SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणौ सरहस्ये नियमेन शिष्टानां मङ्गलाचाराद् विघ्नज्ञानं प्रवर्तकम् / तादृशाचारानुमितविधिनापि विघ्नज्ञानवानारब्धसमाप्तिकामोऽधिकारी बोध्यते। प्रायश्चित्ते तु तनिश्चयवान्', तथैव विधिबोधनात् / अत एवाधिकारिविशेषणं विघ्न इति, तत्सन्देहे कथं प्रवृत्तिः 1 वैदिकेऽधिकारनिश्चयादेव प्रवृत्तेरित्यपास्तम्। यतः प्रधानाधिकारिण एवाङ्गेऽधिकारो न स्वतन्त्रः, अङ्गत्वभङ्गप्रसङ्गात् / न च प्रधाने प्रारिप्सिते दुरितमधिकारिविशेषणं, विरोधात् / किन्तु समाप्तिकामना सा तु निश्चितैव / बन्धनस्य यथा लौकिकफलजनकत्वाभाव इत्यर्थः / इदमुपलक्षणम् / अपूर्वधर्मिकल्पनां तस्य समाप्तिकारणत्वकल्पनाश्चापेक्ष्य प्रतिबन्धकामावतया समाप्तिकारणत्वेन क्लप्तस्य विन्नध्वंसस्य मङ्गलजन्यत्वमात्रकल्पने लाघवात् , नाशकान्तरकल्पने गौरवात् , तस्य समाप्तिजनकताया अपि क्लप्तत्वाञ्चेत्यपि बोध्यम् / विघ्नध्वंसविशिष्टसमाप्तेमङ्गलाचारोद्देश्यत्वमते बाधकमाशङ्कते-'नन्विति / तन्नाशार्थम् 'तन्नाशमुद्दिश्य, 'दुरितध्वंसाथिप्रवृत्ताविति' दुरितध्वंसोद्देश्यकप्रवृत्तावित्यर्थः / तन्निश्चयस्य' दुरितनिश्चयस्य, 'प्रायश्चितवत्' प्रायश्चित्तप्रवृत्तिवत् / ननु 'दुरितध्वंसाथिप्रवृत्तौ' इत्यादेः कतमोऽर्थः ? किं पापध्वंसार्थिप्रवृत्तौ पापनिश्चयो हेतुः ? किं वा सामान्यतोऽनिष्टध्वंसार्थिप्रवृत्तावनिष्टनिश्चयो हेतुः ? किं वा तदुद्देश्यकप्रवृत्तौ तदुपधायकत्वनिश्चयो हेतुः? प्रकृते च विघ्नसन्देहेन विघ्नध्वंसोपधायकत्वसन्देहात् कथं तदर्थिप्रवृत्तिरिति ? तत्र नाद्य इत्याह 'विघ्नसंशय' इति / 'विघ्नज्ञानम् वित्रज्ञानसामान्यम् , 'प्रवर्तकम्' मङ्गले प्रवर्तकम् / तथा च पापध्वंसार्थिप्रवृत्तौ पापनिश्चयो हेतुरिति व्याप्तिरप्रयोजिकेति भावः / इदमुपलक्षणम् / संवत्सरञ्चैकमपि चरेत्कृच्छ द्विजोत्तमः / अज्ञातभुक्तशुद्धयर्थ ज्ञातस्य च विशेषतः / / इत्येतद्वचनबोधितपापसंशयजन्यप्रायश्चित्तविशेषप्रवृत्तौ शौचाचमनादिलक्षणदुरितध्वंसहेतुक्रियाविशेषप्रवृत्तौ च व्यभिचारोऽपि बोध्यः। 1. तन्निश्चयज्ञानवानिति क० / 2. इति परास्तमिति क० / 3. मङ्गलोद्देश्यत्वमते इति ख० / 4. प्रतिसंवत्सरञ्चकमिति क० /
SR No.032741
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorM M Mathuranatha, Badrinath Shukla
PublisherSampurnanand Sanskrit Vishva Vidyalaya
Publication Year1976
Total Pages88
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy