________________ 26 तत्त्वचिन्तामणौ सरहस्ये ____ यत्त्वन्यत्र निश्चिताधिकारकत्त कत्वेऽपि मङ्गलं सन्दिग्धाधिकारकर्तृकमेव, विघ्नसन्देहवतां शिष्टानामाचारानुमितवेदेन तथैव बोधनादिति, तन; विनवत्वेनाधिकाराभावात् , क्वचित् तनिश्चयेऽपि प्रवृत्तेश्च / न च समाप्तिकामो मङ्गलमाचरेदित्याकारकः, निर्विघ्नसमाप्तिकामो मङ्गलमाचरेदित्याकारको वा विधिः, तथा च प्रारब्धकर्मजन्यफलजनकत्वप्रकारेण वेदबोधितत्वरूपं तदीयवैदिकाङ्गत्वं कुतो मङ्गल इति वाच्यं, प्रारब्धकर्मजन्यसमाप्तिमे जायतामित्युद्दिश्य शिष्टप्रवृत्तेनिर्विनप्रारब्धकर्मजन्यसमाप्तिकामो मङ्गलमाचरेदित्याकारकस्यैव विधेरुन्नयनाद् , विधेः समाप्तिकामो मङ्गलमाचरेदित्याकारकत्वेऽपि प्रारब्धकर्मसहकार्याकाङ्क्यैव तत्प्रवृत्तेः प्रारब्धकर्मसहकारित्वस्य तदर्थत्वाच्च / मीमांसकनये आकाङ्क्षानुरोधित्वाच्छब्दानामिति भावः / ननु कस्त_धिकारः ? इत्यत आह। 'किन्त्वि'ति, सा त्विति' स्वर्गकामस्यामिष्टोमः कार्यः,अहमपि तथेति प्रतिसन्धानेन प्रवृत्तेःकामनाज्ञानमपि प्रवृत्तिहेतुरित्यभिमानेनेदम् / वस्तुतस्तु कामना फलं प्रति, प्रवृत्तिं प्रति च स्वरूपसत्येव हेतुः, न तु ज्ञाता, मानाभावात् / न चैवमधिकारत्वानुपपत्तिः, यत् स्वनिष्ठतया ज्ञातं सत्पुरुषं प्रवत्तयति तस्याधिकारत्वादिति वाच्यं, यद्धर्मविशिष्टेन कृतस्य कर्मणः फलजनकत्वं सोऽधिकार इति तल्लक्षणात् / न चाधिकारनिश्चयः फलाङ्गमिति वाच्यं, स्वरूपसत एव तस्य तथात्वात् / अन्यथा शौचादिभ्रमात् कृतमपि सुकृतमर्जयेत् / न च तत्प्रमा तथा, मानाभावात् / न चैवं प्रायश्चित्तविशेषादौ पापानिश्चयेऽपि प्रवृत्तिः स्यात् , स्याच्च तन्निश्चयं विना कृतादपि तस्मात् फलोत्पाद इति वाच्यं, तत्र पापनिश्चयस्याधिकारत्वात् , निश्चितपापकर्तृकत्वेन वेदबोधनात् / न च कामनाभिलापं विना काम्यकर्मणः फलानिष्पत्तेः कामनाज्ञानमपि प्रवर्तकमिति वाच्यं, तावता फलं प्रति तस्य हेतुत्वेऽपि प्रवृत्तिं प्रति तस्य हेतुत्वे मानाभावात् / न हि काम्यकर्मप्रवृत्ति प्रति कामनाभिलापो हेतुः, भ्रान्त्या अभिलापमकृत्वा केनचित् काम्यकर्मानुष्ठानात् , फलं प्रति कामनाभिलापस्यैव हेतुतया कामनाज्ञानस्य हेतुत्वे मानाभावाच्च / वाक्यप्रयोगं प्रति वाक्यार्थज्ञानस्याहेतुतया प्रयोजकत्वस्याप्यसम्भावितत्वादित्यन्यत्र विस्तरः / ___ 'अन्यत्र' प्रायश्चित्तविशेषादौ, 'निश्चिताधिकारकर्तृ कत्वेऽपीति अधिकारनिश्चयस्यैव प्रवर्तकत्वेऽपीत्यर्थः / 'मङ्गलं सन्दिग्धाकारकर्तृकमेव' इति मङ्गले विनरूपाधिकारसंशय एंव प्रवर्तक इत्यर्थः / 'विघ्नवत्त्वेने ति विघ्नस्याधिकारत्वाभावादित्यर्थः / अभ्युपगम्याह 'क्वचिदिति / तथा च विघ्नसंशय एव प्रवर्तक इति नियमोऽसिद्ध इति भावः।