SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षखण्डे मङ्गलवादः ननु विधिवाक्यं न फलनियतपूर्वसत्त्वं बोधयति, किन्तु मङ्गलात फलावश्यम्भावमिति चेत्, न; इष्टसाधनत्वस्य विध्यर्थत्वात् / अथान्वयव्यतिरेकाभ्यां तद्ग्रहे व्यभिचारो दोषाय, न त्वागमेन 'तद्ग्रहे। किन्तु दर्शसामान्यजन्यतावच्छेदकापूर्वनिष्ठवैजात्यव्याप्यं ब्रीहिकरणकदर्शयवकरणकदर्शयोः प्रतिबध्यतावच्छेदकं परस्परव्यावृत्तवैजात्यद्वयम् / तेन सामान्यसामग्रीसत्त्वेऽपि प्रतिबन्धकाभावरूपविशेषसामध्यभावादेव नोभयकरणकदर्शात् फलावाप्तिः / वस्तुवस्तु प्रत्येकं व्रीहिकरणकदर्शत्वयवकरणकदर्शत्वाभ्यां प्रतिबन्धकतापि न वाच्या, प्रतिबध्यतावच्छेदकवैजात्यद्वयकल्पने प्रतिबध्यप्रतिबन्धकभावद्वयकल्पने च महागौरवात् / परन्तु दर्शसामान्यजन्यतावच्छेदकापूर्वनिष्ठवैजात्यावच्छिन्नं प्रत्येव व्रीहियवोभयकरणकदर्शत्वेन प्रतिबन्धकत्वम् / अत एवाव्यवधानेन व्रीहियवप्रत्येकमात्रकरणकयागद्वयसम्भवेऽपि द्वितीयादपूर्वोत्पत्तौ न बाधकम् / न च तवापि व्रीहियवोभयकरणकयागाव्यवहितोत्पन्नप्रत्येकमात्रकरणकयागान्नापूर्वोत्पत्तिः स्याद्, उत्पत्तिसम्बन्धेनयागादेरपूर्वजनकतया क्षणविलम्बस्यापि वक्तुमशक्यत्वादिति वाच्यम् , इष्टत्वादुभयकरणकयागानन्तरं क्षणेकविलम्बोत्पन्नप्रत्येकमात्रकरणकयागादेवापूर्वोत्पादादित्याहुः। यत्त यागं प्रत्येव व्रीहियवयोर्वैकल्पिकी कारणतेति, तदसत् ; स्वत्वध्वंसजनिकाया 'अनेन देवताप्रीतिर्भवतु' इत्याकारिकाया 'इदं द्रव्यं देवताया भवतु' इत्याकारिकाया वा इच्छाया यागत्वेन, तत्र ब्रोह्यादेर्हेतुत्वे मानाभावाद् 'बीहि भिर्यजेत' इत्यादौ ब्रीह्यादिजन्यपुरोडाशविषयकत्वस्यैव तृतीयार्थत्वात् , कृतावेव तृतीयाविभक्तेः शक्ततया जन्यत्वार्थकत्वेऽपि लाक्षणिकत्वाविशेषात् / यागं प्रति व्रीह्यभावविशिष्टयवत्वादिना कारणत्वस्य व्रीहित्वादिना प्रतिबन्धकत्वस्य वा वक्तुमशक्यत्वाच्च / अनुगतानतिप्रसक्तवैशिष्ट्यस्य प्रतिबन्धकतावच्छेदकसम्बन्धस्य च दुर्वचत्वादिति संक्षेपः। ___'नन्विति, 'विधिवाक्यम्' मङ्गलबोधकविधिवाक्यम्, 'फलं' समाप्तिः / 'किन्त्वि'ति / 'मङ्गलात्' स्वजन्यादृष्टोत्पत्त्यवच्छेदकत्वसम्बन्धेन मङ्गलसत्त्वात् / यद्वा स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन मङ्गलजन्यादृष्टसत्त्वात् / 'फलावश्यम्भावं' २तदितरसकलकारणसमवधाने सति फलावश्यम्भावं,तथा चव्यतिरेकव्यभिचारो न दोषायेति 1. इष्टसाधनताग्रह इत्यर्थः। तत्सत्त्वे तदितरयावत्कारणसत्त्वेऽवश्यं कार्यमित्यन्वयव्याप्तेः, तदभावे कार्याभाव इति व्यतिरेकव्याप्तेश्च निश्चयतो जायमाने कारणताग्रहे 'तदभावेऽपि कार्यम्' इति व्यतिरेकव्यभिचारज्ञानं विरोधि भवितुमर्हति, तत्सत्त्वे उक्तव्यतिरेकव्याप्तिनिश्चयस्य दुर्घटतया कारणबाधात् / परमागमजन्ये कारणताग्रहे तस्य विरोधित्वमयुक्तम्, तत्रोक्तव्याप्तिनिश्चयस्यानपेक्षणादिति भावः। मङ्गलेतरसकलसमाप्तिकारणसमवधाने मङ्गले सत्यवश्यं समाप्तिरूपं फलं जायत इति भावः। 'यत्र मङ्गलं नास्ति तत्र समाप्तिर्नास्ति' इति मङ्गलाभावे समाप्त्यभावस्य व्याप्तेविरोधि 'मङ्गलाभावेऽपि नास्तिकादौ समाप्तिः' इत्येवंविधं व्यतिरेकव्यभिचारज्ञानं
SR No.032741
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorM M Mathuranatha, Badrinath Shukla
PublisherSampurnanand Sanskrit Vishva Vidyalaya
Publication Year1976
Total Pages88
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy