________________ तत्त्वचिन्तामणिः मथुरानाथकृतरहस्य (माथुरी) सहितः प्रत्यक्षखण्डम् मङ्गलवादः गुणातीतोऽपीशस्त्रिगुणसचिवस्त्र्यक्षरमयस्त्रिमूर्तियः सर्गस्थितिविलयकर्माणि तनुते / कृपापारावारः परमगतिरेकत्रिजगतां नमस्तस्मै कस्मैचिदमितमहिम्ने पुरभिदे // 1 // माथुरी न्यायाम्बुधिकृतसेतुं हेतुं श्रीराममखिलसम्पत्तेः / तातं त्रिभुवनगीतं तर्कालङ्कारमादरान्नत्वा // 1 // श्रीमता मथुरानाथतर्कवागीशधीमता। विशदीकृत्य दर्यन्ते प्रत्यक्षमणिफक्किकाः॥२॥ निर्विघ्नं प्रारिप्सिततत्त्वचिन्तामणि'नामग्रन्थसमाप्तिकामनया कृतं महादेवनमस्काररूपं मङ्गलं शिष्यशिक्षार्थमादौ निबध्नाति 'गुणातीत' इति / 'तस्मै नमः' तस्मै कस्मै ? इत्यपेक्षायामाह 'गुणातीत' इति / यः, गुणातीतोऽपि-समवायसम्बन्धेन गुणसामान्याभाववानपि, 'ईशः' अप्रतिहतेच्छः, अप्रतिहतत्वम्-अविसंवादित्वम् / 'अपि:' सर्वत्र विरोधाभाससूचनाय / निर्गुणत्वस्य इच्छाविरोधात् / गुणपदस्य साङ्खयमतसिद्धसत्त्वरजस्तमोलक्षणगुणपरतया हि विरोधपरीहारसम्भवाद् विरोधाभासत्वम् / सत्त्वादयश्च न्यायनये सृष्टिस्थितिप्रलयोत्पादका अष्टभेदा एवेति नाप्रसिद्धिः२ / / 1. विरोधः-असामानाधिकरण्यम् न तु प्रतिबध्यत्वप्रतिबन्धकत्वान्यतरसम्बन्धेन ज्ञान विशिष्टज्ञानविषयत्वं, समानप्रकारकयोरेव ज्ञानयोः प्रतिबध्यप्रतिबन्धकभावेन इच्छात्वावच्छिन्न-गुणत्वावच्छिन्नाभावज्ञानयोस्तदसम्भवात् / अन्यथाऽविशेषव्यतिरिक्तस्य सत्त्वादेायमतेऽसत्त्वेनाप्रसिद्धिः स्यादिति भावः /