SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 36 न चान्यदापि करणम्, नियतकालीनतादृशाचारेण 'फलवकर्मारिप्समानस्तत्समाप्तिकामो मङ्गलमाचरेद्' इति श्रुत्या आरम्भसमयकर्त्तव्यताबोधनात् / यथा “अग्नावैष्णवमेकादशकपालं चरु निर्वपेद् दर्शपूर्णमासावारिप्समानः" इति श्रुत्या आरम्भणीयेष्टेः प्रधानाया दर्शारम्भसमयकर्त्तव्यत्वम् , कामनोपाधिकार्यत्वेऽप्यारम्भसमये' नियतमनुष्ठानम् , आरब्धकर्मसमाप्त्यर्थिनोपायत्वेनावश्यं तदनुष्ठानात् / न च काम्यत्वे परिसमाप्तिकामनां विना फलवकर्मारम्भेऽपि तदनुष्ठानं न स्यादिति वाच्यं, समाप्तं कर्म फलायालमिति फलार्थिनः समाप्तौ कामनेत्यर्थः / तथा च श्रुतिरपि तथैवोन्नेया, न तु “निर्विघ्नसमाप्तिकामो मङ्गलमाचरेद्" इत्याकारिकेति भावः / 'कर्मादी'त्यादिपदात् कर्त साधनयोः परिग्रहः / 'अन्यदापि' आरब्धकर्मप्राक्कालातिरिक्तकालेऽपि, 'करणमिति अपूर्व जनयत्विति शेषः। 'आरम्भसमयकर्त्तव्यताबोधनादि'ति आरब्धकर्मपूर्वसमयकर्तव्यताबोधनादित्यर्थः। तथा च तज्जन्यापूर्व प्रति तादृशसमयस्यापि हेतुत्वादन्यदा तत्करणान्नापूर्वमिति भावः / 'अग्नावैष्णवमि'ति छान्दसः, अग्नौ वैष्णवमेकादशकपालं चरुं निर्वपेदित्यर्थः / यद्वा अग्निदेवताकविष्णुदेवताकमेकादशकपालं तत्र संस्कृतं चरु निर्वपेदित्यर्थः; अग्निश्च विष्णुश्च अग्नाविष्णू , तौ देवते अस्येति व्युत्पत्तेः। 'प्रधानायाः' दर्शजन्यफलाजनिकायाः, 'कर्तव्यत्वमिति बोध्यत इति शेषः। .. ननु मङ्गलस्याङ्गत्वेऽङ्गवैगुण्यभिया अनायत्या आरम्भसमयेऽवश्यं तत्करणं घटते, अनङ्गत्वे चारम्भसमयेऽवश्यं कथं तत्करणम् ? न ह्यारम्भणीया दर्शसमयेऽवश्यं क्रियत इति नियम इत्यत आह 'कामनोपाधिकार्यत्वेऽपी'ति फलान्तरकामनाधीनेच्छाजन्यकृतिविषयत्वेऽपीत्यर्थः। 'आरम्भसमये आरब्धकर्मपूर्वसमये, 'आरब्धकर्मसमाप्त्यथिना' आरब्धकर्मोत्पत्त्यर्थिना आरब्धकर्मका, 'उपायत्वेन' तादृशोत्पत्तिरूपेष्टसाधनत्वेन, 'अवश्यं तदनुष्ठानादिति अवश्यमारब्धकर्मपूर्वसमये तस्य ज्ञानादित्यर्थः। तथा चेष्टसाधनताज्ञाननियमेन इच्छानियमात् प्रवृत्तिनियम इति भावः। नन्वेवं यत्रोत्पत्तिकामनां विनैव कर्मारब्धं, तत्र मङ्गलं नानुष्ठीयेतेत्याशङ्कते 'न चेति / 'काम्यत्वे' आरब्धकर्मोत्पत्तिकामनाधीनकामनाविषयत्वे, 'परिसमाप्तिकामनां विना' आरब्धकर्मोत्पत्तिकामनाविरहेण, 'समाप्तं कर्म' उत्पन्न कर्म, 'अलं' समर्थ, 'फलाथिनः' ग्रन्थप्रयोजनकीर्त्यर्थिनः, 'समाप्तौ' उत्पत्ती, आरभ्भकाले इति क० / 2. यत्र विशेष्यतासम्बन्धेनेष्टसाधनताज्ञानं तत्रैव विशेष्यतासम्बन्धेनेच्छा प्रवृत्तिश्चेति नियम इत्याशयः।
SR No.032741
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorM M Mathuranatha, Badrinath Shukla
PublisherSampurnanand Sanskrit Vishva Vidyalaya
Publication Year1976
Total Pages88
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy