बाधेन तादृशश्रतिरप्यसिद्धैवेति भावः / 'मङ्गलं विनापि' ऐहिकमङ्गलं विनापि, 'प्रमत्तनास्तिकेति प्रमत्तनास्तिकशरीरकर्तृकप्रारब्धकर्मोत्पत्तेरित्यर्थः / तथा च ऐहिकमङ्गलाभावेन स्वोत्पत्त्यवच्छेदकजातीयतासम्बन्धेन मङ्गलजन्यापूर्वासम्भवेऽपि आरब्धकर्मोत्पत्तेः; तेन सम्बन्धेन मङ्गलजन्यापूर्व तत्र व्यभिचारीति भावः। 'न तत्तत्र कारणमिति न तादृशसम्बन्धेन फलीभूतकर्मोत्पत्त्यवच्छेदकशरीरनिष्ठतया मङ्गलजन्यादृष्टं कर्मोत्पत्तिकारणमित्यर्थः / शङ्कते 'जन्मान्तरीयेति 'पुण्यसम्पत्तिः' प्रारब्धकर्मसमाप्तिकामनाकृतमहादेवपूजादिजन्यपुण्यसम्पत्तिः, 'तथापि व्यभिचारादिति स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन मङ्गलजन्यादृष्टस्य व्यभिचारादित्यर्थः। शकते 'क्वचिदिति विनस्थलीयेतरारब्धकर्मोत्पत्तौ कर्मान्तरजन्यपुण्यविशेषसम्पत्तिहेतुः, विघ्नस्थलीयारब्धकर्मोत्पत्तौ मङ्गलजन्यमदृष्टं स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन फलीभूतारब्धकर्मोत्पत्त्यधिकरणशरीरनिष्ठतया हेतुरित्यर्थः, शिष्टाचारानुरोधादिति भावः। नन्वेवं येन तत्कर्मान्तरं मङ्गलचोभयमेव कृतं तस्य विनिगमकाभावात् परस्परविरुद्धकार्यद्वयप्रसङ्गः, द्वयोरेव कारणसत्त्वादित्यत आह 'व्रीहियववदिति / तत्र यथा परस्पराभावविशिष्टत्वेन ब्रीहिकरणकयवकरणकयागयोः कारणत्वं, तथा प्रकृतेऽपि विघ्नस्थलीयेतरसमाप्तौ स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धावच्छिन्नप्रतियोगिताकमङ्गलजन्यपुण्यविशेषाभावविशिष्टकर्मान्तरजन्यपुण्यविशेषत्वेन कारणत्वं / विघ्नस्थलीयसमाप्तौ च कर्मान्तरजन्यपुण्यविशेषाभावविशिष्टमङ्गलजन्यपुण्यविशेषत्वेन कारणत्वं, वैशिष्ट्यश्च एककालावच्छेदेन एकशरीरवृत्तित्व• मित्यर्थः। अत एव कृतेऽपि साङ्गे मङ्गले क्वचित् फलाभावः, तत्र फलबलेन कर्मान्तरजन्यपुण्यविशेषस्य कल्पनादिति भावः। 'तत्सत्त्वसम्भावनये'ति जन्मान्तरीयकर्मान्तरजन्यपुण्यसत्त्वसम्भावनयेत्यर्थः। एकाभावविशिष्टापरस्यैव फलजनकत्वादिति भावः। 'यवप्रयोगे' यवकरणकयागे, 'उभयस्य मिलितस्य, 'अशास्त्रार्थत्वात्' Page #54 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः 43 शास्त्रबोधितफलाजनकत्वात् / एतच्चोपलक्षणम् , शिवपूजादिकर्मान्तरमङ्गलोभयकरणादपि समाप्तिदर्शनाद्, विघ्नस्थलीयत्वस्योक्तक्रमेणान्यथासिद्धिसम्पादकतया अननुगततया च कार्यतावच्छेदकत्वासम्भवाच्चेत्यपि बोद्धव्यम् / ननु व्रीहियवादिविकल्पस्थले कथं कार्यकारणभावः ? एकजातीयदर्शजन्यापूर्वविशेषे तजन्यस्वर्गविशेषे चोभयोः प्रत्येक कारणत्वे व्यभिचाराद् एकस्मादपि तादृशकार्यविशेषोत्पत्तेः / न चोभयत्र दर्शजन्यतावच्छेदकं वैजात्यद्वयमस्ति, तदवच्छिन्नं प्रत्येव प्रत्येकं हेतुत्वं तृणादिवदिति वाच्यम् ; उभयकरणकयागादेरपि फलोत्पत्त्यापत्तेः / न चेष्टापत्तिः, अशास्त्रार्थत्वात् / भिन्नभिन्नावच्छिन्नं प्रति कारणतापि यदि वैकल्पिकी, तदा अश्वमेधवाजपेययोः स्वर्गजनकताया अपि तथात्वापत्तेः। अथ व्रीहिकरणकयवकरणकयोरुभयोरेव दर्शात्मकत्वादपूर्वविशेष प्रति स्वर्गविशेष प्रति च दर्शत्वेनैवोभयोरनुगतहेतुता, दर्शत्वञ्च जातिविशेषः। न चैवमुभयकरणकदर्शादपि फलोदय प्रसङ्ग इति वाच्यं, जनकतावच्छेदकदर्शत्वस्य तव्यावृत्तत्वात् / एकधर्मावच्छिन्नं प्रत्युभयोजनकत्वमेव वैकल्पिककारणता। अत एव अश्वमेधवाजपेययोर्न विकल्प इति चेत्, न; उभयकरणकेऽपि दर्शव्यवहारात् , तत्रापि दर्शत्वसत्त्वात् / न च दर्शत्वेन न कारणता, किन्तूभयकरणकदर्शव्यावृत्तेन दर्शत्वव्याप्यजातिविशेषेण, न हि दर्शत्वस्य कारणतावच्छेदकत्वपर्यन्तं वेदो बोधयतीति वाच्यं; कारणतावच्छेदकैक्येऽपि यदि वैकल्पिककारणता, तदा दण्डयोर्घटजनकत्वस्यापि तथात्वप्रसङ्गात् , परस्परविरुद्धवैजात्याश्रययोर्द्वयोर्वैकल्पिककारणतास्थले एकरूपेण कारणत्वस्य वक्तुमशक्यत्वाच्च / अत्राहुः-व्रीहिकरणकयागयवकरणकयागयोरुभयोजन्यतावच्छेदकमपूर्वनिष्ठवैजात्यद्वयमस्ति, अतो न परस्परं व्यभिचारः। कारणत्वञ्च तदुभयावच्छिन्नं प्रति प्रत्येकं ब्रीहिकरणकयागाभावविशिष्टयवकरणकयागत्वयवकरणकयागाभावविशिष्टव्रीहिकरणकयागत्वाभ्याम् , अतो नोभयकरणकयागादपूर्वोत्पत्तिः; न वाश्वमेधवाजपेययोः कारणतापि वैकल्पिकी, एकाभावविशिष्टापरत्वेन कारणताया एव तथात्वात् / ब्रीहियवकरणकत्वञ्च तज्जन्यपुरोडाशविषयकत्वं, तच्च दर्शनिष्ठपरस्परव्यावृत्तजातिद्वयपरिचायकम् / न च परस्पराभावविशिष्टत्वेन कारणत्वे व्रीहिकरणकदर्शाव्यवधानकृतयवकरणकदर्शादपूर्वानुत्पत्तिप्रसङ्गः, उत्पत्तिसम्बन्धेन 1. कर्मान्तरजन्यपुण्यविशेषसत्त्वसम्भावनया तादृशपुण्यादेव समाप्तेरुत्पत्तिसम्भवेन मङ्गल मन्यथासिद्धमिति भावः / 2. नानाविधस्य विघ्नस्यानुगतानतिप्रसक्तरूपशुन्यतयेत्यर्थः। 3. यागद्वितीयक्षणेऽपूर्वजन्यानुत्पत्तिप्रसङ्गो यागोत्पत्तिक्षणं यावत्पूर्वयागस्य सत्त्वेन ब्रीहि करणकयागाभावविशिष्टयवकरणकयांगस्याभावादित्याशयः / KA Page #55 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्य यागादेरदृष्टजनकतया क्षणविलम्बस्य' वक्तमशक्यत्वादिति वाच्यं; बहुतरव्यापारसाध्यतया अव्यवधानेन तादृशदर्शद्वयोत्पत्तरसम्भवात् / न च विशिष्टस्य कारणतावच्छेदकत्वे विशेष्यविशेषणभावे विनिगमकाभावेन गुरुतरकार्यकारणभावचतुष्टयापत्तिरिति वाच्यं "व्रीहिभिर्यजेत" इत्यादिश्रुतेरेव विनिगमकत्वात् , तादृशश्रुत्या यागस्यैव कारणत्वबोधनात् , न त्वभावस्य / न च तथापि व्रीहिकरणकयागाभावादिविशिष्टत्वयवकरणकयागत्वाद्योधर्मयोविशेष्यबिशेषणभावे विनिगमकाभाव इति वाच्यं , लाघवात् तयोरेवैकत्र द्वयमिति न्यायेनैव यागनिष्ठतया व्यासज्ज्यवृत्त्यवच्छेदकत्वाभ्युपगमात् / न च परस्परव्यावृत्तवैजात्यद्वयस्य कार्यतावच्छेदकत्वे वाजपेयाश्वमेधयोरिव व्रीहिकरणकयवकरणकयोरुभयोरेव तुल्यवदनुष्ठानापत्तिरिति वाच्यं, तादृशापूर्वयोद्वयोरेव कामनासत्त्वे इष्टापत्तेः। केचित-ताशवैजात्यद्वयावच्छिन्नं प्रति प्रत्येक लाघवादु ब्रीहिकरणकयागत्वयवकरणकयागत्वाभ्यामेव कारणत्वं, न तु परस्पराभावविशिष्टत्वेन व्यासज्ज्यवृत्त्यवच्छेदकतायाः सिद्धान्तासिद्धत्वाद् गौरवाच्च / परस्परकार्यतावच्छेदकावच्छिन्नापूर्व प्रति परस्परस्य प्रतिबन्धकतया च नोभयकरणकदर्शादपूर्वोत्पत्तिः / न चैवमतिरिक्तप्रतिबध्यप्रतिबन्धकभावान्तरकल्पने गौरवमिति वाच्यं, तस्य कार्यकारणभावग्रहोत्तरकल्प्यत्वेन फलमुखत्वात् / यत्र परस्परं परस्परकार्यतावच्छेदकावच्छिन्नं प्रति प्रतिबन्धकं, तत्रैव वैकल्पिकी कारणता / तेनाश्वमेधवाजपेययोजनकता, न वैकल्पिकी। न चैवं तत्तदभावव्याप्यपरामर्शयोरप्यनुमितिं प्रति कारणतापि वैकल्पिको स्यादिति वाच्यं, तयोः परस्परकार्यतावच्छेदकावच्छिन्न प्रति अप्रतिबन्धकत्वाद् विशिष्टबुद्धित्वस्यैव तयोः प्रतिबध्यतावच्छेदकत्वादित्याहुः / यत्त दर्शजन्यस्वर्गविशेषनिष्ठमेवोभयजन्यतावच्छेदकं जातिद्वयम् , परस्परस्य परस्परकार्यतावच्छेदकावच्छिन्नस्वर्ग प्रति प्रतिबन्धकत्वान्नोभयकरणकदर्शात् स्वर्गो. त्पत्तिरिति वदन्ति, तदसद्; उभयकरणकदर्शादपि स्वर्गोत्पत्त्यापत्तेः, यागस्याशुविनाशितया स्वर्गोत्पत्तिसमये प्रतिबन्धकासत्त्वात् / परस्परजन्यापूर्वस्य प्रतिबन्धकत्वे च ब्रीहिकरणकदर्शोत्तरकृतयवकरणकदर्शात् स्वर्गानुत्पत्तिप्रसङ्गात् / __ अन्ये तु सामान्यतो दर्शत्वेनैव ब्रीहिकरणकदर्शयवकरणकदर्शयोरुभयो. रपूर्वविशेष प्रति स्वर्गविशेष प्रति च हेतुत्वं , न तु तयोविशेषतोऽपि हेतुत्वं, 1. यागतृतीयक्षणेऽदृष्टोत्पत्तिस्वीकारस्येत्यर्थः। 2. द्वितीयक्षणे यागस्योत्पत्तिसम्बन्धेनासत्त्वादित्यभिप्रायः / 3. अतो मानाभावादेकयागविशिष्टस्यापरयागाभावस्य हेतुत्वमसम्भवदुक्तिकमिति भावः / 4. तयोरुभयोर्याग एव विद्यमानतया विनिगमनाऽसम्भवादित्याशयः / तथाप्यतदभावव्याप्यपरामर्शयोरित्यर्थः / 6. तत्साध्यकतदभावसाध्यकानुमितित्वावच्छिन्नमित्यर्थः / 7. उपनीतप्रत्यक्षानुमितिशाब्दबोधादिसाधारण्यानुरोधादिति भावः / Page #56 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः ननु विधिवाक्यं न फलनियतपूर्वसत्त्वं बोधयति, किन्तु मङ्गलात फलावश्यम्भावमिति चेत्, न; इष्टसाधनत्वस्य विध्यर्थत्वात् / अथान्वयव्यतिरेकाभ्यां तद्ग्रहे व्यभिचारो दोषाय, न त्वागमेन 'तद्ग्रहे। किन्तु दर्शसामान्यजन्यतावच्छेदकापूर्वनिष्ठवैजात्यव्याप्यं ब्रीहिकरणकदर्शयवकरणकदर्शयोः प्रतिबध्यतावच्छेदकं परस्परव्यावृत्तवैजात्यद्वयम् / तेन सामान्यसामग्रीसत्त्वेऽपि प्रतिबन्धकाभावरूपविशेषसामध्यभावादेव नोभयकरणकदर्शात् फलावाप्तिः / वस्तुवस्तु प्रत्येकं व्रीहिकरणकदर्शत्वयवकरणकदर्शत्वाभ्यां प्रतिबन्धकतापि न वाच्या, प्रतिबध्यतावच्छेदकवैजात्यद्वयकल्पने प्रतिबध्यप्रतिबन्धकभावद्वयकल्पने च महागौरवात् / परन्तु दर्शसामान्यजन्यतावच्छेदकापूर्वनिष्ठवैजात्यावच्छिन्नं प्रत्येव व्रीहियवोभयकरणकदर्शत्वेन प्रतिबन्धकत्वम् / अत एवाव्यवधानेन व्रीहियवप्रत्येकमात्रकरणकयागद्वयसम्भवेऽपि द्वितीयादपूर्वोत्पत्तौ न बाधकम् / न च तवापि व्रीहियवोभयकरणकयागाव्यवहितोत्पन्नप्रत्येकमात्रकरणकयागान्नापूर्वोत्पत्तिः स्याद्, उत्पत्तिसम्बन्धेनयागादेरपूर्वजनकतया क्षणविलम्बस्यापि वक्तुमशक्यत्वादिति वाच्यम् , इष्टत्वादुभयकरणकयागानन्तरं क्षणेकविलम्बोत्पन्नप्रत्येकमात्रकरणकयागादेवापूर्वोत्पादादित्याहुः। यत्त यागं प्रत्येव व्रीहियवयोर्वैकल्पिकी कारणतेति, तदसत् ; स्वत्वध्वंसजनिकाया 'अनेन देवताप्रीतिर्भवतु' इत्याकारिकाया 'इदं द्रव्यं देवताया भवतु' इत्याकारिकाया वा इच्छाया यागत्वेन, तत्र ब्रोह्यादेर्हेतुत्वे मानाभावाद् 'बीहि भिर्यजेत' इत्यादौ ब्रीह्यादिजन्यपुरोडाशविषयकत्वस्यैव तृतीयार्थत्वात् , कृतावेव तृतीयाविभक्तेः शक्ततया जन्यत्वार्थकत्वेऽपि लाक्षणिकत्वाविशेषात् / यागं प्रति व्रीह्यभावविशिष्टयवत्वादिना कारणत्वस्य व्रीहित्वादिना प्रतिबन्धकत्वस्य वा वक्तुमशक्यत्वाच्च / अनुगतानतिप्रसक्तवैशिष्ट्यस्य प्रतिबन्धकतावच्छेदकसम्बन्धस्य च दुर्वचत्वादिति संक्षेपः। ___'नन्विति, 'विधिवाक्यम्' मङ्गलबोधकविधिवाक्यम्, 'फलं' समाप्तिः / 'किन्त्वि'ति / 'मङ्गलात्' स्वजन्यादृष्टोत्पत्त्यवच्छेदकत्वसम्बन्धेन मङ्गलसत्त्वात् / यद्वा स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन मङ्गलजन्यादृष्टसत्त्वात् / 'फलावश्यम्भावं' २तदितरसकलकारणसमवधाने सति फलावश्यम्भावं,तथा चव्यतिरेकव्यभिचारो न दोषायेति 1. इष्टसाधनताग्रह इत्यर्थः। तत्सत्त्वे तदितरयावत्कारणसत्त्वेऽवश्यं कार्यमित्यन्वयव्याप्तेः, तदभावे कार्याभाव इति व्यतिरेकव्याप्तेश्च निश्चयतो जायमाने कारणताग्रहे 'तदभावेऽपि कार्यम्' इति व्यतिरेकव्यभिचारज्ञानं विरोधि भवितुमर्हति, तत्सत्त्वे उक्तव्यतिरेकव्याप्तिनिश्चयस्य दुर्घटतया कारणबाधात् / परमागमजन्ये कारणताग्रहे तस्य विरोधित्वमयुक्तम्, तत्रोक्तव्याप्तिनिश्चयस्यानपेक्षणादिति भावः। मङ्गलेतरसकलसमाप्तिकारणसमवधाने मङ्गले सत्यवश्यं समाप्तिरूपं फलं जायत इति भावः। 'यत्र मङ्गलं नास्ति तत्र समाप्तिर्नास्ति' इति मङ्गलाभावे समाप्त्यभावस्य व्याप्तेविरोधि 'मङ्गलाभावेऽपि नास्तिकादौ समाप्तिः' इत्येवंविधं व्यतिरेकव्यभिचारज्ञानं Page #57 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्य तदुक्तम् - "आगममूलत्वाच्चास्यार्थस्य व्यभिचारो न दोषाय" इति / अत एव यागादेः स्वर्गसाधनतेति चेत्, न; 'नियतपूर्वसत्वस्य ग्राह्यस्याभावादागमेनापि बोधयितुमशक्यत्वात् / यागजनितस्वर्गे कारीरीजनितवृष्टौ च जातिविशेष एवास्ति। ___ अपरे तु मङ्गलस्यारब्धनिर्वाहकत्वं विघ्नसंसर्गाभावद्वारा, तथैव प्रतिबन्धकामावस्य हेतुत्वात् / स चाभावः सतो विघ्नस्य ध्वंसोऽनागतस्याभावः / 'तद्ग्रहे' कारणताग्रहे, 'व्यभिचारः' व्यतिरेकव्यमिचारज्ञानम् , 'आगमेन' वेदेन, 'तदुक्तमिति द्रव्यकिरणावल्यामाचार्यचरणैरिति शेषः। 'आगममूलत्वादिति / 'अस्यार्थस्य' मङ्गले समाप्तिकारणत्वग्रहस्य, 'आगममूलत्वात्' आगमजन्यत्वाद्, 'व्यभिचारः' व्यभिचारज्ञानं, 'न दोषाय'इति तदर्थ इत्यभिमानः। 'स्वर्गसाधनता' वेदेन स्वर्गसाधनतामहः, अन्यथा गङ्गास्नानादितोऽपि स्वर्गोत्पत्त्या व्यभिचारेण कारणताग्रहो आगमजन्यज्ञानस्याप्रामात्वापातादिति यावत् / नन्वेवं यागादौ कथं वेदेन वस्तुतस्त्ववाहनिवृत्तेरेव तत्फलत्वादिति बोध्यम् / मङ्गलमपूर्व जनयति, तेन चापूर्वेण विघ्नसंसर्गाभावो जायते / विघ्नसंसर्गाभावाच्च समाप्तिरिति क्रमेण स्वजन्यापूर्वजनितविघ्नसंसर्गाभावद्वारा मङ्गलस्य समाप्तिहेतुत्वमिति केचिन्मीमांसका वदन्ति, तन्मतमुपन्यस्यति 'अपरे त्विति / 'निर्वाहकत्वं' समापकत्वम् , 'विघ्नसंसर्गाभावे'ति स्वजन्यापूर्वजनितविघ्नसंसर्गाभावद्वारेत्यर्थः। तथैव' विघ्नसंसर्गाभावत्वेनैव, 'प्रतिबन्धकाभावस्य' विघ्नाभावस्य, न दोषः, उक्तव्याप्तेरेवानभिमतत्वात् / अभिमतायाः स्वेतरयावलमाप्तिकारणसमवहिते मङ्गले सत्यवश्य समाप्तिरिति व्याप्तेस्तु क्वचिन्मङ्गलाभावे समाप्तेरुत्पत्तावप्यक्षुण्णत्वा. च्चेत्यागायः। 1. व्यतिरेकव्यभिचारज्ञानं कारणताग्राहकव्यतिरेकव्याप्तिनिश्चयविरोधितया न कारणताग्रहे बाधकम्, किन्तु साक्षादेव तस्य ग्राह्यकारणताघटककार्यनियतपूर्वसत्त्वाभावावगाहित्वादत. - स्तत्सत्त्वे आगमतोऽपि कारणताग्रहो न भवितुमर्हतीति भावः / न्यजातीयस्वर्गवृष्टयोरुत्पत्त्याऽपि न तयोस्तादृशस्वर्गवृष्टिजनकत्वग्रहे किञ्चिद्वाधकम् / 3. कारणत्वादिति ख० / 4. स्वर्गसाधनतामह इति ख.। Page #58 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः नुत्पादश्च कर्मनिर्वाहसमयस्थायी / विघ्नकारणविनाशद्वारा प्रागमावस्य साध्यत्वम् , यस्मिन् सत्य ग्रिमक्षणे यस्य सत्त्वं यद्व्यतिरेके चासत्त्वं तदेव तस्य तजन्यत्वम् , न त्वसतः सत्त्वम्, गौरवात् / अस्ति च विघ्नकारणनाशे सति विघ्नप्रागभावस्य तथात्वम् / तावति समये दुरितानुत्पादश्च न साक्षान्मङ्गलजन्य इत्यदृष्टद्वारा तथा। एवं निर्विघ्नं समाप्यतामिति कामनया तदाचारोऽपि सङ्गच्छते / 'अनुत्पादः प्रागभावः, 'कर्मनिर्वाहसमयस्थायी' कर्मसमाप्तिकालस्थायी / ननु विघ्नप्रागभावस्य किंविधया मङ्गलजन्यत्वमित्यत आह 'विघ्नकारणे'ति / 'विघ्नकारणम्' मङ्गलप्रागभावः, तद्ध्वंसविधयेत्यर्थः / 'प्रागभावस्य' विघ्नप्रागभावस्य, 'साध्यत्वम्' मङ्गलजन्यत्वम् , 'यथाश्रुते विघ्नकारणस्य निषिद्धकर्मणो मङ्गलेन नाशासम्भवादलमकतापत्तेः। ननु तथापि प्रागभावस्याजन्यत्वात् कथं मङ्गलजन्यत्वमित्यत आह 'यस्मिन् सती'ति / 'असत्त्वम्' व्यतिरेकः / एवञ्च मङ्गलसत्त्वे विघ्नप्रागभावसत्त्वं विघ्नप्रतिबन्धकसत्त्वेन विघ्नानुत्पत्तेः, मङ्गलव्यतिरेके च विघ्नप्रागभावव्यतिरेकः प्रतिबन्धकाभावसत्त्वेन विघ्नोत्पत्तेरिति विघ्नप्रागभावस्तजन्य इति भावः। ननु यस्मिन् सत्यग्रिमक्षणे यस्य सत्त्वमित्यत्र यद्व्यतिरेके यस्यासत्त्वमित्यत्र च सति सप्तम्याः सामानाधिकरण्यमात्रमर्थो व्यापकत्वं वा ? नाद्यः, अतिप्रसङ्गात्; सामग्रीक्षणे उदासीनसत्त्वेऽपि कार्यसत्त्वात् , यत्किश्चित् कारणाभावस्थले उदासीनाभावादपि कार्याभावात् / न च स्वस्वव्याप्येतरयावत्कारणसमवधाने यत्सत्त्वे यत्सत्त्वं यद्व्यतिरेके यव्यतिरेक इति वक्तव्यम् ; स्वपदश्च कारणत्वाभिमतपरमिति वाच्यं, विघ्नप्रागभावादेः कारणाभावेनाव्याप्त्यापत्तः, यत्सत्त्वे यत्सत्त्वमित्यन्वयदलस्य व्यर्थतापत्तश्च / नाकारणस्य स्वेतरयावत्कारणकाले स्वाभावेन कार्याभावः। 1. विघ्नकारणतया मङ्गलप्रागभावस्याग्रहणे इत्यर्थः / 2. विघ्नप्रागभावादेरकारणकत्वेन तत्कारणत्वाभिमतस्य तत्कारणस्य चाप्रसिद्धथा स्वस्वव्याप्येतरयावत्कारणघटितोक्तजन्यत्वस्य दुर्घटतया तत्राव्याप्तिरिति भावः। 3. यद् यस्य कार्यस्य न कारणं तस्याभावेऽपि तदितरतत्कार्ययावत्कारणसमवधाने तत्कार्य. . . . व्यतिरेकस्याभावेन व्यतिरेकदलादेव तत्कार्ये तदकारणजन्यत्वापत्तेर्वारणसम्भवेन 'यत्सत्त्वे यत्सत्त्वम्' इत्यन्वयदलं व्यर्थमित्याशयः। . Page #59 -------------------------------------------------------------------------- ________________ तत्वचिन्तामणौ सरहस्से नान्त्यः, विघ्नप्रागभावादेर्मङ्गलाद्यजन्यत्वापत्तेस्तव्यतिरेकेऽपि तस्यानादित्वेन पूर्वक्षणे सत्त्वात् , घटाद्यव्याप्त्यापत्तेश्च दण्डादिविरहेऽपि घटाद्यनुवृत्तेः / न च व्यतिरेकः प्रागभावः, ज्ञानादेरीत्माधजन्यत्वापत्तेः, प्रांगभावेऽव्याप्त्यापत्तेश्च / अंत एवासत्त्वमुत्पत्तिव्यतिरेक इति परास्तम् / किञ्च, यथा तथास्त व्यतिरेकपदार्थोऽसत्त्वपदार्थश्च; सर्वथैव "युगपदुत्पन्नविनष्टेष्वन्यथासिद्धेषु चातिव्याप्तिः, स्वस्य स्वजन्यतापत्तिश्च अन्वयदलव्यर्थतापत्तिश्च / / अत्राहुः-यदधीनो यस्य समयसम्बन्धो यद्व्यतिरेकप्रयुक्तो यव्यतिरेकस्तदेव तजन्यमित्यर्थः। अधीनत्वञ्च 'घटस्यैतत्समयसम्बन्धो दण्डाधीन' इत्यादिविलक्षणप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः / प्रयुक्तत्वमपि 'दण्डाभावाद् घटाभाव' इत्यादिप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः / न चान्यतरदलवैयर्थ्यम् , न प्रकारणाधीनं कार्यसत्त्वम् , अकारणाभावप्रयुक्तो वा कार्याभाव इति वाच्यं,"लक्षणद्वये तात्पर्यात् / वस्तुतस्त स्वस्वव्याप्येतरप्रागभावनाशकसकलसमवधाने सति यद्व्यतिरेकेऽग्रिमक्षणे यस्य व्यतिरेकः, यस्य सत्त्वेऽग्रिमक्षणे यस्य सत्त्वं, तत्तज्जन्यमित्यर्थः / स्वपदं कारणत्वेनाभिमतपरम्, अस्ति च क्वचिद्दण्डदण्डव्याप्येतरघटप्रागभावनाशकसाकल्ये दण्डव्यतिरेकेऽने घटव्यतिरेकः, दण्डसत्त्वे च घटसत्त्वमिति स तत्साध्यः। 1. सति-सप्तम्या व्यापकत्वमर्थ इति पक्ष इत्यर्थः / 2. मङ्गलव्यतिरेकेपीत्यर्थः / 3. विघ्नप्रागभावस्येत्यर्थः / 4, तथा च दण्डादिव्यतिरेके घटादिप्रागभावस्य सत्त्वान्न घटादावव्याप्तिरिति भावः / आत्मव्यतिरिक्ते ज्ञानादिप्रागभावस्यासत्त्वादिति हृदयम् / 6. प्रागभावस्य प्रागभावाभावादित्याशयः / 7. प्रागभावेऽव्याप्त्यापत्तेरेवेत्यर्थः / 8. यत्कार्यव्यक्त्या सहैव ये पदार्था उत्पद्यन्ते विनश्यन्ति च, तेषु तत्कार्यकारणसत्त्वे सत्त्वस्य तत्कार्यकारणव्यतिरेकेऽसत्त्वस्य च सत्त्वेन तत्कार्यकारणजन्यत्वापत्तिरिति भावः। अन्यथासिद्धिनिरूपकेषु इत्यर्थः / तथा च घटादौ दण्डत्वतद्वयाप्येतरयावद्घटकारणसत्त्वे दण्डत्वादिसत्त्वे सत्त्वस्य दण्डत्वादिव्यतिरेकेऽसत्त्वस्य च सत्त्वेन दण्डत्वादिजन्यत्वा पत्तिरित्याशयः। 10. कार्यव्यतिरेकस्याकारणव्यतिरेकव्यापकत्वाभावाद् व्यतिरेकदलेनैव कार्येऽकारणजन्यत्वा पत्तेर्वारणसम्भवेनान्वयदलस्य वैयर्थ्यमिति भावः / 11. यदधीनो यस्य समयसम्बन्धः, स तज्जन्य इत्येकं लक्षणम्, यद्वयतिरेकप्रयुक्तो यद्वपतिरेकः स तज्जन्य इति चापरं लक्षणमित्याशयः / Page #60 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः 46 रासभादौ तु नैवम् , रासभतव्याप्येतरसकलघटप्रागभावनाशकस्य यावद्घटोत्पादकस्य समवधाने सति कचिदपि रासमव्यतिरेकेण घटव्यतिरेकासिद्धेः। अत्र प्रागभावपदं न 'साध्यत्वेनाभिमतप्रागभावपरम् , विघ्नप्रागभावादावव्याप्त्यापत्तेः, प्रागभावस्य प्रागभावाभावात् / न वा यत्किञ्चित्प्रागभावपरमुदासीनेऽप्यतिव्याप्तेघंटसामग्र्यभावस्थले पटप्रागभावनाशकसकलसमवधान उदासीनव्यतिरेकेणापि घटव्यतिरेकात / न वा प्रागभावसामान्यपरम , असम्भवातः कुत्रापि तन्नाशकसकलसमवधानाभावात् / किन्तु साध्यत्वेनाभिमतं यत्तदितरतदीयभिन्नप्रागभावान्यप्रागभावपरम् / घटादिस्थले साध्यत्वाभिमतो घटादिः, तदितरस्तदीयभिन्नप्रागभावः२ पटादिप्रागभावः, तदन्यो घटप्रागभाव एव / विघ्नप्रागभावस्थले तु साध्यत्वाभिमतो विघ्नप्रागभावः, तदितरस्तदीयभिन्नप्रागभावः पटादिप्रागभावः, तदन्यप्रागभावो विघ्नप्रागभाव एव / यद्वा साध्यत्वाभिमतं यत्तनिष्ठत्वतन्निरूपितत्वयोरन्यतराश्रयस्य प्रतियोगित्वस्य निरूपको यः प्रागभावः, तत्परम् / घटादिस्थले साध्यत्वाभिमतो घटादिः, तन्निष्ठत्वतन्निरूपितत्वयोरन्यतराश्रयप्रतियोगित्वं घटादिनिष्ठप्रतियोगित्वमेव तन्निरूपकप्रागभावो घटादिप्रागभावः। विघ्नप्रागभावस्थले तु साध्यत्वाभिमतो विघ्नप्रागभावः, तनिष्ठत्वतन्निरूपितत्वयोरन्यतराश्रयप्रतियोगित्वं विघ्नप्रागभावनिरूपितप्रतियोगित्वमेव; तन्निरूपकप्रागभावो विघ्नप्रागभाव एव। घटप्रागभावनाशकसकलसमवधाने दण्डव्यतिरेक एवासिद्धः, दण्डस्यापि यावन्मध्यपातित्वाद् अतः 'स्वेतरेति' / घटप्रागभावनाशकचक्रभ्रम्यादिरूपदण्डव्यापारचक्रादिसकलकारणसमवधाने दण्डव्यतिरेके घटव्यतिरेकोऽसिद्धः, भ्रम्यादिसत्त्वे दण्डासत्त्वेऽप्यवश्यं घटोत्पत्तेः अतः 'स्वव्याप्येतरे'ति / न च मङ्गलतव्याप्येतरविघ्नप्रागभावनाशकसकलसमवधाने मङ्गलसत्त्व इति विरुद्ध, मङ्गलाभावस्यापि विघ्नप्रागभावनाशकयावन्मध्यपातित्वात् ; मङ्गलस्य विघ्नप्रतिबन्धकतया तदभावस्य विघ्नोत्पादकत्वेन तत्प्रागभावनाशकत्वादिति वाच्यं, स्वाभावेतरत्वेनापि तद्विशेषणात् / मङ्गलतव्याप्यतदभावेतरविघ्नप्रागभावनाशकसकलसमवधानदशायां मङ्गलव्यतिरेके विघ्नप्रागभावव्यतिरेको विरुद्धः, विघ्नप्रागभावस्यापि विघ्नप्रागभावनाशकयावन्मध्यपातित्वात्। एवं तादृशप्रागभावनाशकसकलसमवधानदशायांदण्डसत्त्वे घटसत्त्वमपि विरुद्धं, घटप्रागभावस्यापि घटप्रागभावनाशकयावदन्तर्गतत्वाद्, अतोऽग्रिमक्षण इति / 1. साध्यत्वेनाभिमतस्य प्रागभावपरमित्यर्थः / 2. तदीयभेदवतः प्रागभाव इत्यर्थः / 3. प्रतियोगिताया निरूपकः प्रागभाव इत्यर्थः / . 7 Page #61 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये अत एव यत्र विनाभावः स्वतःसिद्धः, तत्र मङ्गलस्याअन्वयदलमात्रोपादाने उदासीनजन्यतापि घटे स्यात् , घटप्रागभावनाशकसकलसमवधाने उदासीनसत्त्वेऽपि घटसत्त्वाद् , अतो व्यतिरेकदलम् / व्यतिरेकदलमात्रोपादाने रासभादिसाध्यत्वमपि विघ्नप्रागभावे स्यात् , विघ्नप्रागभावनाशकसकलसमवधाने रासभव्यतिरेके सति तदनन्तरं विघ्नोत्पादेन तत्प्रागभावव्यतिरेकावश्यम्भावादन्वयदलोपादानं, तदुपादाने च यथोक्तसकलसमवधाने रासभसत्त्वेऽपि विघ्नस्यैवोत्पादेन विघ्नप्रागभावासत्त्वान्नातिप्रसङ्गः। न च घटादेर्दण्डावयवचक्रावयवादिजन्यत्वापत्तिरिति वाच्यम्, अनन्यथासिद्धयव्यतिरेक इति विवक्षितत्वात् / इदश्वानित्यानां जन्यताया लक्षणम् , अतो घटादेर्नेश्वरबुद्धथाद्यजन्यत्वापत्तिरिति सङ्केपः / ननु यस्मिन् सत्यसिमक्षणे यस्योत्पत्तिः, यद्व्यतिरेके चानुत्पत्तिः, तत्तजन्यमित्येव जन्यतालक्षणम् , न तु यथोक्तम् / तथा च विघ्नप्रागभावस्योत्पत्तिविरहात् कथं मङ्गलजन्यत्वमित्यत आह 'न त्वि'ति / 'असतः सत्त्वम्' असतः सत्त्वघटितम् , उत्पत्तिघटितमिति यावत् / विघ्नप्रागभावेऽन्वयदलं सङ्गमयति 'अस्ति चेति, 'विघ्नकारणे'ति, 'विघ्नकारणम्' मङ्गलप्रागभावः, तद्ध्वंसो मङ्गलं तस्मिन् सतीत्यर्थः। 'तथात्वं' सत्त्वम् / 'तावति समय' इति आरम्भानन्तरं यावता कालेन समाप्तिः, तावत्समयवृत्तित्वविशिष्टिविघ्नप्रागभावश्चेत्यर्थः / न साक्षादिति मङ्गलस्याशुतरविनाशित्वेन तावत्कालानवस्थायित्वादिति भावः / 'तथा' विघ्नसंसर्गाभावस्य द्वारता। ___ नन्वदृष्टाभ्युपगमे तदेव साक्षात् समाप्तिजनकमस्तु , किं विघ्नसंसर्गाभावस्य द्वारत्वेनेत्यत आह 'एवमिति / संसर्गाभावस्य द्वारत्वेनेत्यर्थः। 'निविघ्नमिति, इति कामनया' इत्युद्दिश्य, 'आचारोऽपि' मङ्गले शिष्टप्रवृत्तिरपि / तथा च विघ्नसंसर्गाभावविशिष्टसमाप्त्युद्देश्यकमङ्गलगोचरशिष्टप्रवृत्तिरपीत्यर्थः। शिष्टत्वं भ्रमाजन्यत्वम् / 'सङ्गच्छत' इति / अन्यथा विघ्नसंसर्गाभावस्य मङ्गलाजन्यत्वे विशिष्टसमाप्त्युद्देश्यकप्रवृत्तौ विशेषणोभूतविघ्नसंसर्गाभावस्याप्युदेश्यतया तत्प्रवृत्तेनियमतोऽशिष्टत्वापत्तेः, तदुद्देश्यकतत्प्रवृत्ती तत्साधनताज्ञानस्य हेतुतया भ्रमरूपस्य विघ्नसंसर्गाभावसाधनताज्ञानस्य तत्र हेतुत्वादिति भावः। ननु तथापि विघ्नध्वंस एव व्यापारोऽस्तु, किमजन्यस्य विघ्नप्रागभावस्य व्यापारत्वेन ? विशिष्टसमाप्त्युहेश्यकप्रवृत्तौ विघ्रप्रागभावस्योहश्यत्वे मानाभावादित्यत आह 'अत एवेति / यत एव विघ्नप्रागभावस्यापि व्यापारत्वम् Page #62 -------------------------------------------------------------------------- ________________ . प्रत्यक्षखण्डे मङ्गलवादः किञ्चित्करत्वेन वेदाप्रामाण्यमिति निरस्तम् / अनागतविघ्नामावस्य' तत्रापि साध्यत्वात् / “सर्वे विघ्नाः शमं यान्ति” इति यत्र विनायकस्त वपाठादौ श्रुतमस्ति, तत्र तत एव प्रमत्तानुष्ठितसमातेरनादौ संसारेऽवश्यं तदाचारात्, तथा च तेन समं मङ्गलस्य विकल्प एव / अत एवेत्यर्थः। 'अकिञ्चित्करत्वेन' विघ्नसंसर्गाभावरूपव्यापारानुपधायकत्वेन, 'वेवाप्रामाण्यमिति' विशेषणीभूतविघ्नसंसर्गाभावस्यापि मङ्गले कारणताग्राहकस्य "निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत्" इति मङ्गले विशिष्टसमाप्तिसाधनताबोधकवेदस्याप्रामाण्यमित्यर्थः। यद्यपि फलोपधायकत्वं न वेदार्थः, किन्तु स्वरूपयोग्यत्वम्। तच्च क्वचित् फलानुपधानेऽपि सम्भवति, इति कुतो वेदस्याप्रामाण्यम् ? तथापि साङ्गवेदबोधितकर्मत्वव्यापकं फलोपधानम् , अतस्तदभावेन साङ्गे तस्मिन् साङ्गवेदबोधितकर्मत्वाभावः सिध्यन् तद्बोधकविधेर्वेदत्वाभावमादाय सिध्यति / वदत्वाभावः सिध्यन् शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थके तस्मिन् प्रमाणत्वाभावमादायैव पर्यवस्यतीति क्रमेण वेदस्याप्रामाण्यमिति भावः / 'अनागतविनाभावस्य, अनागतविघ्नप्रागभावोपधायकत्वस्य, 'तत्रापि' मङ्गलेऽपि 'साध्यत्वात् वेदबोधितत्वात् / ननु मङ्गलजन्यापूर्वस्य स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन मङ्गलकर्तृशरीरनिष्ठतयैव कारणत्वं वाच्यम्, अन्यथा समवायसम्बन्धेनात्मनिष्ठतया कारणत्वे जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्त्यापत्तेः / तथा च प्रमत्तशरीरानुष्ठितसमाप्तिः कथं स्यात् ? तच्छरीरे तेन सम्बन्धेन मङ्गलजन्यापूर्वविरहादित्यत आह 'सर्वे विघ्ना' इति / 'पाठः' तदनुकूलकण्ठाभिघातादिः, 'तत एव' तज्जन्यापूर्वत एव , 'तदाचारात्' जन्मान्तरे तदाचरणात् / नन्वेवं यथोक्तसम्बन्धेन मङ्गलजन्यादृष्टं व्यभिचार्यवेत्यत आह 'तथा चेति / 'मङ्गलस्य' मङ्गलजन्यापूर्वस्य 'विकल्प एव' इति मङ्गलनाश्यतावच्छेदकवैजात्याक्रान्तविघ्नस्थलीयसमाप्ति प्रति मङ्गलजन्यापूर्व हेतुः, तादृशस्थलीयेतरसमाप्ति प्रति च विनायकस्तवपाठादिजन्यमपूर्व हेतुः, कारणत्वञ्च व्रीहियव. करणकयागवत् परस्पराभावविशिष्टत्वेन, तेन नोभयोरनुष्ठाने परस्परविरुद्धतत्कार्यद्वयप्रसङ्ग इत्यर्थः। न च विनायकस्तवपाठादिजन्यापूर्वस्य सामान्यतः समाप्तिमात्रं प्रत्येव हेतुत्वमस्तु, सर्वत्रान्ततो जन्मान्तरीयस्येव तस्य सुवचत्वात् / 1. अनागतविघ्नानुत्पादस्येति ख०, अनागतविघ्नप्रागभावस्येति ग० / Page #63 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्यै यत्र च साङ्गे मङ्गले सत्यपि न फलं तत्र विघ्नभूयस्त्वादिति तन्न; _ एवञ्च व्रीहियववत् परस्पराभावविशिष्टत्वेन कारणत्वानभ्युपगमेऽपि न क्षतिरिति वाच्यम् , सर्वत्र विनायकादिस्तवपाठादिजन्यापूर्वकल्पने गौरवात् ; फलमुखगौरवस्यापि दोषत्वादिति भावः / / __ समाप्ति प्रत्यन्वयव्यभिचारमुद्धरति 'यति / 'साङ्ग' सकलवैदिकाङ्गसम्पन्ने, 'न फलम्' न समाप्तिः, 'विघ्नभूयस्त्वात्' भूयोजातीयविघ्नसत्त्वात् , यन्मङ्गलं कृतं तदनाश्यजातीयविघ्नसत्त्वादिति यावत् / नतिस्तुत्यादिभेदेन मङ्गलस्य विभिन्नतया मङ्गलत्वस्य सर्वसाधारणस्यैकस्य दुर्वचतया परस्परव्यावृत्तविघ्ननिष्ठवैजात्यानामेव प्रत्येकं नाश्यतावच्छेदकत्वादिति भावः / न चैवं' कारणान्तराभावेन क्वचित् फलानुपधाने समाप्तिसाधनताबोधकवेदस्योक्तक्रमेणाप्रामाण्यसिद्धिप्रसङ्ग इति वाच्यम् , समाप्तिजनने विघ्नसामान्याभावस्याप्यङ्गतया साङ्गत्वाभावादेव साङ्गवेदबोधितकर्मत्वाभावसिद्धिसम्भवेनाप्रामाण्यासिद्धेरिति हृदयम् / __प्राश्वस्तु विघ्नभूयस्त्वादि'त्यस्य कृतमङ्गलमपेक्ष्य विघ्नानां भूयस्त्वादित्यर्थः / तथा च विघ्नसमसङ्खथमङ्गलत्वेन विननाशकतया कृतमङ्गलतस्तत्समसङ्ख्यविघ्ननाशेऽपि विघ्नान्तरसत्त्वान्न समाप्तिः, मङ्गलत्वञ्च शक्तिविशेषसम्बन्धेन मङ्गलपदवत्त्वं, विनत्वञ्च मङ्गलनाश्यतावच्छेदकतया सिद्धा नतिस्तुत्यादिनाश्यसकलादृष्टसाधारण्येकैव जातिरिति भाव इत्याहुः, तदसत् ; सामान्यतो विन्नसमसङ्घयमङ्गलत्वेन नाशकत्वेऽप्येकमङ्गलतः सर्वविघ्ननाशस्य दुर्वारत्वात् , एकमङ्गलस्याप्येकविघ्नसमसङ्घयत्वात् / न चैकविघ्ननाशं प्रत्येकमङ्गलत्वेन, 1. साङ्गे मङ्गले सत्यपीत्यर्थः / 2. विद्यमानमङ्गलानाश्यविघ्नसत्तया विघ्नसामान्याभावरूपकारणाभावेनेत्यर्थः / 3. समाप्त्यनुत्पाद इत्यर्थः / / 4. फलोपधायकत्वाभावेन साङ्गवेदबोधितकर्मत्वाभावः साध्यमानः साङ्गे मङ्गले वेद बोधितत्वाभावमादाय सिद्ध्यति, वेदबोधितत्वाभावश्च तस्य समाप्तिसाधनताबोधकवाक्ये वेदत्वाभावसिद्ध्या उपपद्यते, वेदत्वाभावश्च वेदत्वघटकविशेषणभागाश्रये तादृशवाक्ये वेदत्वघटकप्रामाण्यरूपविशेष्यस्याभावमादाय सिदध्यतीति क्रमेणेत्यर्थः / 5. प्रामाण्यासिद्धिप्रसङ्ग इति ख०।। 6. स्वनाश्यविघ्नविजातीयविघ्नसमवहिते मङ्गले विघ्नसामान्याभावरूपाङ्गवैकल्येन साङ्गत्वाभावः। तत एव च तत्र साङ्गवेदबोधितकर्मत्वाभावस्य सिद्धिसम्भवेन तत्र वेदबोधितत्वाभावसिद्ध रनावश्यकतया तदर्थ तस्य समाप्तिसाधकताबोधकवाक्ये वेदत्वाभावसाधनस्य निष्प्रयोजनत्वेन न तत्र वेदत्वघटकस्य प्रामाण्यस्याभावसिद्धिरित्याशयः / Page #64 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः विघ्नानुत्पादस्य व्यापारत्वे मानाभावात् , संसर्गाभावत्वेन हेतुत्वात् / तथैव व्यापारत्वम् / तच प्रागभावेऽप्यस्तीति चेत् , न; अत्यन्ताभावविनद्वयनाशं प्रति मङ्गलद्वयत्वेन, विघ्नत्रयनाशं प्रति मङ्गलत्रयत्वेनेत्यादिप्रातिस्विकरूपेण नाश्यनाशकभाव इति वाच्यं, तथापि भूयोविघ्नस्थले एकद्वथादिमङ्गलत एकद्वयादिविघ्न [ नाशो भवन् ] नाशस्य भवनेन विनिगमनाविरहेण सर्वेषामेव विघ्नानां नाशस्य दुर्वारत्वात् / ___केचित्तु मङ्गलत्वेन विघ्नत्वेनैव नाश्यनाशकभावः, कार्यकारणभावस्तु एकविघ्नस्यलीयसमाप्तौ एकमङ्गलत्वेन, विघ्नद्वयस्थलीयसमाप्तौ मङ्गलद्वयत्वेन, विघ्नत्रयस्थलीयसमाप्तौ मङ्गलत्रयत्वेनेत्यादिप्रातिस्विकरूपेण / विघ्नस्थलीयत्वञ्च प्राक्निरुक्तमेव / तेन कृतेऽपि मङ्गले विघ्नस्य ततो भूयस्त्वान्न 'सिद्धिरित्याहुः, तदप्यसत् ; विघ्नभूयस्त्वेऽपि एकद्वयादिमङ्गलादेकद्वयादिविघ्नस्थलीयसमाप्त्यापत्तेर्दुर्वारत्वात् कारणसत्त्वादिति कृतं पल्लवितेन / विघ्नानुत्पादस्येति विघ्नप्रागभावस्येत्यर्थः / 'व्यापारत्वे' मङ्गलजन्यत्वे, 'मानाभावादिति विघ्नप्रागभावं प्रति मङ्गलस्यानन्यथासिद्धत्वे मानाभावात् / यथोक्तजन्यताया अपि अनन्यथासिद्धत्वघटितत्वाद् यथोक्तरूपमपेक्ष्य लाघवेन तत्कारणकत्वस्यैव तज्जन्यतात्मकत्वाच्च / ___ न च यत्र स्वतःसिद्धो विघ्नाभावः, तत्रत्यमङ्गलपक्षकफलोपधानाभावहेतुकसाङ्गवेदबोधितकर्मत्वाभावानुमानादुक्तक्रमेण निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत्' इति वेदाप्रामाण्यसिद्धिप्रसङ्ग एव विघ्नप्रागभावस्य मङ्गलजन्यत्वे मानम् / अत एव यथोक्तरूपस्य गुरुत्वेऽपि तदेव जन्यत्वं, प्रामाणिकगौरवस्यादोषत्वादिति वाच्यम् ; विघ्नध्वंसजनने विघ्नस्याप्यङ्गतया साङ्गत्वाभावादेव तत्र' साङ्गवेदबोधितकर्मत्वाभावसिद्धिसम्भवेनाप्रामाण्यसिद्धिप्रसङ्गविरहात् / अन्यथा तन्मतेऽपि यत्र कृतेऽपि मङ्गले न समाप्तिः, तत्र समाप्त्युपधायकत्वाभावेन वेदाप्रामाण्यसिद्धिप्रसङ्गस्य दुर्वारत्वात् / यत्र विघ्नस्य प्रागभावो नास्ति, तत्र वेदाप्रामाण्यसिद्धिप्रसङ्गस्य दुर्वारत्वाच्चेति भावः / / विघ्नध्वंसस्य व्यापारताया उभयसिद्धत्वाभिमानेन शङ्कते 'संसर्गाभावत्वेने ति विघ्नसंसर्गाभावत्वेनेत्यर्थः। 'हेतुत्वात्' मङ्गलजन्यविघ्नध्वंसस्य समाप्तौ हेतुत्वात् / 'तथैव' विघ्नसंसर्गाभावत्वेनैव, 'व्यापारत्वं' विघ्नध्वंसस्य मङ्गलजन्यत्वम् , व्यापारस्य फलं प्रति येन रूपेण कारणत्वं तेनैव रूपेण करणजन्यत्वस्यौत्सर्गिकत्वाद् ज्ञानसंस्कारादिरथले तथा दृष्टत्वादिति भावः / तच्च' विघ्नसंसर्गाभावत्वञ्च, 1. अस्मात् पूर्व मङ्गलसमाप्त्योरिति योज्यम् / 2. न समाप्तिरिति क.। 3. स्वतःसिद्धविघ्नविरहवनिष्ठे मङ्गले इत्यर्थः। Page #65 -------------------------------------------------------------------------- ________________ 54 सत्त्वचिन्तामणौ सरहस्ये स्यापि व्यापारत्वापत्तेः। स्वतःसिद्धस्य तस्य न हेतुत्वं यदि, तदा प्रागभावेऽपि तुल्यम् / किञ्च, यत्र मङ्गलं न, तत्र नियमेन विघ्नकारणमस्ति, येन तन्नाशद्वारा प्रागभावस्य साध्यत्वम् / एवमपि यत्र विघ्नानुत्पादोऽपि स्वतःसिद्धः, तत्र मङ्गलमकिश्चित्करमेव / विघ्नध्वंसानुत्पादयोरारब्धनिर्वाहकालावस्थायिनोमङ्गलादेवोत्पत्तेर्न 'अत्यन्ताभावस्यापी'ति, तत्रापि विघ्नसंसर्गाभावत्वसत्त्वादिति भावः / ‘स्वतःसिद्धस्ये'ति नित्यस्येत्यर्थः, 'तस्य' विघ्नात्यन्ताभावस्य, 'हेतुत्वं' समाप्तिहेतुत्वमेव, न तु यथोक्तमङ्गलजन्यत्वम् / अतो म व्यापारत्वमिति शेषः। 'प्रयभावेऽपि तुल्यमिति विघ्नप्रागभावस्यापि समाप्तिहेतुत्वमेव, न तु यथोक्तमङ्गलजन्यत्वम् / तत्र मङ्गलस्यानन्यथासिद्धत्वे मानाभावात् / यथोक्तजन्यतायामप्यनन्यथासिद्धत्वप्रवेशस्यावश्यकत्वादित्यर्थः / ननु यथा प्रत्यवायानुत्पादमुद्दिश्य सन्ध्यावन्दनादौ शिष्टप्रवृत्तेः प्रत्यवायानुत्पादस्य सन्ध्यावन्दनादिजन्यत्वं, तथा विघ्नानुत्पादमुद्दिश्यापि मङ्गले शिष्टप्रवृत्तेविघ्नप्रागभावस्यापि मङ्गलजन्यत्वमावश्यकम् / अत एव यथोक्तरूपस्य गुरुत्वेऽपि तदेव जन्यत्वं, प्रामाणिकगौरवस्यादोषत्वादित्यनुशयादाह 'किञ्चेति / 'विनकारणं' मङ्गलाभावेतरविघ्नोत्पादककारणकलापः, मङ्गलाभावेतरविघ्नप्रागभावनाशककारणकलाप इति यावत् / 'तन्नाशद्वारे'ति' विनकारणं मङ्गलजादृष्टप्रागभावः, तन्नाशोऽदृष्टं तद्द्वारेत्यर्थः। 'प्रागभावस्य' विघ्नप्रागभावस्य, 'साध्यत्वं' सर्वत्र मङ्गलसाध्यत्वम् / तथा च यन्मङ्गलव्यक्तेरनन्तरं समाप्तिपर्यन्तं मध्ये विघ्नप्रागभावनाशकान्तरसमवधानमेव न जातं, तन्मङ्गलव्यक्तरेवोक्तरूपजन्यत्वं न विघ्नप्रागभावस्येति भावः।। ननु मास्तु तन्मङ्गलव्यक्तिजन्यत्वं, विघ्नप्रागभावस्य किनश्छिन्नमित्यत आह 'एवमपी'ति, एवळचेत्यर्थः / 'विघ्नानुत्पादोऽपीति, अपिना विघ्नध्वंससमुच्चयः / विघ्नानुत्पादस्य स्वतःसिद्धत्वं विघ्नप्रागभावनाशकान्तराभावाधीनत्वं, विघ्नध्वंसस्य स्वतःसिद्धत्वं जन्मान्तरार्जितमङ्गलात् सिद्धत्वम् / 'अकिञ्चित्करमेव' व्यापारीभूतविघ्नसंसर्गाभावानुपधायकमेव / ननु तत्र तदनुपधायकत्वेऽपि न क्षतिः, वेदाप्रामाण्यसिद्धिप्रसङ्गनिरासस्य त्वदुक्तरीत्यैव सुकरत्वादित्यस्वरसात्तावतीत्याधुक्तं दूषयति 'विघ्नध्वंसे ति। 'स्थायिनो' 1. तद्ध्वंसद्वारेतीति क०, ग०, घ०, च० / 2. विघ्नकारणनाशद्वारा साध्यत्वरूपेत्यर्थः / 3. 'तावति समये दुरितानुत्पादश्च' इत्यादिमूलोक्तमित्यर्थः / Page #66 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः तदर्थमदृष्टद्वारता / मङ्गलस्य विकल्पेनान्वये शिष्टैनियमतो मङ्गलानुष्ठानं न स्यादित्युक्तम् / किञ्च, प्रधानत्वे साङ्गमङ्गलमात्रं न समाप्तिहेतुः, तस्मिन् सत्यपि तदभावात् / स्थायित्वविशिष्टयोः, विशिष्टस्यानतिरिक्तत्वादिति भावः। 'तदर्थ' तावत्समयवृत्तित्वविशिष्टविघ्नप्रागभावार्थम् / न च मङ्गलस्याशुविनाशितया तावतां समयानां तेन जननासम्भवादपूर्वस्वीकार इति वाच्यं, समयानां मङ्गलजन्यत्वे मानाभावादिति भावः। ननु मङ्गलानन्तरं समाप्तिपूर्व मध्ये विघ्नजनककर्मानुष्ठाने विघ्नोत्पत्ति प्रतिबन्धार्थमदृष्टाभ्युपगमः, मङ्गलस्याशुविनाशितया तेन तावत्कालं साक्षाद्विघ्नोत्पत्तिप्रतिबन्धासम्भवादित्यरुचेराह 'मङ्गलस्पे'ति मङ्गलजन्यापूर्वस्येत्यर्थः / 'अन्वये' कारणत्वे, 'न स्यादिति गणेशस्तवपाठादिजन्यादृष्टसत्त्वसम्भावनया न स्यादित्यर्थः / एकाभावविशिष्टापरस्यैव जनकत्वादिति भावः / इदमुपलक्षणं, गणेशस्तवपाठमङ्गलयोरुभयोरनुष्ठानेऽपि समाप्तिदृश्यते, तदपि न स्यादित्यपि बोध्यम् / ननु गणेशस्तवपाठजन्यापूर्वमङ्गलजन्यापूर्वयोन विकल्पेन कारणत्वं, किन्तु तृणारणिमणिन्यायेन यत्र गणेशस्तवपाठमङ्गलयोरनुष्ठानं, तत्र मङ्गलनाश्यविघ्नस्थलीयास्थलीय समाप्तिद्वयानुत्पादश्च भूयोजातीयविघ्नसत्त्वात् / यद्वा मङ्गलजन्यापूर्वस्य तन्नाश्यजातीयविघ्नस्थलीयसमाप्तित्वं कार्यतावच्छेदकं, गणेशस्तवपाठादिजन्यापूर्वस्य तत्तत्पाठादिनाश्यजातीयविघ्नस्थलीयसमाप्तित्वं, न तु मङ्गलजन्यापूर्वनाश्यजातीयविघ्नस्थलीयेतरसमाप्तित्वम् / अत एवोभयोरनुष्ठानेऽपि कचित् फलदर्शनं नानुपपन्नमित्यरुचेराह 'फिञ्चेति / 'प्रधानत्वे' अपूर्वद्वारा समाप्तिरूपप्रधानफलजनकत्वे, 'तस्मिन् सत्य गीति सर्वजातीयेषु एकैकमङ्गलेषु कृतेष्वपीत्यर्थः / 'तदभावात्' समाप्तेरभावात् / तथा च तत्र समाप्त्यापत्तिरिति भावः। न च तत्र मङ्गलानन्तरोत्पन्नविघ्नेन प्रतिबन्धान समाप्त्युदय इति वाच्यम् , मङ्गलजन्यादृष्टस्य विघ्नप्रतिबन्धकतया मङ्गलानन्तरं समाप्तिपर्यन्तं विघ्नान्तरोत्पत्तेरसम्भवादिति हृदयम् / 1. मङ्गलमात्रमिति ख० / 2. तत्र तयोः कतरेणाप्यदृष्टजननासम्भवात्, एकस्माददृष्टोत्पत्तयेऽपराभावस्यापेक्षितत्वा दिति भावः। 3. तादृशविघ्नस्थलीयान्येत्यर्थः / Page #67 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये प्रचितं तथेति चेत्, न; अप्रचितादपि फलसत्त्वात् / नोभयम् , अननुगमात् / गुरुकौरम्मे प्रचितमन्पकौरम्मेऽन्पमिति चेत् , न ; क्वचित् तादृशादपि फलासचात्, वैपरीत्येऽपि फलसत्त्वाच / ___ एतेन बहुविघ्नशङ्कया बहुतरम् , अल्पविघ्नशङ्कया अल्पतरश्च हेतुः तादृशाचारेण तादृशश्रुत्युन्नयनादिति निरस्तम् / तादृशादपि प्रारिप्सिता ___'प्रचितमिति बहुतरं तत्तजातीयमङ्गलमित्यर्थः / 'फलसत्त्वात्' फलोदयात् , प्रचितस्यैव हेतुत्वे ततः फलानुदयः स्यादिति भावः / अप्रचितात् फलानुदयप्रसङ्गमुद्धरति 'नोभयमि'ति / 'उभयं' प्रचितमप्रचितञ्च, 'अननुगमादि'ति, यत्र सर्वजातीयेषु एकैकमङ्गलेषु कृतेष्वपि न समाप्तिस्तत्स्थलीयाप्रचितनमस्कारादिव्यावृत्तस्य प्रचितमङ्गलनिष्ठानुगतकारणतावच्छेदकस्याभावादित्यर्थः / तथा च तत्र कार्योत्पत्तितादवस्थ्यमिति भावः। इदमुपलक्षणं, यत्राप्रचितात् समाप्तिः, तत्र प्रचितस्य व्यतिरेकव्यभिचार इत्यपि बोध्यम् / गुरुकर्मारम्भे' गुरुतरारब्धकर्मसमाप्तौ, प्रचितं' बहुतरं, नमस्कारादिकमित्यर्थः। 'अल्पकर्मारम्भे' अल्पतरारब्धकर्मसमाप्तौ, 'अल्पं' 'नमस्कारत्रयाभावविशिष्टनमस्कारादिकम् / 'ताहशादपो ति यत्र सर्वजातीयान्येव त्रीणि त्रीणि मङ्गलानि कृतानि, तत्रापि गुरुकर्मासमाप्तः, यत्र सर्वजातीयान्येवैकैकमङ्गलानि कृतानि, तत्राप्यल्पतरकर्मासर्माप्तश्चेत्यर्थः / 'वपरीत्येऽपी'ति प्रचितादप्यल्पतरकर्मसमाप्तेरप्रचितादपि "गुरुतरकर्मसमाप्तेश्चेत्यर्थः। __'बहुविघ्ने'ति 'शङ्कितबहुतरविघ्नसमाप्तौ बहुतरं, शङ्किताल्पतरविघ्नसमाप्तौ अल्पतरं मङ्गलं हेतरित्यर्थः। 'ताहशश्रुती ति अल्पविघ्नज्ञानवान् अल्पमङ्गलं, बहुतरविघ्नज्ञानवान् बहुतरमङ्गलमाचरेदित्याकारकश्रतीत्यर्थः / 'ताहशादपी ति बहुतरमङ्गले कृतेऽपि शङ्कितबहुतरविघ्नसमाप्तेरनुदयाद् अल्पतरमङ्गले कृतेऽपि 1. फलनिष्पादादिति ख०। 2. तादृशश्रुत्यनुमानादितीति क० / / 3. एकजातीयमङ्गलचतुष्टयनाश्यविघ्नचतुष्टयस्थले एकजातीयमङ्ग लत्रयसत्त्वेऽपि गुरुतर कर्मणः समाप्तिर्न भवति, एवमेकजातीयमङ्गलद्वयनाश्यविघ्नद्वयस्थले नानाजातीयैकैक मङ्गलसत्त्वेऽप्यल्पतरकर्मणः समाप्तिनं भवतीत्यर्थः। 4. गुरुतरेत्यादिपूर्व 'विघ्नाल्पत्वे' इति योज्यम् / 5. शङ्कितो बहुतरो विघ्नः स्वस्मिन् येन पुंसा तदारब्धकर्मसमाप्तावित्यर्थः / . 6. एकजातीयमङ्गलये कृतेऽपि विघ्न चतुष्टयादिस्थले शङ्कितबहुतरविघ्नसमाप्तिन . भवतीत्यर्थः। Page #68 -------------------------------------------------------------------------- ________________ 57 प्रत्यक्षखण्डे मङ्गलवादः समाप्तेः, वैपरीत्येऽपि समाप्तेश्च बहुत्वस्य त्रिचतुरादिभावेन', अन्पत्वस्य चैकद्वयादिरूपतया' अननुगमेन तादृशशिष्टाचारेण तादृशश्रुत्या बोधयितुमशक्यत्वाच / तस्मान्मङ्गलं नाङ्गं, न वा प्रधानमिति पूर्वपक्षसंक्षेपः / ___ इति मङ्गलवादे पूर्वपक्षः। शहिताल्पतरविघ्नसमाप्तेरनुदयादित्यर्थः / 'वैपरोत्येपोति बहुतरविघ्नज्ञानवतोsप्यल्पमङ्गलात् समाप्तः, अल्पविघ्नज्ञानवतोऽपि बहुतरमङ्गलात् 'समाप्तेरित्यर्थः। तथा च व्यतिरेकव्यभिचार इति भावः / ____ 'त्रिचतुरादिभावेने ति त्रित्वचतष्ठादिरूपत्वेनेत्यर्थः। 'एकद्वयादिरूपतया एकत्वद्वित्वरूपतया। न च द्वित्वैकत्वभिन्न सङ्घथात्वेन त्रित्वत्वेन वाऽनुगमः, चतरादिस्थलेऽपि त्रयाणां सत्त्वादिति वाच्यम् ; मङ्गलस्याद्रव्यतया तवृत्तित्रित्वादेः सङ्ख्यानात्मकत्वेन तवृत्तित्रित्वत्वादेरप्यननुगतत्वादिति भावः। 'नाङ्ग, न वा प्रधानम्' इति नारब्धकर्मजन्यसमाप्तिजनकं, न वा तदजन्यतदुत्पत्तिजनकमित्यर्थः / इति मङ्गलवादपूर्वपक्षरहस्यम् / 1. अस्याग्रेतनेन 'बोधयितुमशक्यत्वात्' इत्यनेनान्वयः / 2. अस्याप्यग्रिमेण 'बोधयितुमशक्यत्वात्' इत्येतेनान्वयः। 3. एकजातीय एकमङ्गले कृतेऽपि विघ्नद्वयस्थले शङ्किताल्पतरविघ्नसमाप्तिर्न भवतीति भावः। 4. 'वस्तुतो विघ्नाल्पत्वे' इति 'समाप्त!' इत्येतत्पूर्व योज्यम् / 5. 'समाप्तेः' इत्येतत्पूर्वं 'वस्तुतो विघ्नबहुत्वे' इति योज्यम् / Page #69 -------------------------------------------------------------------------- ________________ अथ मङ्गलवादसिद्धान्तपक्षः सिद्धान्तस्त्वारब्धकर्मसमाप्तौ मङ्गलं नाङ्ग, न वा प्रधानम् , अहेतुत्वात् ; किन्तु प्रायश्चित्तवत् प्रधानं विघ्नध्वंसः फलम् / आरब्धकर्मनिर्वाहे विघ्नो मा भूदिति कामनया तदनुष्ठानाद् विघ्नसंशये निश्चये वा शिष्टानां तदाचरणाद् विघ्नामावस्याकासित्तत्वाच / अथ मङ्गलवादसिद्धान्तरहस्यम् 'आरब्धकर्मसमाप्ताविति आरब्धकर्मजन्यसमाप्तावित्यर्थः / 'नाङ्ग' नारब्धकर्मजन्यसमाप्तेरुपधायकं, 'न वा प्रधानमिति, न वा आरब्धकर्माजन्यारब्धकर्मोत्पत्तेरुपधायकमित्यर्थः / 'अहेतुत्वादिति मङ्गले तदुभयस्वरूपयोग्यत्वस्यैवाभावादित्यर्थः। 'प्रधानमिति आरब्धकर्माजन्यफलान्तरजनकमित्यर्थः। तदेव फलान्तरमाह 'विघ्नध्वंस' इति / नन तस्य मङ्गलफलत्वे किं मानमित्यत आह 'आरब्यकर्मनिर्वाहे' इति / 'निर्वाहः' समाप्तिः, प्रतिबन्धकत्वं सप्तम्यर्थः, अन्वयश्चास्य 'विघ्न' इत्यनेन / 'मा भूत्' मा वर्ततां, यथाश्रुते विघ्नप्रागभावस्यैवोद्देश्यत्वलाभात् / 'इति कामनया' इत्युद्दिश्य, 'तदनुष्ठानादिति तत्र शिष्ट प्रवृत्तेरित्यर्थः / तथा च 'मङ्गलं विघ्नध्वंसजनकं, विघ्नध्वंसोद्देश्यकशिष्टप्रवृत्तिविषयत्वादि'त्यनुमानमेव मानम् / शिष्टत्वं भ्रमाजन्यत्वम् / न चेदमप्रयोजक, तदुद्देश्यकप्रवृत्तौ तत्साधनताज्ञानस्य हेतुत्वादिति भावः / केचित्तु 'इति कामनये'ति यथाश्रुतमूलानुरोधात् 'मङ्गलं विघ्नध्वंसजनकं, विघ्नध्वंसकामनाजन्यशिष्टप्रवृत्तिविषयत्वादि'त्यनुमानं मानमित्याहुः, तदसत् ; विघ्नध्वंसस्वर्गोभयोद्देश्यकसमूहालम्बनफलकामनासहकृतस्वर्गसाधनतामात्रविषयकप्रमाजन्यप्रवृत्तिविषये यागादौ व्यभिचारापत्तेरिति ध्येयम् / हेत्वन्तरमाह 'विघ्नसंशयेति / तथा च मङ्गलं विघ्नध्वंसजनकम् , विघ्नाजनकत्वे सति विघ्नज्ञानवतामेव शिष्टप्रवृत्तिविषयत्वादित्यनुमेयमिति भावः। हेत्वन्तरमप्याह 'विघ्नाभावस्येति / 'आकाक्षितत्वात्' मङ्गलगोचरकामनायाः फलत्वेनोद्देश्यत्वात्। तथा च मङ्गलं विघ्नध्वंसजनकं, विघ्नध्वंसोद्देश्यकशिष्टकामनाविषयत्वादित्यनुमेयम् / शिष्टत्वं भ्रमाजन्यत्वम् / न चेदमप्रयोजक, तदुद्देश्यककामनां प्रति तत्साधनताज्ञानस्य हेतत्वादिति भावः। Page #70 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः यदि च निर्विघ्नं समाप्यतामिति कामनया तदाचरणं, तदापि नागृहीतविशेषणान्यायेनाहं 'स्वर्गी स्याम्' इत्यत्र स्वर्ग इव विघ्नाभाव एव फलं, न समाप्तिः, उभयतो व्यभिचारात् / नन्वेवं निर्विघ्नं समाप्यतामित्युद्दिश्यापि मङ्गले शिष्टप्रवृत्तेः समाप्तेरपि फलत्वमावश्यकं, तदुद्देश्यकप्रवृत्तौ तत्साधनताज्ञानस्य हेतुत्वादित्यत आह 'यदि चेति। 'इति कामनया' इत्युद्दिश्य, 'तदाचरणं' तत्र शिष्टप्रवृत्तिः, 'नागृहीतविशेषणान्यायेन' नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायत इति न्यायेन / भवन्मतेऽपि विघ्नध्वंसस्य तत्रोद्देश्यतावश्यकतयेति शेषः। 'इत्यत्र' इत्याकारकोद्देश्यताशालियागादिगोचरप्रवृत्ती, 'स्वर्ग इव' स्ववृत्तित्वोपलक्षितस्वर्ग इव, 'विघ्नाभाव एव फलम्' समाप्त्यव्यवहितपूर्ववर्तित्वोपलक्षितविघ्नध्वंस एव तादृशप्रवृत्तावुद्देश्यः, उभयतो व्यभिचारादिति शरीरनिष्ठसम्बन्धेनात्मनिष्ठसम्बन्धेन च मङ्गलस्य समाप्तिं प्रति व्यतिरेकव्यभिचारादित्यर्थः। मङ्गलस्याशुविनाशितया चिरकालानन्तरभाविसमाप्त्यव्यवहितपूर्व तदनवस्थानात् / न च विघ्नध्वंसद्वारा तस्य हेतृत्वान्न व्यभिचार इति वाच्यं, तथा सति जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यापि तत्र शिष्टप्रवृत्तिप्रसङ्ग इत्युक्तत्वात् / न च तज्जन्यविन्नध्वंसस्य स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन शरीरनिष्ठतया हेतुत्वान्नायमतिप्रसङ्ग इति वाच्यं, तर्हि तज्जन्यविघ्नध्वंसस्य प्रमत्तानुष्ठितसमाप्तावेव व्यभिचाराद् विघ्नस्थलीयत्वस्योक्तक्रमेण कार्यतावच्छेदकत्वासम्भवादिति भावः। एतच्चोपलक्षणं, समाप्तित्वस्य विघ्नध्वंसत्वापेक्षया गुरुत्वाद् अनुगतस्य तस्य दुर्वचत्वाच्च / विघ्नध्वंसत्वं तु विजातीयादृष्टध्वंसत्वमेव, वैजात्यश्च प्रायश्चित्तादिनाश्यादृष्टव्यावृत्तो नत्यादिनाश्यतावच्छेदकतया सिद्धोऽदृष्टनिष्ठो जातिविशेषः / 'नत्यादिभेदेन कार्यकारणभावभेदस्त्विष्यत एव / अत एव नानाविधमङ्गलाचरणं नानाविधविघ्नशङ्कया। न चैवमेकनमस्कारादित एव तत्पूर्वोत्पन्नतन्नाश्यजातीय१. अवच्छेदकतासम्बन्धेनेत्यर्थः / 2. समवायसम्बन्धेनेत्यर्थः / 3. मङ्गलस्य समाप्ति प्रति व्यतिरेकव्यभिचारं स्पष्टयति 'मङ्गलस्याशुविनाशितया' इत्यादिना। 4. विभिन्नजातीयविघ्नात्मकादृष्टनाशे नत्यादिरूपं विभिन्नजातीयं मङ्गलं कारणं, न तु सामान्यतो विघ्नात्मका सामान्यनाशे मङ्गलसामान्यं हेतुः; नत्यादिनानाविधमङ्गलसाधारणस्यैकस्य मङ्गलत्वस्य, नत्यादिनाश्यनानाविधसाधारणस्यैकस्य विघ्नत्वस्य चाभावादित्यर्थः / . Page #71 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये समाप्तिस्तु विघ्नरूपप्रतिबन्धकाभावे सति लोकावगतस्वकारणादेव / सकलविघ्ननाशापत्तिरिति वाच्यम् , इष्टत्वात् / एकजातीयनानामङ्गलाचरणं तु पूर्वमङ्गलस्याङ्गवैगुण्यशङ्कया। किञ्च, समाप्तौ मङ्गलस्य हेतत्वेऽपि विघ्नध्वंसं प्रति हेतुत्वमावश्यकम् / तथा चावश्यकत्वात् तदेवास्तु, किं 'समाप्तिहेतुत्वेन / न च व्यापारेण व्यापारिणो नान्यथासिद्धिरिति वाच्यं, विघ्नस्य प्रतिबन्धकतया तदत्यन्ताभावस्यैव समाप्ति हेतुत्वेन विघ्नध्वंसे व्यापारत्वस्यैवासिद्धेः / विघ्नध्वंसस्यापि समाप्तौ पृथक कारणत्वकल्पने च महागौरवापत्तेः। समाप्तौ विघ्नध्वंसतत्सामान्यात्यन्ताभावमङ्गलानां त्रयाणां कारणत्वस्य विघ्नध्वंसं प्रति मङ्गलकारणत्वस्य च कल्पनीयत्वादित्यपि बोध्यम् / केचित्तु 'भयतो व्यभिचारात्' इत्यस्य अन्वयतो व्यतिरेकतश्च मङ्गलस्य समाप्तिं प्रति व्यभिचारित्वादित्यर्थ इत्याहुः।। नन्वेवं समाप्तिः किंहेतुका स्यादित्यत आह 'समाप्तिस्त्विति / अत्राचार्यानुयायिनो विघ्नध्वंस इव समाप्तिम जायतामिति समाप्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्तेर्विघ्नध्वंसवत् समाप्तिरपि मङ्गलफलम् / न च समाप्ति मुद्दिश्य मङ्गलाचरणमेवासिद्धमिति वाच्यम् , असङ्खथसंसारे मणिकृन्मतेऽ प्यवश्यं केनचित् तामुद्दिश्य मङ्गलानुष्ठानात् / न च तामुद्दिश्य मङ्गलाचरणं मङ्गले समाप्तिसाधनताभ्रमजन्यं, लाघवात् तथैव कल्पनादिति वाच्यम् / तर्हि विघ्नध्वंसमुद्दिश्य मङ्गलाचरणमपि भ्रमजन्यं लाघवादिति निष्फलमेव मङ्गलाचरणमिति जितं चार्वाकैः / यदि च तदाचारस्य भ्रमाजन्यत्वं तज्जनकविघ्नध्वंसजनकताज्ञानस्य भ्रमेतरत्वश्चानुभवसिद्धमिति गौरवं प्रामाणिकं, तदा प्रकृतेऽपि तुल्यम् / न च मङ्गलं न साक्षात् समाप्तिहेतुः, अस्थिरत्वात् , न वा विघ्नध्वंसद्वारा, विघ्नात्यन्ताभावस्यैव समाप्तिहेतुत्वात् / अत्यन्ताभावस्तु न द्वारम् , अजन्यत्वादित्यनायत्या विघ्नध्वंसजनकत्वमेव तस्येति वाच्यं, समाप्तिहेततायां प्रमाणसिद्धायामनायत्या अपूर्वस्यैव द्वारत्वकल्पनाद् विघ्नध्वंससम्बन्धेनैव साक्षाद्धेतुत्वस्यापि सुवचत्वाच्च / अन्वयव्यभिचारस्य चानुपदं ग्रन्थकृतैव निराकरिष्यमाणत्वात्। न चैवं जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्तिप्रसङ्ग इति वाच्यम्, इष्टत्वात् / असञ्जयसंसारे मणिकृन्मतेऽप्यवश्यं जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्य केनचिन्मङ्गलाचरणातू, तस्य च भ्रमजन्यत्वे मानाभावात् / 1. समाप्ति प्रति मङ्गलमन्यथासिद्धं, तज्जन्याद् विघ्नध्वंसादेव तदुत्पत्तिसम्भवादिति भावः / Page #72 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः प्रचिताप्रचितदेवतास्तुत्यादिसाङ्गमङ्गलात् प्रत्येकं विघ्नध्वंसो भवत्येव / अतो वैदिके फलनिश्चयान्मङ्गले प्रवृत्तिः / न च वेदाप्रामाण्यम् , समाप्त्यभावश्च क्वचित् प्राचीनविघ्नभूयस्त्वात् , क्वचिन्मङ्गलानन्तरोत्पन्नविघ्नात्, क्वचिल्लोकावगतकारणाभावात् / प्रारिप्सितविघ्नध्वंसश्च न मङ्गलं विना, न च प्रायश्चित्तेन शङ्कितविघ्नविनाशः, विघ्नसंशये तदनुपदेशात् / न च कामनोपाधिकर्त्तव्यत्वे न च तथापि समाप्तित्वस्यैकस्यानुगतस्याभावात् कार्यतावच्छेदकं दुर्वचमिति वाच्यम् , कारणत्वे प्रमाणसिद्धेऽनायत्या अननुगतस्यैव कार्यतावच्छेदकत्वात् / न चैवं विघ्नसत्त्वेऽपि समाप्त्युत्पादापत्तिः, अनादौ संसारेऽन्ततो जन्मान्तरो. त्पन्नविघ्नध्वंससम्बन्धेन मङ्गलसत्त्वादिति वाच्यं, विघ्नस्य प्रतिबन्धकतया तत्सामान्याभावस्यापि हेतुत्वात् , केवलमाचारानुरोधेनैव मङ्गलस्य हेतुत्वकल्पनादित्याहुः, तदसत् ; तथा सति यदुद्दिश्य यत् क्रियते तस्यैव तद्धेतुतया चैत्यवन्दनादेरपि स्वर्गादिहेतुत्वापत्तेः, तत्रापि तज्जनकीभूतज्ञानस्य भ्रमत्वमादाय विवादसम्भवादिति दिक् / ननु मङ्गले सति यत्र समाप्त्यनुदयस्तत्र कृतेऽपि साङ्गमङ्गले विघ्नध्वंसानुदयादन्वयव्यभिचार इत्यत आह 'प्रचिते'ति / 'प्रत्येकमि'ति स्तुतिनाश्यानां सर्वेषां स्तुतितो नाशः / नत्यादिनाश्यानां नत्यादितो नाशो भवत्येवेत्यर्थः / स्वतःसिद्धविघ्नासत्त्वस्थले च मङ्गलस्य साङ्गत्वमेव नास्ति, विघ्नस्याप्यङ्गत्वात् , मङ्गलकत्तुर्विघ्नासत्त्वे मानाभावाच्चेति भावः / 'अतः' इति / 'फलनिश्चयात्' सकलाङ्गसम्पत्तौ फलावश्यम्भावनिश्चयात् , 'वैदिके मङ्गले प्रवृत्तिरिति योजना / 'प्रवृत्तिः' निष्कम्पप्रवृत्तिः, 'प्राचीनविघ्नभूयस्त्वादिति प्राचीनानां विघ्नानां भूयोजातीयत्वादित्यर्थः / तथा च यन्मङ्गलं कृतं तदनाश्यजातीयसत्त्वादिति फलितम् / ननु यत्र सर्वजातीयान्येव मङ्गलानि कृतानि, तत्र समाप्त्यभावो न स्यादित्यत आह 'क्वचिन्मङ्गलानन्तरे'ति / पापोत्पादककारणानां यत्र बाधस्तत्राह 'क्वचिल्लोकावगते'ति / ननु तथापि यत्र प्रायश्चित्तादितो विघ्ननाशः, तत्र व्यतिरेकव्यभिचार इत्यत आह प्रारिप्सिते'ति / मङ्गलनाश्यजातीयविघ्ननाशश्चेत्यर्थः। ननु यथा विघ्नसंशयान्मङ्गलाचरणेऽपि फलम् , एवं ब्रह्मवधादिप्रायश्चित्तेऽपि स्यादित्यत आह, 'न चेति, न हीत्यर्थः / 'प्रायश्चित्तेन' ब्रह्मवधादिप्रायश्चित्तन, 'शङ्कितविघ्ननाशः' शङ्कितदुरितनाशः, "विघ्नसंशये' दुरितसंशये; 'कामनोपाधिकर्तव्यत्वे' Page #73 -------------------------------------------------------------------------- ________________ 63 तत्त्वचिन्तामणौ सरहस्ये नियतमनुष्ठानं न स्यादिति वाच्यम् ; आरब्धकर्मकारणप्रतिबन्धकामावोपायत्वेनावश्यं तदनुष्ठानात् / तेन विना प्रतिबन्धकाभावेऽसति कर्मानत्पत्तेः / न च प्रधानत्वे नान्यदापि तत्करणं, नियतसमयशिष्टाचारानुमितश्रुत्या कारम्भसमये तत्कर्त्तव्यत्ववोधनात् , दर्शारम्भसमये आरम्भणीयावत् / विघ्नसंसर्गाभावश्च समाप्तिहेतुः / स च क्वचित् स्वतःसिद्धः, क्वचिन्मङ्गलसाध्यः। अत एव मङ्गलं विनापि जन्मान्तरानुवर्तमानविघ्नाविघ्नध्वंसकामनाधीनप्रवृत्तिविषयत्वे, 'नियतमनुष्ठानं न स्यादिति, यस्य विघ्नज्ञानं नास्ति तस्यानुष्ठानं न स्यादित्यर्थः। अत्रेष्टापत्तिमाह 'आरब्धकर्मकारणे'ति, आरब्धकर्मसमाप्तिकारणेत्यर्थः / 'प्रतिबन्धकामावोगायत्वेन' तत्प्रतिबन्धकध्वंसोपायत्वज्ञानेन, 'अवश्यं तदनुष्ठानादिति, विघ्नज्ञानवतैवावश्यं तदनुष्ठानादित्यर्थः। ननु मङ्गलस्य समाप्तावजनकत्वे यत्र मङ्गलं न कृतं, तत्र विघ्नध्वंसो मास्त, समाप्तिस्त स्यादेवत्यत आह 'तेन विने'ति / 'प्रतिबन्धकाभावाभावे' प्रतिबन्धकीभूतविघ्नसत्त्वे, 'प्रतिबन्धकाभावे असतीति पाठेऽप्ययमेवार्थः। 'कर्मानुत्पत्तेः' कर्मासमाप्तेः / 'न चेति / 'प्रधानत्वे' विघ्नध्वंसमात्रजनकत्वे, समाप्त्यजनकत्व इति यावत् / 'अन्यदापि' कर्तव्यकर्मचिकोर्षाकालातिरिक्तकालेऽपि, तत्करणमिति फलजनकं स्यादिति शेषः। 'नियतसमये'ति तादृशचिकीर्षाकालनियतेत्यर्थः, 'कर्भारम्भसमये'ति, कर्त्तव्यकर्मचिकीर्षाकाल इत्यर्थः, 'दर्शारम्भसमये' दर्शचिकीर्षासमये / तथा च मङ्गलेन विघ्नध्वंसजनने कर्त्तव्यकर्मप्रतिबन्धकीभूतविघ्नध्वंसगोचरेच्छादिजननक्रमेण मङ्गलजननद्वारा कर्त्तव्यकर्मचिकीर्षाप्यङ्गम् , अन्यथा समाप्तेः फलत्वेऽपि भ्रान्त्या फलान्तरकामनया अन्यदा कृतान्मङ्गलाद् विघ्नध्वंसोत्पत्तेदुर्वारत्वादिति भावः / ननु भवन्मते मङ्गलस्य विघ्नध्वंसद्वारा समाप्त्यजनकत्वेऽपि तज्जन्यविघ्नध्वंसस्य प्रतिबन्धकाभावतया समाप्तिकारणत्वमस्त्येव / तस्य कारणत्वश्च किं स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन फलोभूतसमाप्तिकर्तृशरीरनिष्ठतया, विशेषणताविशेषसम्बन्धेन तादृशात्मनिष्ठतया वा? आद्य नास्तिकादिशरीरकर्तृकसमाप्तौ व्यभिचारः / अन्त्ये जनकत्वमपेक्ष्य कारणतत्कारणसाधारणप्रयोजकत्वस्य लघुतया तादृशतत्प्रयोजकताज्ञानस्यैव तदुद्देश्यकप्रवृत्तौ हेतुत्वनये जन्मान्तरीयग्रन्थसमाप्तिमुहिश्यापि मङ्गले शिष्टप्रवृत्त्यापत्तिरित्यत आह 'विघ्नसंसर्गाभावश्चेति / समवायसंसर्गावच्छिन्नतत्तद्विजातीयविघ्नसामान्याभावकूटश्चेत्यर्थः। तथा च मङ्गलवत् तज्जन्यविघ्नध्वंसोऽपि न समाप्तिहेतरित्यर्थः / 'स्वतःसिद्धः' विघ्नकारणाभावप्रयुक्तः, 'क्वचिदिति, यत्र मङ्गलेन विघ्ननाशे सति समाप्तिस्तत्रेत्यर्थः / मङ्गलसाध्यः' न Page #74 -------------------------------------------------------------------------- ________________ 63 प्रत्यक्षखण्डे मङ्गलवादः त्यन्ताभावात् प्रमत्तनास्तिकानुष्ठितसमाप्तिः। न चानध्यवसायः, शङ्कितविघ्नवारणार्थं प्रवृत्तिः अतो यावद्विघ्नशकं तदाचारात् / अत एव तच्छङ्कया मध्येऽपि तदाचरन्ति / ..गुर्वारम्भेऽपि बहुविघ्नशङ्कया बहुमङ्गलाचरणम् / यथा च विघ्नसंशयेऽपि प्रवृत्तिस्तथोक्त मेव / मङ्गलाधीनः, 'अत एवेति यत एव स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन शरीरनिष्ठतया विघ्नध्वंसो न हेतुः, अपि तु विघ्नात्यन्ताभाव एव हेतुरत एवेत्यर्थः / 'मङ्गलं विनापि' ऐहिकमङ्गलं विनापि। न चैवं विघ्नध्वंसे कथं कामना, सुखत्वदुःखाभावत्वप्रकारकेच्छां प्रति दुःखाभावत्वेष्टसाधनत्वप्रकारकज्ञानवद् यत्र द्वेषः, तदभावत्वप्रकारकज्ञानस्यापि पृथगिच्छाहेततया विघ्ने द्वेषसत्त्वेन विघ्नाभावत्वप्रकारकज्ञानादेव विघ्नध्वंसे कामनोत्पत्तेः / अन्यथा प्रायश्चित्तादिजन्यपापनाशेऽपि कामनानुपपत्तेः। न च विघ्ने द्वेष एव कथं स्यात् ? सुखाभावत्वदुःखत्वप्रकारकद्वेषं प्रति तत्प्रकारकज्ञानस्य, तदन्यद्वेषश्च प्रत्यनिष्टसाधनताज्ञानस्य हेतुत्वादिति वाच्यं, यद्धर्मावच्छिन्नाभावे इच्छा, तद्धर्मप्रकारकज्ञानस्यापि पृथग् द्वेषहेतुतया समाप्तिरूपेष्टसाधनतया इच्छासत्त्वेन विघ्नत्वप्रकारकज्ञानादेव द्वेषोत्पत्तेः। अन्यथा दाहार्थिनस्तत्प्रतिबन्धके मणौ 'द्वेषानुपपत्तेः। अत एव च समाप्तिकामनापि परम्परया मङ्गलाचारप्रयोजिकेति भावः / / 'न चानध्यवसाय' इति, कियन्ति मङ्गलानि कर्त्तव्यानि, कीदृशं वा मङ्गलं कर्तव्यमित्यत्र नियामकाभाव इत्यर्थः / थावद्विघ्नशङ्क' यावज्जातीयविनशङ्क, 'तदाचारात्' तज्जातीयमङ्गलाचारात् / 'अत एवेति यतः, शङ्कितविघ्नवारणार्थ मङ्गलकरणम् , अत एवेत्यर्थः / 'तच्छङ्कया' परकाले यत्कर्त्तव्यं तत्प्रतिबन्धकीभूतविघ्नान्तरोत्पत्तिशङ्कया, 'मध्येऽपी'ति आरब्धकर्ममध्यकालेऽपीत्यर्थः। न चारब्धकमेचिकीर्षाकालस्याङ्गतया कथं तदा तदनुष्ठानात् शङ्कितविघ्ननाश इति वाच्यं, तत्र परकालकर्त्तव्यभागस्यैवारब्धकर्मतया तच्चिकीर्षाकालस्यैवाङ्गत्वादिति भावः।। ननु समाप्तौ चेन्मङ्गलं न हेतः, तदा गुरुतरकारम्भे बहुतरमङ्गलाचरणं न स्याद् / अस्मन्नये त गुरुतरकर्मसमाप्तौ बहुतरमङ्गलस्य हेतत्वात् तदनुष्ठानमित्यत आह 'गुर्वारम्भेऽपी'ति / 'बहुविघ्नशङ्कया' बहुविघ्नशङ्कयैव, न तु गुरुकर्मसमाप्तौ बहुतरमङ्गलस्य हेतुतयेत्यर्थः। 'तथोक्तमिति तादृशाचारानुमितश्रुत्या तथैव बोधनादिति भावः। Page #75 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये स्यादेतत् , मङ्गलमाचरेदिति विधौ किं मङ्गलत्वं, न तावदेवतास्तुत्यादित्वम् , अननुगमात् / नापि प्रारिप्सितप्रतिबन्धकबिघ्नोपशमहेतुक्रियात्वं विघ्नोत्सारणासाधारणकारणत्वं वा, क्रियाविशेषस्य तदसाधारणकारणस्य वा स्तुत्यादेर्वेदाद्विशिष्टापरिचये प्रवृत्तिविषयालाभात् / नापि _ 'इति विधाविति इतिविधिप्रतिपाद्यं मङ्गलत्वं किमित्यर्थः। 'अननुगमादिति आदित्वस्य चानुगतस्यैकस्य दुर्वचत्वादिति भावः / 'नापी'त्यादि / 'विघ्नः' दुरितम् , अन्यथा प्रारिप्सितसमाप्तिप्रतिबन्धकस्यैव विघ्नपदार्थतया प्रतिबन्धकान्तवैयर्थ्यापातात् / अत्र प्रायश्चित्तेऽतिव्याप्तिवारणाय प्रतिबन्धकान्तम् / कारी- शौचादिहेतुक्रियायाञ्चातिप्रसङ्गवारणाय 'प्रारिप्सिते'ति प्रारब्धसमाप्तीत्यर्थः। तादृशि दुरिते प्रतियोगितया स्वनाशजनकेऽतिव्याप्तिवारणाय 'क्रियेति / 'क्रियात्त्वं' प्रवृत्तिविषयत्वं, प्रवृत्तित्वञ्च चिकीर्षाजन्यतावच्छेदको जातिविशेषः / एतच्च विनायकस्तवपाठेऽतिप्रसक्तं गणेशस्तवस्य मङ्गलत्वेऽपि तदनुकूलकण्ठाभिघाताद्यात्मकस्य तत्पाठस्यामङ्गलत्वात् / न च पाठकतासम्बन्धेन विनायकस्तवएव तन्नाशकः; न तु निरुक्ततत्पाठः स्तवश्च मङ्गलमेवेति वाच्यं; 'सर्व विघ्नाः शमं यान्ति' इति श्रुत्या तत्पाठस्यापि विघ्ननाशकत्वबोधनादित्यतो लक्षणान्तरमाह 'विघ्ने'ति विनध्वंसासाधारणकारणत्वमित्यर्थः। 'विघ्नः' मङ्गलनाश्यतावच्छेदकवैजात्याश्रयो दुरितं, तेन विनायकस्तवपाठे प्रायश्चित्ते कारीर्य्यादौ च नातिब्याप्तिः, तेषाञ्च शक्तिविशेषसम्बन्धेन विघ्नपदवत्त्वेनानुगमान्नाननुगमः / प्रतियोगिविधया कारणतामादाय विघ्नेऽतिव्याप्तिवारणाय 'असाधारणे'ति / असाधारणकारणत्वं च विघ्ननाशमात्रवृत्तिध्वंसत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं विघ्नेऽतिव्याप्तिवारणाय वृत्त्यन्तं कार्यताविशेषणम्। ध्वंसं प्रति च सामान्यतः सत्त्वेनैव हेतुत्वान्नोक्तातिव्याप्तिः। ध्वंसप्रतियोगिनोस्तत्तद्व्यक्तित्वेनापि हेतु-हेतुमद्भावे तादृशकारणतामादायातिव्याप्तिवारणाय ध्वंसत्वावच्छिन्नेति, ध्वंसत्वावच्छिन्नत्वञ्च न ध्वंसत्वपर्याप्तावच्छेदकताकत्वं, किन्तु तवृत्त्यवच्छेदकताकत्वमात्रं, तेन नासम्भव इति भावः। निरुक्तधर्मप्रकारेणैव विधिना बोधने अन्योन्याश्रयमाह ‘क्रियाविशेषस्येत्यादि / 'विशिष्टापरिचये' निरुक्तधर्मप्रकारेण पूर्व ज्ञानं विना 'प्रवृत्तिविषयालाभाद'ति निरुक्तधर्मप्रकारेण प्रथमं विशेषतो ज्ञानासम्भवादित्यर्थः। स्तुत्यादेविघ्नध्वंस१. विशिष्यापरिचये इति ख०। 2. कार्यताप्रतियोगिककारणताश्रयत्वमिति क०। अत्रापि प्रतियोगिकत्वं निरूपितत्वमेव, न त्वन्यदिति / Page #76 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः निर्विघ्नं समाप्यतामिति कामनया शिष्टाचारविषयत्वं, वेदस्याचारानुपजीवकत्वात् , वेदादाद्याचारानुपपत्तेश्व, अन्योन्याश्रयात् / ___नापि तत्कामनया वेदविहितत्वं, प्रारिप्सितकर्मनिर्वाहकत्वे सति कर्मारम्भकाले विहितवैदिककर्मत्वं वा तादृशवेदान्तराभावात् / नापि स्मृत्यादौ मङ्गलत्वेनोत्कीर्त्तितत्त्वं, वेदस्य स्मृत्यनुपजीवकत्वात् स्मृतिकर्तुरेव वेदादाद्याचारानुपपत्तेश्च / जनकत्वस्य वेदमात्रवेद्यत्वादिति भावः। 'शिष्टाचारे'ति भ्रमाजन्याचारेत्यर्थः / तेन भ्रमात् तादृशकामनया प्रवृत्तिविषये नातिप्रसङ्ग इति भावः। आचारादुपजीवकत्वादिति, आचारविषयकज्ञानाधीनशाब्दबोधाजनकत्वादित्यर्थः। नन्विदमप्रयोजकमित्यत आह 'वेदादि'ति / 'आद्याचारे'ति, पुरुषान्तराचारविषयत्वस्य स्वीयकालान्तरीयाचारविषयत्वस्य वा ज्ञानं विना प्रवृत्त्यनुपपत्तेश्वेत्यर्थः / अनुपपत्तौ हेतमाह 'अन्योन्याश्रयादि'ति, वेदात् स्वस्याचारे जाते तद्विषयत्वप्रकारकशक्तिग्रहाद् वेदाच्छाब्दधीर्वेदाच्छाब्दबोधे एव च स्वस्याचार इत्यन्योन्याश्रयप्रसङ्गादित्यर्थः / / यद्यपि पदान्तरशक्तिग्रहवत् प्रथममीश्वराचारदर्शनादेव शक्तिग्रहः सम्भवत्येव, तथापि यद्धर्मावच्छेदेन भगवदाचारदर्शनं तेनैव रूपेण शक्तिग्रहः स्यात् , स च नतित्वादिरेव, न त्वाचारविषयत्वमिति भावः। 'तत्कामनया' तत्कामनाप्रकारेण, तत्कामिकर्तव्यत्वप्रकारेणेति यावत् / तेन कामनाया विधिजन्यशाब्दबोधाजनकत्वेऽपि न क्षतिः। 'प्रारिप्सिते'ति, आरम्भणीयादावतिव्याप्तिवारणाय सत्यन्तं प्रारब्धकर्मसमाप्तिप्रयोजकत्वे सतीत्यर्थः / मङ्गलस्य समाप्त्यजनकतया जनकत्वमपहाय प्रयोजकत्वप्रवेशः / प्रयोजकत्वञ्च कारणतत्कारणसाधारणम् / अत एवादृष्टद्वारा समाप्तिप्रयोजककर्मान्तरेऽतिव्याप्तिवारणाय विहितान्तं कर्मपूर्वकालकर्त्तव्यतया विहितत्वार्थकम् , असम्भववारणाय पूर्वत्वप्रवेशः। वैदिकपदं विहितान्तेन तादृशकालकर्त्तव्यतया वेदविहितत्वलाभाय, अन्यथा कल्पितव्रतादिप्राक्कालकर्तव्यत्वेन लौकिककल्पितविधिविषयेऽदृष्टद्वारा तत्समाप्तिजनके होमादावतिव्याप्त्यापत्तेः। 'तादृशवेदान्तराभावादि'ति / इदमुपलक्षणं द्वितीयेऽदृष्टद्वारा प्रारब्धकर्मसमाप्तिप्रयोजके आरम्भणीयादावतिव्याप्तः, विघ्नध्वंसस्य समाप्त्यजनकतया मङ्गलस्य प्रारब्धकर्मसमाप्ति प्रति प्रयोजकत्वस्याप्यभावेनासम्भवापत्तश्चेत्यपि बोध्यम् / Page #77 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्ये उच्यते'-'मङ्गलमाचरेदिति न विधिः, किन्तु 'निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेदि'त्यादिप्रत्येकमेव विधिः / तथैव शिष्टाचारात् / तदुपजीव्य निर्विघ्नमारब्धं परिसमाप्यतामिति कामनया तद्विघ्नोपशमहेतुत्वेन वा वेदविहितत्वं मङ्गलत्वमित्यधिगम्य देवतास्तुतिनमस्कारादिषु मङ्गलव्यवहारः शिष्टानामिति / अत एव दुरितनाशकमपि गङ्गास्नानादि न मङ्गलम् , तथाविधानात् / मङ्गलाचारयुक्तानां नित्यश्च प्रयतात्मनाम् / जपतां जुह्वताश्चैव विनिपातो न विद्यते // __इत्यनेन बोधितादर्शदर्शनादेः पृथगेव मङ्गलत्वं, न तु विघ्ननिवर्तकतया, तत्र नानार्थतैव / अन्यथा ग्रन्थारम्मे नमस्कारतुल्यतया 'तत्करणप्रसङ्गः। 'निर्विघ्नसमाप्तिकाम' इति / एतच्च सम्प्रदायनयमाश्रित्य, स्वनये तु प्रारिप्सितविघ्नोपशमनकाम इति बोध्यम् / तथैव' स्तुतित्वादिनैव, 'शिष्टाचारात्' शिष्टप्रवृत्तिविषयत्वात् / 'तदुपजीव्येति तत्तद्विधिजन्यज्ञानसहकारेणेत्यर्थः। तद्विघ्ने'ति प्रारब्धकर्मविघ्नेत्यर्थः / लक्षणद्वयं मतभेदेन / नन्वेतल्लक्षणद्वयमादर्शदर्शनादावव्यापकमित्याशक्याह 'मङ्गलाचारे'ति, 'मङ्गलाचारः' आदर्शदर्शनादिः, 'विनिपातः' दुरितं, 'न विद्यते' नोत्पद्यते, 'मङ्गलत्वं' मङ्गलपदशक्यत्वं, 'तत्र नानार्थतैवेति, 'अत' इत्यादिः, 'तत्र' मङ्गलपदे / ननु नानार्थताया अन्याय्यतया विनिपातपदं प्रारिप्सितपरमेवास्तु, 'न विद्यत' इत्यपि विनाशपरमस्तु; तथा चादर्शदर्शनादेरपि नत्यादिवदेव मङ्गलत्वम् / न च 'जुहतामिति न होमान्तरविधिः,किन्तु अग्निहोत्रस्यैवानुवादः। तथा च तस्य नित्यतया विघ्नेतरपापानुत्पत्तिफलकत्वेन प्राप्तत्वाद् 'विनिपात'पदस्य विघ्नपरत्वं न विद्यत' इत्यस्य विनाशपरत्वश्च न सम्भवति / अग्निहोत्रानुरोधेन 'विनिपातो न विद्यत' 1. अत्रोच्यत इति ख०। 2. तथात्वेन वेदविहित त्वस्य मङ्गलस्वरूपत्वादेवेत्यर्थः / 3. विघ्ननाशार्थ गङ्गास्नानादेवैदेनाविधानादित्यर्थः / 4. नत्यादिवैलक्षण्येनैवेत्यर्थः / 5. विघ्ननिवर्तकतया नत्यादिवन्मङ्गलत्वे इत्यर्थः / 6. आदर्शदर्शनादिकरणप्रसङ्ग इत्यर्थः / Page #78 -------------------------------------------------------------------------- ________________ 67 प्रत्यक्षखण्डे मङ्गलवादः 'अथ' शब्दो विघ्ननिवर्तकत्वान्मङ्गलमेव, ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा / कण्ठं भित्त्वा तु निर्यातौ तेन माङ्गलिकावुभौ // इति स्मृतेः। न च शुभसूचकत्वमेव तस्य, शास्त्रारम्भे महर्षिणा तदनुपादानप्रसङ्गात् / इत्यस्य पापानुत्पादपरत्वं, मङ्गलानुरोधाच्च विघ्ननाशपरत्वमित्युपगमे च वाक्यभेद इति वाच्यं, तथापि पापसंसर्गाभावत्वसामानाधिकरण्येन 'सर्वेषां जन्यतान्वय सम्भवात् / कार्यतावच्छेदककल्पना च यथायोग्यमौ त्तरकालिकीत्यत आह 'अन्यथेति / ननु तथापि 'अथ' शब्देऽतिव्यातिः / ग्रन्थारम्भप्राक्काले तदुच्चारणस्यापि शिष्टैः करणादित्यत्रेष्टापत्तिमाह 'अथ' शब्द इति / / 'पुरा'सृष्ट्यारम्भकाले, 'कण्ठं भित्त्वा' 'कण्ठ्यवर्णघटितत्वात् कण्ठाभिहतवायुना, 'विनिर्यातौ 6 'तेन' तादृशविघ्नोपशमनकामशिष्टाचारविषयत्वेन, 'माङ्गलिको' मङ्गलस्वरूपौ / स्वार्थे इकणप्रत्ययात् / एवञ्च ग्रन्थस्त द्वहिर्भावेण, ग्रन्थस्य तद्घटितत्वे 'प्राक्काले अनुष्ठानविषयत्वासम्भवादिति बोध्यम् / ननु यथा यात्रापूर्वकालेऽपि शुभसूचकतया आदर्शदर्शनादि क्रियते, तथैव 'अथ' शब्दोऽपि शुभसूचकः स्यादित्याशक्य निराकरोति 'न चेति / 'शास्त्रारम्मे' शास्त्रारम्भसमय एव, तथा चादर्शदर्शनादिवदन्य दापि "तदनुष्ठानापत्तिरिति भावः। 1. आदर्शदर्शनजपहोमानामित्यर्थः। 2. पापध्वंसरूपे पापसंसर्गाभावे आदर्शदर्शनजपयोर्जन्यतायाः पापप्रागभावरूपे पापसंसर्गा भावे च होमस्य जन्यताया अन्वयसम्भवादिति भावः / पापध्वंसत्वमादर्शदर्शनादेः पापप्रागभावत्वं च होमस्य कार्यतावच्छेदकमिति कल्पनेत्यर्थः / 'मङ्गलाचारयुक्तानाम्' इत्यादिवचनात् पापसंसर्गाभावत्वसामानाधिकरण्येनादर्श दर्शनादिजन्यताबोधानन्तरकालिकीत्यर्थः / 5. अथशब्द ओंशब्दश्चाकारात्मकेन कण्ठयवर्णेन घटितो, अतस्तदुच्चारणरूपं तद्विनिर्यातं कण्ठाभिहतवायुसाध्यमित्याशयः / 'विनिर्जातो 'जातौ' इति क०, ख०, ग०, च०। अथ शब्दबहिर्भावणेत्यर्थः, अथशब्दो ग्रन्थघटको न भवतीति भावः / 8. अथशब्दघटितग्रन्थप्राक्काल इत्यर्थः / ध्येयमिति क.। 10. कार्यान्तरारम्भकालेऽपीत्यर्थः / 11. अथ शब्दोच्चारणापत्तिरित्यर्थः / Page #79 -------------------------------------------------------------------------- ________________ तत्त्वचिन्तामणौ सरहस्यै गुणवत्तया ज्ञापनं स्तुतिः। यमुद्दिश्य यस्य स्वापकर्षबोधनानुकूलो व्यापारविशेषः स तस्य नमस्कारः / व्यापारे च कायिक-वाचिक-मान ननु 'स्तुतिमाचरेदि'त्यादौ का स्तुतिरित्यत आह 'गुणवत्तये'ति, उत्कर्षवत्तयेत्यर्थः / तेनाधार्मिकत्वास्पृश्यसंयोगित्वादेव्युदासः / उत्कर्षत्वञ्च शक्तिविशेषसम्बन्धेनोत्कर्षपदवत्त्वम् , अतो नाननुगमः। 'ज्ञापन' ज्ञानानुकूलः शब्दः, तेन २व्यापारान्तरे तादृशि 'नातिप्रसङ्गः। न च तथापि उत्कर्षस्य जातिविशेषरूपतया त्वं दयाशीलः, त्वं दाता, पुत्री त्वमेवेत्यादा वव्याप्तिरिति वाच्यं, दयादिष्वप्युत्कर्षव्यवहारेण तेषामप्युत्कर्षपदवाच्यत्वात्। न च तथापि तादृशि स्वरूपाख्यानेऽतिव्याप्तिः, तस्यापि स्तुतित्वे 'भवतां स्वरूपं कथयामः, न तु स्तम' इति सकलप्रामाणिकव्यवहारासङ्गतेरिति वाच्यं, ज्ञानपदेन भ्रमरूपज्ञानस्य विवक्षितत्वात् / अत एवारोप्यगुणकथनं स्तुतिरिति प्रामाणिकाः, 'भगवत्स्तुत्यादिषु तत्प्रयोगो भाक्तः। नव्यास्तु ज्ञानविशेषोपधायकः शब्दः स्तुतिः, ज्ञाननिष्ठो विशेषश्च शाब्दत्वव्याप्यो जातिविशेषः। उपधायकत्वञ्च ज्ञानविशेषशब्दयोः संसर्गमर्यादया प्रविष्टम् , अतोनाननुगमो दोषाय। न च स्तुतिनिन्दार्थोभयविषयकसमहालम्बनज्ञाने साङ्कापत्तिः, विनिगमनाविरहेण निन्दापदशक्यतावच्छेदकस्यापि जातित्वस्य दुर्वारत्वादिति वाच्यं, तदुभयजातेः समूहालम्बनज्ञानव्यावृत्तत्वाभ्युगमात् , समूहालम्बनमात्रजनक स्तुत्यादौ च मानाभावात् , तत्सत्त्वे च तत्र स्तुतिव्यवहारस्य भाक्तत्वादित्याहुः / / . 'यमुद्दिश्य'ति यदवधिकेत्यर्थः। तथा च स्वापकर्षबोधजनकतावच्छेदकजातिमत्त्वमेव लक्षणम् / को व्यापारः, कस्य नमस्कार इत्याकाङ्ख्यां यमुद्दिश्ये ति स्वत्वघटित 1. तेनाधार्मिकस्त्वमस्पृश्यसंयोगी त्वमित्यादेय॒दासः इति ख० / 2. निम्नासनाद्युपवेशनादिरूपे व्यापार इत्यर्थः / 3. उत्कर्षवत्तया ज्ञापक इत्यर्थः। 4. न स्तुतिव्यवहारप्रसङ्ग इत्यर्थः / इत्यादिवाक्येष्वित्यर्थः / दयाशीलत्वादे तिरूपत्वाभावादव्याप्तिरिति भावः। 7. उत्कर्षो न जाति:, किन्तुत्कर्षपदवाच्यो यो यः, स सर्व एवोत्कर्षः। दयादिरप्युत्कर्षपदेन व्यवह्रियमाणतयोत्कर्षपदवाच्यत्वादुत्कर्ष एवेति नोक्तवाक्येष्वव्याप्तिरित्यभिप्रायः / भगवद्गुणवर्णनपरकवाक्येष्वित्यर्थः . स्तुतिपदप्रयोग इत्यर्थः। 10. ज्ञानविशेषोपधायकत्वं तत्तज्ज्ञानविशेषोपधायकत्वमेव वाच्यम्, सामान्यतो ज्ञानविशेषो पधायकस्य ज्ञानविशेषप्रागभावाधिकरणकालप्रागभावानधिकरण, ज्ञानविशेषप्रागभावा Page #80 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः सिकरूपे विशेषो जातिविशेष एवानुभवसाक्षिकः, करशिरःसंयोगमात्रे तदव्यवहाराद् ‘भवतोऽहमपकृष्ट' इत्यादिवचने तदव्यवहाराच। यद्वा कायिकादौ प्रत्येकमेव विधिकल्पनम् , अतो नानाथेतैव / त्वेनाननुगममाशक्याह 'यद्वे'ति / 'नानार्थतैवे'ति कायिकादिप्रत्येकवृत्तिजातिविशेषा एव नमस्कारपदशक्यतावच्छेदका इत्यर्थः / ननु करशिरःसंयोगादिः कायिकनमस्कारः, तत्र कथं जातिविशेषः ? नोदनत्वाभिघातत्वसंयोगजत्वादिना साकुर्यात् / न च संयोगजत्वादिजातयो नाना, कार्यतावच्छेदकाननुगमस्यादोषत्वान्नमस्कारपदशक्यतावच्छेदकजातिश्चैका विघ्नविशेषनाशकतावच्छेदकतया सिद्धा, तन्नानात्वे व्यभिचारापत्तेरिति वाच्यं; तथापि शब्दविशेष जनकतावच्छेदकाभिघातत्वमादाय साङ्कर्यस्य दुर्वारत्वादुभयोरेव जनकतावच्छेदकतया नानात्वे विनिगमकाभावादिति चेत् न; करशिरःसंयोगाद्यनुकूलचेष्टाविशेषस्यैव कायिकनमस्कारत्वाच्चेष्टानिष्ठविशेषस्तु चेष्टात्वव्याप्यो जातिविशेषः / स च विघ्नविशेषनाशकतावच्छेदकतया सिद्धः। - ननु तथापि यत्र नमःपदादिरेव वाचनिकनमस्कारः, तत्र कथं जातिविशेषः ? नत्वादिना सार्यात् / न च मकारादिचरमवर्णवृत्तिमत्त्वादिव्याप्यो नानाजातिविशेष एव वाचनिकत्वं, नोत्तरमकारविशेषादिरेव वाचनिकनमस्कारः, पूर्व-पूर्ववर्णज्ञानं तु तद्वयञ्जकम्, अतश्चरमवर्णमात्रश्रवणे न तज्जातिसाक्षात्कार इति वाच्यं, विनिगमनाविरहेण मपूर्वनकारविशेषस्यापि वाचनिकत्वस्य दुर्वारत्वादिति चेत्, न; विनिगमनाविरहाद् नत्वमत्वादिव्याप्या नानाजातय एव वाचनिकत्वमित्यभिप्रायात् / / नव्यास्त शाब्दबोधवृत्तिशाब्दत्वव्याप्यजातिविशेष एव वाचनिकत्वम् , अत एव वाचनिक इत्युच्यते, न तु वचनमित्याहुः / धिकरणकालघटिततया अन्त्यज्ञानविशेषातिरिक्तानां सर्वेषां ज्ञानविशेषाणामुपधायकेष्वव्याप्तेस्तत्प्रागभावाधिकरणकालस्य तदुत्तरभाविज्ञानविशेषप्रागभावाधिकरणकालप्रागभावाधिकरणतया तादृशकालप्रागभावानधिकरणत्वासम्भवात् / तथा च अननुगतस्य तत्तज्ज्ञानविशेषोपधायकशब्दस्य स्तुतिपदार्थत्वे स्तुतिपदस्य नानार्थत्वप्रसङ्गरूपो दोषः स्याद् यदि उपधायकत्वं संसर्गमर्यादया स्तुतिपदार्थधटक न स्यादित्याशयः। उपधायकत्वस्य संसर्गत्वे तु न दोषः, तत्कुक्षौ स्वत्वस्य परिचायकतयैव प्रविष्टत्वेन वस्तुतोऽप्रविष्टत्वात् / तथा च ज्ञानविशेषोपधायकत्वं ज्ञानविशेषविशिष्ट त्वम्, वैशिष्टयं च स्वनिरूपितान्यथासिद्धिशून्यत्वस्वविशिष्टकालवृत्तित्वैतदुभयसम्बन्धेन, स्ववैशिष्टयं स्वप्रागभावाधिकरणत्वस्वप्रागभावाधिकरणकालप्रागभावानधिकरणत्वैतदुभयसम्बन्धेन / Page #81 -------------------------------------------------------------------------- ________________ ___ तत्त्वचिन्तामणौ सरहस्ये ___ यत्तु बुद्धिविशेषपूर्वकत्वज्ञानं विना कायिकादौ न तद्व्यवहार इति स एव वाच्यः, अन्यत्र लक्षणेति, तन्नः कायिकादिव्यापारविशेषमनवगम्य बुद्धिविशेषपूर्वकत्वाज्ञानात् / स्वीकृतवेदप्रमाणभावः शिष्टः / आचारे च वेदानिषिद्धत्वमविगीतत्वं विशेषणं' देयम् / __मानसिकत्वं त मानसत्वव्याप्यो जातिविशेष एव / न च स्वप्नत्वमादाय साङ्कयमिति वाच्यं, तस्य स्वप्नत्वविरुद्धत्वादिति ध्येयम् / प्राभाकरमतमाह 'यत्त्वि'ति / 'बुद्धिविशेषेति ज्ञानविशेषजन्यत्वस्यैव कायिकादिनिष्ठजातिविशेषव्यञ्जकत्वादित्यभिमानः / 'स एवेति मानसज्ञानविशेष एवेत्यर्थः / 'अन्यत्र' कायिकादौ / 'कायिकादी'ति, तं प्रति तस्य लिङ्गत्वात् / तथा च ज्ञानविशेषजन्यत्वग्रहो न तादृशजातिविशेषव्यञ्जक इति भावः / न च तथापि चेष्टात्वमानसत्वव्याप्यजातिविशेष एव शक्यतावच्छेदकः, न तु वाचनिकत्वं, तस्य नत्वादिव्याप्यनानात्वाभ्युपगमादिति वाच्यं, तस्याप्युक्तक्रमेणैकत्वात् , नानात्वेऽपि प्रत्येकमादाय विनिगमनाविरहेण शक्यतावच्छेदकत्वस्य दुर्वारत्वाच्चेति हृदयम् / ननु मङ्गलं वेदबोधितसमाप्तिसाधनताकं समाप्त्युद्देश्यकाविगीतशिष्टाचारविषयत्वादिति साम्प्रदायिकानां प्रागुक्तवेदानुमाने किन्तावच्छिष्टत्वमित्यत आह 'स्वीकृतेति वेदविशेष्यकप्रामाण्याभ्युपगमवानित्यर्थः / अभ्युपगमो निश्चयः, तावतैव यत्तद्भयां सामान्यतो व्याप्तौ पशुपक्ष्यादिकृतवृथाचेष्टायां व्यभिचारवारणादिति भावः / बालकपतितान्त्यजाद्यतिरिक्तत्वे सतीत्यनेनापि विशेषणीयम् , तेन तदीयवृथा. चेष्टायां पश्वादिवृथाचेष्टावद्वेदानिषिद्धायां न व्यभिचारः।। नन्वेवं वेदप्रामाण्याभ्युपगन्त्रा भ्रान्त्या क्रियमाणे चैत्यवन्दनादौ व्यभिचार इत्यत आह, 'आचारे चेति, आचारे अविगीवत्वं यद्विशेषणं दत्तं तद्वेदानिषिद्धत्वरूपमित्यर्थः / प्रामाणिककृतचैत्यवन्दनादिकञ्च न तथा, तस्य पूर्वलिखितवेदनिषिद्धत्वादिति भावः। अलौकिकत्वे सतीत्यनेनापि विशेषणीयम् , तेन शिष्टकृतभोजनादौ न व्यभिचारः / अलौकिकत्वश्च प्रानिरुक्तमेव / न च तथापि भ्रान्त्या स्वःफलान्यफलमुद्दिश्य कृते यागादौ व्यभिचारः, तत्साधनत्वेन तस्य वेदबोधितत्वाभावादिति वाच्यं, चैत्यवन्दनादिवत् तस्यापि वृथाचेष्टात्वेन वेदनिषिद्धत्वात् / 1. आचारे च वेदानिषिद्धत्वमलौकिकत्वञ्च विशेषणमिति क० पुस्तकपाठो न समीचीन:, अलौकिकत्वे सतीत्यनेनापि विशेषणीयमिति Trrम. / वापरयसभत्थापत.। Page #82 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः 71 यद्वा अलौकिकविषय शिष्टाचारत्वमेव हेतुः, शिष्टाचारत्वश्च भ्रमाजन्याचारत्वम्। आस्तिक-नास्तिकयोरगम्यागमनचैत्यवन्दनादावाचारजनकज्ञानस्य भ्रमत्वात् , बलवदनिष्टानुबन्धित्वादिष्टासाधनत्वाच्च / लोके च पाषण्डव्यावृत्तशिष्टव्यवहारो वेदप्रामाण्याभ्युपगमनिबन्धनः। ___ लाघवादाह 'यद्वे'ति / 'अलौकिकविषये'ति, अलौकिकविषयकेत्यर्थः / 'हेतुः' पूर्वोक्तहेत्वर्थः / तथा चाविगीतपदस्यैव लौकिकाविषयकत्वमर्थः, तच्च भोजनादौ लौकिककर्मणि व्यभिचारवारणायेति भावः / लौकिकाविषयकत्वन्तु प्राङ्निरुक्तमेव / नन्वेवं शिष्टकृतचैत्यवन्दनादौ व्यभिचार इत्यत आह 'शिष्टाचारत्वञ्चेति / 'अगम्यागमने'ति, अगम्या-गमनायोग्या या भूमिः, तत्र तीर्थत्वभ्रान्त्या कृतं यद्गमनमित्यर्थः / यथाश्रुतं तु न सङ्गच्छते, अलौकिकविषयकत्वविशेषणेनैव तद्वारणात् / / केचित्त अगम्यागमनस्योभयविशेषणेनैव कारणं सम्भवतीति सूचनाय तदभिधानमित्याहुः। _ 'बलवदनिष्टे'ति, निष्फलत्वादिति भावः / तदुद्देश्यकत्वेनाप्याचारो विशेषणीयः, प्रयोजनञ्चोक्तमेव / नन्वेवं भ्रमाजन्यःशिष्ट इति फलितम् / तथा च घटपटादौ गगनादौ पाषण्डे च शिष्टव्यवहारापत्तिरित्यत आह 'लोके चेति / 'वेदप्रामाण्याभ्युपगमे'ति, तथा च सर्वे वेदाः स्वस्वतात्पर्यविषयार्थे प्रमाणमित्याकारकयावद्वेदविशेष्यकानाहार्यनिश्चयवत्त्वं शिष्टपदशक्यतावच्छेदकम् , प्रकृते च शिष्टपदं भाक्तम् / एवं वेदो न प्रमाणमिति यत्किञ्चिवेदविशेष्यकानाहार्यनिश्चयवत्त्वमेव बौद्धत्वमिति भावः / बौद्धस्यापि "मा हिंस्यात् सर्वा भूतानि” इत्यादि यत्किञ्चिद्वेदप्रामाण्याभ्युपगन्तृत्वाद् वेदत्वावच्छदेनैवाहार्यप्रामाण्याभ्युपगमवत्त्वाच्च 'यावत्त्वानाहार्यत्वयोरुपादानम् / नन्वत्र तादृशनिश्चयो विशेषणमुपलक्षणं वा ? नाद्यः, सुषुप्त्यादिदशायामशिष्टः, त्वापत्तेः; न चेष्टापत्तिः, तदानीमपि शिष्टव्यवहारात् / नान्त्यः, बौद्धातिव्याप्ते: अनादौ संसारे कदाचित् तेनापि तदभ्युपगमात् / न च तच्छरीरावच्छेदेन तदभ्युपगमो विवक्षितः, एकस्मिन्नेव शरीरे कालभेदेन शिष्टताबौद्धतोभयदर्शनाद् बौद्धतादशायामतिव्याप्तेः, तदानीं शिष्टव्यवहाराभावात् ; अन्यथा अनादौ संसारे सर्वस्यैवात्मनो यदा कदाचिच्छिष्टत्वेनात्मत्वस्यैव तथात्वस्य सुवचत्वात् / अथ तत्पुरुषीयतादृशनिश्चयसमानकालीना यावन्तस्तत्पुरुषीयास्तादृशविरोधिनिश्चयाभावास्तद्वत्त्वं तत्पुरुषीयशिष्टत्त्वं, शिष्टतोत्तरबौद्धतादशायां तादृशनिश्चयसमानकालीनस्य बौद्धताकालीनविरोधिनिश्चयव्यक्तः प्रागभावस्य यावदन्तर्गतस्यास१. शिष्टपदशक्यतावच्छेदकगर्भ निश्चयविशेषणतयेत्यादिः / 2 बौद्धेऽतिव्याप्तेरित्यर्थः। . Page #83 -------------------------------------------------------------------------- ________________ 72 त्त्वान्नातिप्रसङ्ग इति चेत्, न; यस्य पुरुषस्य शिष्टतोत्तरं बौद्धता,तदनन्तरं पुनः शिष्टता च, तत्र पूर्वशिष्टतादशायामव्याप्तिः, मध्यवर्तिबौद्धताकालीनविरोधिनिश्चयव्यक्तिध्वंसस्यापि तादृशयावदभावान्तर्गतस्य तदानीमभावात् / तदुत्तरशिष्टतादशायामव्याप्तिः, मध्यवर्तिबौद्धताकालीनविरोधनिश्चयव्यक्तिप्रागभावस्यापि तादृशयावदभावान्तर्गतस्य तदानीमसत्त्वादिति / मैवम् ; यावतीस्तादृशनिश्चयव्यक्तीः प्रातिस्विकरूपेणोपादाय तत्तन्निश्चयव्यक्तिसमानाधिकरणत्वे सति तत्तद्व्यक्तिसमानकालीना यावन्तस्तत्तद्व्यक्तिविरोधिनिश्चयाभावास्तद्वत्त्वे सति तत्तद्व्यक्त्यपूर्वकालावच्छिन्नत्वं शिष्टत्वमिति विवक्षितत्वात् / पुरुषान्तरवृत्तिविरोधिनिश्चयप्रागभावमादायासम्भववारणाय समानाधिकरणत्वोपादानम् / . स्वीयपर्वजन्मीयविरोधिनिश्चयप्रागभावमादायासम्भववारणाय समानकालीनत्वोपादानम् / वेदा न प्रमाणमिति निश्चयनाशोत्तरं वेदाः प्रमाणमिति निश्चयानुत्पादकाले शिष्टतावारणाय विशेष्यदलम् / यदि च वेदाप्रामाण्याभ्युपगमाव्यवहितोत्तरक्षणे तत्प्रामाण्याभ्युपगमः, ततस्तृतीयक्षणे तदप्रामाण्याभ्युपगमव्यक्तिनाशः सम्भाव्यते, तदा तत्समानकालीनत्वं, तदुत्पत्तिसमानकालीनत्वं वा वाच्यम् ; अभावो वा अनादिर्वाच्यः, अन्यथा तत्र तादृशनाशस्य यावदन्तर्गतस्य वेदप्रामाण्याभ्युपगमव्यक्त्युत्पत्तिकालेऽसत्त्वाव्याप्त्यापत्तेः। न च यस्यैतजन्मनि वेदप्रामाण्याप्रामाण्ययोरुभयोरेवानभ्युपगमः, पूर्वजन्मनि तु प्रामाण्यमात्रमभ्युपेत्यैव मरणं, तस्यैतज्जन्मनि शिष्टत्वापत्तिरिति वाच्यम् , इष्टापत्तेः। एवं यस्यैतज्जन्मनि प्रामाण्याप्रामाण्ययोरुभयोरेवानभ्युपगमः पूर्वजन्मनि चाप्रामाण्यमभ्युपेत्यैव मरणं, तस्यैतज्जन्मन्यप्यशिष्टत्वे इष्टापत्तिः / जन्मान्तरीणप्रामाण्याभ्युपगमानन्तरकाकादिशरीरावच्छिन्नवारणाय परं प्रकृष्टचैतन्यावच्छेदकावच्छिन्नत्वेनापि विशेष्यम् / यद्वा तत्तद्व्यक्त्यपूर्वकालावच्छिन्नत्वपदेन तत्तव्यक्त्यवच्छेदकजन्मान्तरावच्छिन्नत्वविशिष्टतत्तव्यक्त्यपूर्वकालावच्छिन्नत्वं विवक्षितम्, उभयानभ्युपगमजन्मनि शिष्टाशिष्टबहिर्भूत एव / एवञ्च यथोक्तकाकादिशरीरावच्छिन्नेऽपि नातिव्याप्तिः। न चैवं तत्तन्निश्चयव्यक्तेः प्रातिस्विकरूपेणोपादानादननुगम इति वाच्यं, शिष्टपदस्य नानार्थत्वेनाननुगमस्यादोषत्वात् / अस्तु वा तावदभावकूटाभावशून्यत्वं तावदन्यतमधर्मवत्त्वं वा तत्त्वम्। . केचित्तु तादृशवेदप्रामाण्याभ्युपगमजन्यसंस्कारवत्त्वं शिष्टत्वं,तदभ्युपगमोत्पत्तिक्षणे च न शिष्टः स च संस्कारो विरोध्यभ्युपगमनाश्य इति शिष्टवोत्तरं बौद्धतादशायां Page #84 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः 73 तैर्थिकत्वेऽपि शिष्टाशिष्टव्यवहारो वेदनिषिद्धाकर्तृत्व-तत्कर्तृत्वनिबन्धनः / यद् वा वेदप्रामाण्याभ्युपगन्तृत्वे सति यो यदा वेदनिषिद्धाकर्ता स तदा शिष्टः, तत्कर्ता त्वशिष्टः। अत एव वेदानिषिद्धकतत्वेऽपि बौद्धो न शिष्टः। पापजनकत्वज्ञानं विना वेदनिषिद्धकर्तृत्वं यस्य नास्ति स शिष्ट इति तु न, तैर्थिकस्यापि कस्यचित् पापजनकत्वज्ञानं विना वेदनिषिद्धकर्तृत्वात् / - नातिव्याप्तिः। 'संस्कारश्वाविनश्यदवस्थत्वेन विशेषणीयः, तेन तदप्रामांण्याभ्युपगमोत्पत्तिक्षणे नातिप्रसङ्गः / न च घटविषयकतादृशसमूहालम्बनसंस्कारस्य विरोध्यभ्युपगमेन नाशे घटस्मृतिरपि न स्यादिति वाच्यम् , तादृशसमूहालम्बनसंस्कारस्य विरोध्यभ्युपगमोत्तरं घटस्मृतिजनकत्वे मानाभावात् स्मृतिनाश्यतावच्छेदकवैजात्यस्य तव्यावृत्ततया घटस्मृतिघटसंस्कारयो श्यनाशकभावे न व्यभिचार इत्याहुः। नन्वेवं निरुक्ताभ्युपगमाभाववत्यपि कदाचित् शिष्टव्यवहारः, तद्वत्यपि "कदाचिदशिष्टव्यवहारो दृश्यते, स कथं स्यादित्यत आह-तैर्थिकत्वेऽपीति / निरुक्ताभ्युपगमाभावनिरुक्ताभ्युपगमयोः सत्त्वेऽपीत्यर्थः। तथा च तादृशि शिष्टाशिष्टव्यवहारो भाक्त इति भावः। तत्रापि शिष्टाशिष्टव्यवहारयोमुख्यत्वमेवेत्यभिप्रायेणाह-यद् वेति / सत्यन्तं निरुक्तार्थकम् / सत्यन्तविशेषणस्य प्रयोजनं दर्शयति१. अविनश्यदवस्थत्वं नाशविशिष्टत्वाभावः, वै० स्वप्रतियोगित्वस्वाव्यवहितपूर्वक्षणवृत्ति त्वाभ्याम् / वेदप्रामाण्याभ्युपगमजन्यसंस्कारस्य वेदाप्रामाण्याभ्युपगमक्षणव्यवहितोत्तरक्षणे नाश्यतया तादशाभ्युपगमक्षणे उक्तसम्बन्धाभ्यां नाशविशिष्टतया तदानीं नाश विशिष्टत्वाभाववतो वेदनामाण्याभ्युपगमजन्यसंस्कारस्यासत्त्वान्न तदानीं शिष्टत्वम् / 2. तव्यावृत्ततया-घटविषयकतादृशसमूहालम्बनसंस्कारावृत्तितया / 3. न यभिचार:-घटविषयकताशसमूहालम्बनसंस्कारस्य घटस्मृति विनाऽपि नाशे न व्यभिचार इत्यर्थः। वेदनिषिद्धाकरणकाले / वेदनिषिद्धकरणकाले / 6. वेदप्रामाण्याभ्युपगमाभाववति कादाचित्कः शिष्टव्यवहारः, वेदप्रामाण्याभ्युपगमवति च कादाचित्कोऽशिष्टव्यवहार इत्यर्थः / तत्परुषीयसर्ववेदमिकस्वस्वतात्पर्यविषयार्थे प्रामाण्यनिश्चयसमानकालीनवेदमिकाप्रामाण्य निश्चयीययावदभाववत्त्वार्थकम् / 10 Page #85 -------------------------------------------------------------------------- ________________ 74 तत्त्वचिन्तामणौ सरहस्ये ___ यत्त रागद्वेषहीनः शिष्टः, स च सर्वज्ञत्वान्मन्वादिरेव, अविगीततदाचारादेव वेदानुमानमिति / तन, एवं हि मन्वाद्याचारादर्शिनामाधुनिकानां मङ्गले प्रवृत्तिनं स्यात्, आधुनिकानामाचारेण मन्वाद्याचारमनुमाय तेन च वेदमनुमाय पालः प्रवर्तत इति चेत् , तर्हि यादृशाचारेण मन्वाद्याचारानुमानं स एव वेदानुमापकोऽस्तु, किमनुमितानुमानेन ? 'अत एवेति / वेदानिषिद्धकर्तृत्वेऽपि, वेदनिषिद्धाकर्तृत्वेऽपि / कस्यचिल्लक्षणं दूषयति-पापजनकत्वेति / पापजनकत्वज्ञानाभावविशिष्टवेदनिषिद्धकर्तृत्वाभाववत्त्वमित्यथः / बौद्धस्य तु वेदनिषिद्धकर्मणि पापजनकत्वज्ञानमेव नास्तीति भावः। __ अत्र रागौत्कट्यात् पापजनकत्वज्ञानसत्त्वेऽपि वेदनिषिद्धकर्तरि शिष्टेsव्याप्तिवारणाय विशिष्टान्तं कर्मत्वविशेषणम् , वैशिष्ट्यञ्चैककालावच्छेदेनैकात्मवृत्तित्वम् / विशेषणाभाववत्त्वमात्रोक्तौ पापजनकत्वज्ञानशून्ये वेदानिषिद्धकर्तरि शिष्टेऽव्याप्तिः, अतो विशिष्टाभावानुधावनम् / मूर्खतैर्थिकेऽव्याप्तिमाह-तैर्थिकस्यापीति / शिष्टस्यापीत्यर्थः। रागद्वेषहीन इति / आत्यन्तिकरागद्वेषध्वंसवत्त्वमित्यर्थः / यथाश्रुते घटादावतिव्याप्तः। पाषण्डेऽतिव्याप्तिवारणायात्यन्तिकत्वं ध्वंस विशेषणम् , तच्च मिथ्याज्ञानप्रागभावविशिष्टभिन्नत्वं मिथ्याज्ञानविशिष्टभिन्नत्वं वा, वैशिष्ट्यञ्चैककालावच्छेदेनैकात्मवृत्तित्वम् / आत्यन्तिकध्वंसमात्रोक्तौ घटादावतिव्याप्तितादवस्थ्यम् , अतो रागद्वेषयोवैकल्पिकमुपादानम् , तथा च लक्षण द्वये तात्पर्यम् / मन्वादेस्तथात्वे हेतुः-सर्वज्ञत्वादिति / तत्त्वज्ञत्वादित्यर्थः। तदाचारेति / तादृशशिष्टत्वविशिष्टाचारेत्यर्थः। वैशिष्ट्यश्चैककालावच्छेदेनैकात्मवृत्तित्वम् , तेन बाल्यदशायां तादृशशिष्टेन कृते चैत्यवन्दनादौ न व्यभिचारः। न वा तादृशशिष्टत्वानुत्पत्तिदशायां भ्रान्त्या स्वर्गफलान्यफलमुद्दिश्य तादृश शिष्टेन कृते तत्फलजनकत्वेन वेदबोधिते यागादौ व्यभिचारः। कर्मक्षयार्थ तादृशशिष्टेन कृते निषिद्धकर्मणि व्यभिचारवारणायाविगीतत्वमाचारविशेषणम् , तच्च वेदा१. निरुक्तवेदप्रामाण्याभ्युपगमवत्त्वस्य विशेषणत्वेनोपादानादेव / लाघवादाह-मिथ्याज्ञानविशिष्टेति / आत्यन्तिकरागध्वंसवत्त्वमात्यन्तिकद्वषध्वंसवत्त्वं चेति लक्षणद्वय इत्यर्थः। ईश्वरातिरिक्तस्य सर्वज्ञत्वमानाभावेन सर्वज्ञत्वादित्यस्य तत्त्वज्ञत्वादित्यर्थ आवश्यकः। ताशयागाचारेण स्वर्गफलान्यफल कयागबोधकवेदस्याननुमानेन व्यभिचार इत्यर्थः / तादृशनिषिद्धकर्मणापि स्वस्मिन् कर्मक्षयजनकताबोधकवेदश्याननुमानेन व्यभिचार इत्याशयः / Page #86 -------------------------------------------------------------------------- ________________ प्रत्यक्षखण्डे मङ्गलवादः 75 आधुनिकानामपि शिष्टत्वेन व्यवह्रियमाणत्वाच्च / तथा च स्मृतिःयस्मिन् देशे य आचार: पारम्पर्यक्रमागतः / श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते // सर्वज्ञस्य मङ्गलाचारे मानाभावाच्च / मन्वादिप्रणीतस्मृतौ मङ्गलं दृश्यत इति चेत् , तन्त्र, स्मृतिकर्तुरसर्वज्ञत्वेऽपि वेदादर्थं प्रतीत्व स्मृतिप्रणयनसम्भवात् / यत्तु शिष्टाचारत्वेन कर्तव्यतैवानुमीयतां किं वेदेनेति वक्ष्यामः / इति श्रीमहोपाध्यायश्रीमद्गङ्गेश्वरविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे मङ्गलवादः समाप्तः // निषिद्धत्वम् , अलौकिकत्वमपि वाच्यम् / तेन तत्कृतभोजनादौ न व्यभिचारः। स एवेति / व्याप्यव्याप्यस्य सुतरां व्याप्यत्वादिति भावः / / ननु तथाप्यनुमानोपयोगि मास्तु, व्यवहारोपयोगि तु स्यादित्यत आहआधुनिकानामपीति / 'सदाचारः' यथोक्तमविगीततदाचारादेव वेदानुमानम् / तत्र दोषान्तरमाह-सर्वज्ञस्येति / तत्त्वज्ञस्येत्यर्थः / _ अत्र शङ्कते–'मन्वादि' स्मृताविति / भारतपुराणादावित्यर्थः। भारतादिकर्तर्यथोक्तशिष्टत्वमेव नास्तीत्याह-स्मृतिकर्तुरिति / भारतादिकर्त्तरित्यर्थः। 'असर्वज्ञत्वेऽपि' अतत्त्वज्ञत्वेऽपि / 'शिष्टाचारत्वेन' समाप्त्युद्देश्यकशिष्टाचारविषयत्वेन, शिष्टत्वं भ्रमाजन्यत्वम् / कर्त्तव्यतैवानुमीयतामिति इष्टसाधनत्वे सति कृतिसाध्यतामनुमायैव सर्वे मङ्गले प्रवर्तन्ताम् . किं मङ्गले तादृशकृतिसाध्यताबोधकवेदेनेत्यर्थः। तत्र वक्ष्यामः-अलौकिकत्वे सति शिष्टाचारविषयत्वस्य वेदबोधितत्वव्याप्यतया अलौकिके मङ्गले शिष्टाचारविषयत्वस्य च व्यापकीभूतवेदबोधितत्वं विना अनुपपन्नत्वाद् वेदस्याप्यावश्यकत्वम् / न च तादृशव्याप्तौ मानाभावः, अबाधितसर्वजनानुभवसिद्धत्वादित्युच्छन्नप्रच्छन्नवादे शब्दखण्डे वक्ष्याम इत्यर्थः। इति श्रीमथुरानाथतर्कवागीशविरचितं तत्त्वचिन्तामणौ प्रत्यक्षखण्डे मङ्गलवादरहस्यं सम्पूर्णम् // Page #87 -------------------------------------------------------------------------- _ Page #88 -------------------------------------------------------------------------- ________________ सुसङ्ग्राह्या दर्शनग्रन्थाः क्रमस० प्रन्थनाम मूल्यम् 1. न्यायसिद्धाञ्जनम्-[श्रीवेदान्तदेशिकाचार्यविरचितम् ] पुस्तक रत्नमिदं विदुषा सम्पादकेन स्वर्गीयनीलमेघाचार्येण हिन्दीभाषयानद्य विविधैविमर्शप्रधानैः परिशिष्टः, अथ च विषयसारभूतया भूमिकया सनाथीकृतम् 25-00 2. न्यायकुसुमाञ्जलि:-[ उदयनाचार्यप्रणीतः] गद्यपद्यात्मकन्याय कुसुमाञ्जलिरयं सर्वप्रथमं हिन्दीभाषयानूद्य प्रकाशितः। बुधा सम्पादकेन श्रीदुर्गाधरझाशर्मणा विमर्शात्मिकया भूमिकया शास्त्रानुमोदिन्या स्वोपज्ञया टिप्पण्या च समलङ्कतः- 56-50 . न्यायकौस्तुभः - [श्रीमहादेवपुणतामकरविरचितः] अनुमान. खण्डात्मकस्यास्य द्वितीयभागस्य सम्पादनं न्यायधुरन्धरैः स्वर्गतैः श्रीदामोदरलालगोस्वामिभिनिपुणं व्यघायि 10-60 4. पदवाक्यरत्नाकरः -[श्रीगोकुलनाथोपाध्यायविरचित:] न्यायशास्त्रस्य ग्रन्थरत्नमिदं श्रीयदुनाथमिश्रविनिर्मितया गूढार्थदीपिकाख्यया व्याख्यया, अथ च विदुषा सम्पादकेन श्रीनन्दिनाथमिश्रेण कृतया गवेषणाप्रधान भूमिकया विविधैः परिशिष्टश्च समुद्भासितम्-१५-०० 5. श्रीमद्भगवद्गीता -[भट्टभास्करभाष्यविभूषिता] नवमाध्यायपर्यन्तेयं श्रीमद्भगवद्गीता तत्तत्पाठभेदनिर्णयविविधैः परिशिष्टश्चालकृता शोभते 5-0 6. तत्त्वचिन्तामणिः - [गङ्गशोपाध्यायविरचितः] मङ्गलवादान्तोऽयं ग्रन्थः श्रीमथुरानाथकृतमाथुरीव्याख्यया समुद्. भासितः, अथ च विदुषा सम्पादकेन श्रीबदरीनाथशुक्लमहोदयेन विमर्शात्मिकया भूमिकया तथा अनेकैः परिशिष्टः टिप्पण्यादिभिश्च सनाथितः- 15-00 7. विज्ञप्तिमात्रतासिद्धिप्रकरणद्वयम्- आचार्यवसुबन्धुविरचितम् ] बौद्ध दर्शनग्रन्थोऽयं विंशतिकापर्यन्तं स्वोपज्ञवृत्त्या, त्रिंशतिकापर्यन्तम आईस्थिरमतिविरचित. त्रिंशा गूढार्थदीपिका भूतया भूमिपरिशिष्टैश्न प्रकाशक:-निदेशकः, ...........नम्, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी।