________________ प्रत्यक्षखण्डे मङ्गलवादः अपि च शङ्कितानिष्टवारणार्थमपि प्रवर्तन्ते परीक्षकाः; यथा सर्पादिदंशजन्यविषसंशये तन्नाशाय भेषजपानादौ / ___किश्च फलस्य संशयेऽप्युपायत्व निश्चयाद् यथा कृष्यादौ प्रवृत्तिः, तथा मङ्गलेऽपि / यदि च वृष्टयादौ सति कृष्यादितोऽवश्यं फलमिति तर्कात् तत्र प्रवृत्तिः, तदा सति विघ्ने मङ्गलादवश्यं फलमिति तर्कादत्रापि प्रवृत्तिः / ननु स्फ्यस्य भक्ताश्लेषनिमित्तकेज्यायामिष्टित्वेन दर्शधर्मत्वे' सत्यतिदेशागतपूर्व दिनकर्तव्यदेवतावाहनस्याङ्गस्य स्फ्याश्लेषद्वार द्वितीयविकल्पे व्यभिचारमाह 'अपि चेति / यथाश्रुते दुरितध्वंसार्थिप्रवृत्तावेव दुरितनिश्चयहेतुतायाः पूर्व शङ्कितत्वादनिष्टध्वंसार्थिप्रवृत्तावनिष्टनिश्चयव्यभिचाराभिधानस्यासङ्गतत्वापत्तेः। ___ केचित्तु पूर्वत्रैव दुरितध्वंसार्थिप्रवृत्तावित्यादौ दुरितपदमनिष्टसामान्यपरम् , अतो नासङ्गतिरित्याहुः, तदसत् ; तथापि 'किञ्चे'त्यादिवक्ष्यमाणदोषासङ्गतेः / इदमुपलक्षणम् / एतत्कल्पेऽपि 'संवत्सरञ्चैकमपी'त्यादिवचनबोधितप्रायश्चित्तप्रवृत्त्यादौ व्यभिचारोऽपि बोध्यः। तृतीयकल्पमभिप्रेत्याह 'किञ्चेति / 'फलस्य' फलोपधायकत्वस्य, 'उपायत्वनिश्चयात्' स्वरूपयोग्यत्वनिश्चयात् / 'वृष्टयादौ' इत्यादिपदादुक्तप्रायश्चित्तविशेषादिपरिग्रहः / 'तथा मङ्गलेऽपीति विनध्वंसरूपफलोपधायकत्वसंशयेऽपि, प्रवृत्तिरिति शेषः। ननु सति वृष्टथादौ कृष्यादावपि सामान्यतः फलावश्यम्भावनिश्चयोऽस्त्येवेत्यत आह 'यदि चे'ति / 'तर्कात्' निश्चयात् , 'सति विघ्ने' इति विघ्नसमवहितमङ्गलमवश्यं विनध्वंसोपधायकमिति निश्चयादित्यर्थः / न च कृष्यादौ सामान्यतो निश्चयस्य हेतुत्वेऽपि वैदिके विशिष्य तन्निश्चयो हेतुरिति वाच्यम् , अन्तरा कर्मनाशाजलस्पर्शकरतोयापारगमनादिशङ्कया तत्रापि विशिष्य तत्संशयात् / न च व्यापारवति वैदिके व्यापारावश्यम्भावनिश्चयस्तथा, तत्राप्युत्तराङ्गनिर्वाहसंशयेन संशयादिति भावः / ननु वैदिके द्वारवैपरीत्यज्ञाने न प्रवृत्तिः / अत एव 'यत् स्फ्या आश्लिषेत् तदधोऽपमृज्यात् , विष्णवे उरुविक्रमाय चरुं' निर्वपेत्' इत्यनेन विहितस्य स्फ्यस्य भक्ताश्लेषनिमित्तकस्य यागस्य इष्टित्वेन दर्शप्रकृतिकत्वात् 'प्रकृतिवद्विकृतिः' इति न्यायेन दर्शधर्मकत्वेऽपि पूर्वदिने देवतावाहनस्य दर्शधर्मस्य स्म्याश्लेषरूपद्वारसंशयादननुष्ठानमुक्तं, तथा च मङ्गले दुरिंतध्वंसरूपसंशयात् कथं प्रवृत्तिरित्याशङ्कते 'नन्विति / 1. दर्शधर्मग्रहे इति क० / 2. सर्वत्रैवेति ख०। 3. वैदिकेपीत्यर्थः / 4. फलोपधायकत्वसंशयादित्यर्थः / 5. द्वादशकपालं चरुमिति ग० /