________________ 32 तत्त्वचिन्तामणौ सरहस्ये बोधकस्य लौकिकप्रमाणस्य शास्त्रमेकदेशो युज्यते, तस्य तनिरपेक्षत्वादिति चेत् , न; अपूर्वजनकाङ्गानां तथात्वाद् , आचारानुमितश्रुत्या प्रधानविधि विनापि तदङ्गत्वविधानाच / / अन्ये तु ननु इज्याकर्त्तव्यतानिश्चयाभावात् पूर्वदिने तदङ्गानुष्ठानमित्ययुक्तम् , विवाहसन्देहेऽपि तदङ्गाभ्युदयिकाचरणादित्यत आह 'भविष्यदि'तीत्याहुः / मङ्गले व्यापकाभावात् प्रारब्धकर्मीयवैदिकाङ्गत्वासम्भवमाशङ्कते 'नन्वि'ति, 'अङ्गानां' तदीयवैदिकाङ्गानाम् / तदीयवैदिकाङ्गत्वञ्च प्राङ् निरुक्तमेव', यथाश्रुते लौकिकाङ्ग व्यभिचारापत्तेः, यागादेरपि शरीरात्मादेः यत्नादेश्च सहकारितारूपाङ्गत्वाश्रयतया तत्रापि व्यभिचारापत्तेश्च / 'ग्रन्थादिसमाप्तौ' ग्रन्थादिसमाप्तिस्थले, 'प्रधाने विधिरस्ति' प्रधाने-मङ्गलविधिप्रकारीभूतमङ्गलनिष्ठस्वसहकारिताके प्रारब्धकर्मणि', 'विधिरस्ति', तथा च तत्कर्त्तव्यताबोधकविधिसाकाङ्कविधिबोधितत्वस्य तदीयवैदिकाङ्गत्वव्यापकतया व्यापकाभावान्मङ्गले प्रारब्धकर्मवैदिकाङ्गत्वासम्भव इति भावः / ननु प्राथमिक विधित्वमतन्त्रं , गौरवात् / किन्तु तद्वोधकप्रमाणसाकाङ्कविधिविधेयत्वमेव तदीयवैदिकाङ्गत्वव्यापकं लाघवात् / तच्चानुमानादिलौकिकप्रमाणादावपि सम्भवत्येवेत्यत आह 'न चेति न वेत्यर्थः / 'शास्त्रम्' मङ्गलबोधकवेदः, 'एकदेशः' साकाङ्क्षः, 'तस्य' लौकिकप्रमाणस्य, 'निरपेक्षत्वादिति आकाङ्क्षायाः शब्दमात्रधर्मतया आकाङ्क्षाया अनिरूपकत्वादित्यर्थः / तथा चैतदपि मङ्गले नास्तीति भावः / 'अपूर्वजनकाङ्गानाम्' अपूर्वद्वारा तदीयवैदिकाङ्गानां, 'तथात्वात्' तद्विधिविधेयत्वनियमात्, तथा चोक्तनियमोऽप्रयोजक इति भावः।। , केचित्तु तथा चापूर्वद्वारकत्वम् उपाधिरिति भाव इत्याहुः ; तदसत्, योगाङ्गप्राणायामादौ भेषजपानाङ्गभेषजाभिमन्त्रणादौ च साध्याव्यापकत्वात् तेषां पापनाशादिद्वारैवाङ्गत्वात् / व्यभिचारमप्याह 'आचारेति'। 'प्रधानविधि विनापि' प्रारब्धकर्मविधिं विनापि, 'तदङ्गत्वविधानाच्च' तथाविधाचारानुमितश्रुत्या मङ्गलस्य प्रारब्धकर्मजन्यसमाप्तिजनकत्वप्रकारेण बोधनाच्च / तथा च साध्याभाववतो मङ्गलस्यैव निश्चितहेतुमत्त्वात् तत्रैव व्यभिचार इति भावः। यथा च मङ्गलविधेः प्रारब्धकर्मजन्यसमाप्तिजनकत्वप्रकारेण बोधजनकत्वं तथोपपादितमधस्तात् / 1. प्रधानफलातिरिक्तफलाजनकत्वे सति प्रधान जनकव्यापारजनकत्वेन वेदबोधितत्वरूपम् / 2. नैमित्तिकाने इति क० / 3. प्रधानकर्मणीति क० / 4. प्रधानविधिविधेयत्वनियमादित्यर्थः। 5. अपूर्वजनकत्वमिति ख०, ग• च /