________________ 12 तत्त्वचिन्तामणौ सरहस्ये वाच्यं, चैत्यवन्दनादेस्तत्त्वज्ञानिकर्तृकत्वे मानाभावात्; तत्सत्त्वे प्रवृत्त्यन्यथानुपपत्त्या भ्रमस्याप्यावश्यकत्वाच्च / तदुद्देश्यकत्वेनाप्याचारो विशेषणीयः, तेन दर्शादौ वेदबोधितसमाप्तिसाधनत्वाभावेऽपि न व्यभिचार इति तत्त्वम् / उपाध्यायास्तु भोजनादौ व्यभिचारवारणायालौकिकत्वे सतीति पूरणीयम् / अलौकिकत्वञ्च लोकावगतबलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनताश्रयान्यत्वम् , अविगीतपदसार्थक्याय बलवदनिष्टाननुबन्धित्वमखण्डभेद घटकम् / इत्त्थश्चागम्यागमनादौ व्यभिचारवारणाया विगीते'ति / अविगीतत्वं-बलवदनिष्टाननुबन्धित्वम् / अत्र निष्फलजन्यानिष्टव्यावृत्तानिष्टस्य प्रविष्टतया चैत्यवन्दनादौ भ्रान्त्या स्वःफलान्यफलमुद्दिश्य कृते यागादौ च व्यभिचारवारणाय 'शिष्टे'ति / बलवदनिष्टसामान्यप्रवेशेऽपि पश्वादिकृतवृथाचेष्टायां व्यभिचारवारणाय 'शिष्टे'ति / शिष्टत्वम्-इष्टसाधनत्वभ्रमाजन्यत्वं, न तु भ्रमाजन्यत्वमात्रम् ; अगम्यागमनाचारस्यापि बलवदनिष्टाननुबन्धित्वभ्रमजन्यतयाऽविगीतपदवैयर्थ्यापत्तेः / बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्त्यहेतुत्वनये तु भ्रमाजन्यत्वमेव शिष्टत्वमित्याहुः / ___अन्ये तु 'नमस्कारादिर्वेदबोधितबलवदनिष्टाननुबन्धित्वविशिष्टसमाप्तिसाधनताकः, समाप्त्युद्देश्यकाविगीतशिष्टाचारविषयत्वाद्' इत्यनुमानम् / व्याप्तिश्च पूर्ववत् / हेतावविगीतत्वविशेषणसार्थक्याय साध्ये बलवदित्यादि। तथा सति हेतावविगीतविशेषणानुपादाने इष्टानिष्टोभयजनके श्येनादौ व्यभिचारापत्तेः। अविगीतत्वश्च पापाजनकत्वम् / रात्रिश्राद्धादिवारणाय 'शिष्टे'ति / शिष्टत्वम्-इष्टसाधनत्वांशेऽभ्रान्तत्वं, 1. अतिरिक्तभेदघटकमित्यर्थः। तथा च हेतावविगीतत्वविशेषणफलादगम्यागमनादिवारणा द्भिन्नस्य फलस्याभावेनालौकिकत्वगर्भ तस्य निष्प्रयोजनत्वेऽपि इष्टसाधनत्ताश्रयान्यत्वातिरिक्तोक्तविशिष्टेष्टसाधनताश्रयान्यत्वघटकतया न वैयर्थ्य, तथाविधभेदत्वयोः परस्परव्यधिकरणत्वात्; स्वसमानाधिकरणत्वे सति, स्वावच्छिन्नीयसाध्यव्याप्यतावच्छेदकत्वे सति, स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वे च सति स्वावच्छिन्नाविषयकप्रतीतिविषयतानवच्छेदकत्वसम्बन्धेन स्ववृत्तिवर्माविच्छिन्नाविषयकप्रतीतिविषयतावच्छेदक स्वावच्छिन्नघटकतावच्छेदकधर्मवत्त्वस्यैव स्वावच्छिन्नांशे पारिभाषिकवैयर्थ्यपदार्थत्वात् / 2. शिष्टपदस्य भ्रमाजन्यत्वमात्रार्थकत्वे तत्पदेनैव अगम्यागमनादिवारणसम्भवादिति भावः / 3. यदि प्रवृत्तौ बलवदनिष्टाननुबन्धित्वज्ञानं न हेतुः किन्तु इष्टसाधनत्वज्ञानमेव, तर्हि अगम्यागमनादेरिष्टसाधनतया भ्रमाजन्ये तत्र व्यभिचारवारणायाविगीतपदसार्थक्यं सम्भवतीति भावः। 4. यो यदुद्देश्यकाविगीतशिष्टाचारविषयः स वेदबोधितबलवदनिष्टाननुबन्धित्वविशिष्ट तत्साधनताक इति सामान्यव्याप्तिरिति भावः / 5. साध्ये बलवदितीति ग० /