SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणौ सरहस्ये उच्यते'-'मङ्गलमाचरेदिति न विधिः, किन्तु 'निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेदि'त्यादिप्रत्येकमेव विधिः / तथैव शिष्टाचारात् / तदुपजीव्य निर्विघ्नमारब्धं परिसमाप्यतामिति कामनया तद्विघ्नोपशमहेतुत्वेन वा वेदविहितत्वं मङ्गलत्वमित्यधिगम्य देवतास्तुतिनमस्कारादिषु मङ्गलव्यवहारः शिष्टानामिति / अत एव दुरितनाशकमपि गङ्गास्नानादि न मङ्गलम् , तथाविधानात् / मङ्गलाचारयुक्तानां नित्यश्च प्रयतात्मनाम् / जपतां जुह्वताश्चैव विनिपातो न विद्यते // __इत्यनेन बोधितादर्शदर्शनादेः पृथगेव मङ्गलत्वं, न तु विघ्ननिवर्तकतया, तत्र नानार्थतैव / अन्यथा ग्रन्थारम्मे नमस्कारतुल्यतया 'तत्करणप्रसङ्गः। 'निर्विघ्नसमाप्तिकाम' इति / एतच्च सम्प्रदायनयमाश्रित्य, स्वनये तु प्रारिप्सितविघ्नोपशमनकाम इति बोध्यम् / तथैव' स्तुतित्वादिनैव, 'शिष्टाचारात्' शिष्टप्रवृत्तिविषयत्वात् / 'तदुपजीव्येति तत्तद्विधिजन्यज्ञानसहकारेणेत्यर्थः। तद्विघ्ने'ति प्रारब्धकर्मविघ्नेत्यर्थः / लक्षणद्वयं मतभेदेन / नन्वेतल्लक्षणद्वयमादर्शदर्शनादावव्यापकमित्याशक्याह 'मङ्गलाचारे'ति, 'मङ्गलाचारः' आदर्शदर्शनादिः, 'विनिपातः' दुरितं, 'न विद्यते' नोत्पद्यते, 'मङ्गलत्वं' मङ्गलपदशक्यत्वं, 'तत्र नानार्थतैवेति, 'अत' इत्यादिः, 'तत्र' मङ्गलपदे / ननु नानार्थताया अन्याय्यतया विनिपातपदं प्रारिप्सितपरमेवास्तु, 'न विद्यत' इत्यपि विनाशपरमस्तु; तथा चादर्शदर्शनादेरपि नत्यादिवदेव मङ्गलत्वम् / न च 'जुहतामिति न होमान्तरविधिः,किन्तु अग्निहोत्रस्यैवानुवादः। तथा च तस्य नित्यतया विघ्नेतरपापानुत्पत्तिफलकत्वेन प्राप्तत्वाद् 'विनिपात'पदस्य विघ्नपरत्वं न विद्यत' इत्यस्य विनाशपरत्वश्च न सम्भवति / अग्निहोत्रानुरोधेन 'विनिपातो न विद्यत' 1. अत्रोच्यत इति ख०। 2. तथात्वेन वेदविहित त्वस्य मङ्गलस्वरूपत्वादेवेत्यर्थः / 3. विघ्ननाशार्थ गङ्गास्नानादेवैदेनाविधानादित्यर्थः / 4. नत्यादिवैलक्षण्येनैवेत्यर्थः / 5. विघ्ननिवर्तकतया नत्यादिवन्मङ्गलत्वे इत्यर्थः / 6. आदर्शदर्शनादिकरणप्रसङ्ग इत्यर्थः /
SR No.032741
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorM M Mathuranatha, Badrinath Shukla
PublisherSampurnanand Sanskrit Vishva Vidyalaya
Publication Year1976
Total Pages88
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy