________________ प्रत्यक्षखण्डे मङ्गलवादः सिकरूपे विशेषो जातिविशेष एवानुभवसाक्षिकः, करशिरःसंयोगमात्रे तदव्यवहाराद् ‘भवतोऽहमपकृष्ट' इत्यादिवचने तदव्यवहाराच। यद्वा कायिकादौ प्रत्येकमेव विधिकल्पनम् , अतो नानाथेतैव / त्वेनाननुगममाशक्याह 'यद्वे'ति / 'नानार्थतैवे'ति कायिकादिप्रत्येकवृत्तिजातिविशेषा एव नमस्कारपदशक्यतावच्छेदका इत्यर्थः / ननु करशिरःसंयोगादिः कायिकनमस्कारः, तत्र कथं जातिविशेषः ? नोदनत्वाभिघातत्वसंयोगजत्वादिना साकुर्यात् / न च संयोगजत्वादिजातयो नाना, कार्यतावच्छेदकाननुगमस्यादोषत्वान्नमस्कारपदशक्यतावच्छेदकजातिश्चैका विघ्नविशेषनाशकतावच्छेदकतया सिद्धा, तन्नानात्वे व्यभिचारापत्तेरिति वाच्यं; तथापि शब्दविशेष जनकतावच्छेदकाभिघातत्वमादाय साङ्कर्यस्य दुर्वारत्वादुभयोरेव जनकतावच्छेदकतया नानात्वे विनिगमकाभावादिति चेत् न; करशिरःसंयोगाद्यनुकूलचेष्टाविशेषस्यैव कायिकनमस्कारत्वाच्चेष्टानिष्ठविशेषस्तु चेष्टात्वव्याप्यो जातिविशेषः / स च विघ्नविशेषनाशकतावच्छेदकतया सिद्धः। - ननु तथापि यत्र नमःपदादिरेव वाचनिकनमस्कारः, तत्र कथं जातिविशेषः ? नत्वादिना सार्यात् / न च मकारादिचरमवर्णवृत्तिमत्त्वादिव्याप्यो नानाजातिविशेष एव वाचनिकत्वं, नोत्तरमकारविशेषादिरेव वाचनिकनमस्कारः, पूर्व-पूर्ववर्णज्ञानं तु तद्वयञ्जकम्, अतश्चरमवर्णमात्रश्रवणे न तज्जातिसाक्षात्कार इति वाच्यं, विनिगमनाविरहेण मपूर्वनकारविशेषस्यापि वाचनिकत्वस्य दुर्वारत्वादिति चेत्, न; विनिगमनाविरहाद् नत्वमत्वादिव्याप्या नानाजातय एव वाचनिकत्वमित्यभिप्रायात् / / नव्यास्त शाब्दबोधवृत्तिशाब्दत्वव्याप्यजातिविशेष एव वाचनिकत्वम् , अत एव वाचनिक इत्युच्यते, न तु वचनमित्याहुः / धिकरणकालघटिततया अन्त्यज्ञानविशेषातिरिक्तानां सर्वेषां ज्ञानविशेषाणामुपधायकेष्वव्याप्तेस्तत्प्रागभावाधिकरणकालस्य तदुत्तरभाविज्ञानविशेषप्रागभावाधिकरणकालप्रागभावाधिकरणतया तादृशकालप्रागभावानधिकरणत्वासम्भवात् / तथा च अननुगतस्य तत्तज्ज्ञानविशेषोपधायकशब्दस्य स्तुतिपदार्थत्वे स्तुतिपदस्य नानार्थत्वप्रसङ्गरूपो दोषः स्याद् यदि उपधायकत्वं संसर्गमर्यादया स्तुतिपदार्थधटक न स्यादित्याशयः। उपधायकत्वस्य संसर्गत्वे तु न दोषः, तत्कुक्षौ स्वत्वस्य परिचायकतयैव प्रविष्टत्वेन वस्तुतोऽप्रविष्टत्वात् / तथा च ज्ञानविशेषोपधायकत्वं ज्ञानविशेषविशिष्ट त्वम्, वैशिष्टयं च स्वनिरूपितान्यथासिद्धिशून्यत्वस्वविशिष्टकालवृत्तित्वैतदुभयसम्बन्धेन, स्ववैशिष्टयं स्वप्रागभावाधिकरणत्वस्वप्रागभावाधिकरणकालप्रागभावानधिकरणत्वैतदुभयसम्बन्धेन /