________________ तत्त्वचिन्तामणौ सरहस्ये संशयेऽननुष्ठानमुक्तं, यथा कृष्णले द्वारबाधे। अतो विघ्नसंशयात् तद्ध्वंसद्वारसंशये कथं मङ्गलानुष्ठानमिति चेत् , न; नैमित्तिके हि निमित्तवानधिकारी, यथा भिन्ने जुहोतीत्यत्र पात्रमेदवान ; तथेहाश्लेषवानधिकारीति पूर्वदिने आश्लेषनिश्चयाभावाद् युक्तमननुष्ठानम् / 'स्फ्यः' खदिरकाष्ठनिर्मितखड्गः२, 'इज्या' यागः, 'दर्शधर्मत्वे सति' दर्शप्रकृतिकत्वे सत्यपि, 'दर्शधर्मग्रहे सति'ति पाठेऽप्ययमेवार्थः। 'अतिदेशे'ति प्रकृतिवद्विकृतिरित्यतिदेशेत्यर्थः। स्क्याश्लेषेज्यायां देवतावाहनस्याननुष्ठाने दृष्टान्तमाह 'यथेति / 'कृष्णलः' सुवर्णकलापः, 'द्वारबाधे' वैतुष्यरूपद्वाराभावनिश्चये, अवघाताननुष्ठानमिति शेषः / 'द्रोहीन् प्रोक्षति,बीहीनवहन्ति' इत्यत्र यवादिसाधारण्यार्थ व्रीहिपदस्याजहत्स्वार्थलक्षणया घृतादिव्यावृत्तनियोगसाधनताश्रयद्रव्यमानपरत्वेन 'कृष्णलं अपयेत्' इति श्रुत्या तादृशनियोगसाधनत्वेन बोधिते कृष्णलेऽप्यवघातप्राप्तावपि वैतुष्यद्वारबाधाद् यथाननुष्ठानमित्यर्थः / 'अत' इति द्वारसंशयेऽननुष्ठानवचनाद् वैदिकप्रवृत्तौ द्वारसंशयस्य प्रतिबन्धकत्वकल्पनादिति भावः। ___'यथा वेति वाकारसम्बलितपाठपक्षे विघ्नध्वंससन्देहे मङ्गलानष्ठानानुपपत्तौ हेत्वन्तरमाह 'यथा वेति / 'यथा वा' येन वा यतो वेति यावत् / यथाश्रुते अत' इत्यनेनान्वयापत्तेः / शेषस्तु पूर्ववत् / 'अत' इति द्वारस्य संशये व्यतिरेकनिश्चये वाननुष्ठानाद्, द्वारवैपरीत्यज्ञानमात्रस्यैव प्रतिबन्धकत्वकल्पनादिति भावः। वस्तुतो मूले वाकारः प्रामादिक इति ध्येयम् / स्फ्याश्लेषो हि निमित्तमतो निमित्तनिश्चयाभावादेव तत्र न प्रवृत्तिः, न तु द्वारसन्देहात् , स्फ्याश्लेषस्य द्वारत्वाभावादित्याशयेन सिद्धान्तयति 'नैमित्तिके होति / 'निमित्तवान्' निमित्तनिश्चयवान् , 'अधिकारी' अनुष्ठाता, निमित्तनिश्चयो निष्कम्पप्रवृत्तिहेतुरित्यर्थः / 'पात्रभेदवान्' पात्रभेदनिश्चयवान् , पात्रभेदनिमित्तकहोमे पात्रभेदनिश्चयो यथा निष्कम्पप्रवृत्तिहेतुरित्यर्थः। 'इह' स्फ्याश्लेषनिमित्तकेज्यायाम् , 'आश्लेषवान्' आश्लेषनिश्चयवान् , 'अधिकारी' अनुष्ठाता, आश्लेषनिश्चयो निष्कम्पप्रवृत्तिहेतुरित्यर्थः / आश्लेषस्य निमित्तत्वादिति भावः / 'युक्तमननुष्ठानमिति युक्तं पूर्वदिने देवतावाहनाननुष्ठानमित्यर्थः / 1. निमित्तनिश्चयवानिति क० / 2. खदिरकाष्ठनिर्मितचरुरूपकरणविशेष इति ख०, ग० च / 3. व्रीहिपदं घृतान्यप्रयोगसाधने लाक्षणिकं, लक्षणा चेयमजहत्स्वार्था, ताहशसाधनत्वरूप लक्ष्यतावच्छेदकस्य शक्यलक्ष्योभयवृत्तित्वात् /