________________ प्रत्यक्षखण्डे मङ्गलवादः तन्त्रे दोषगणेन दुर्गमतरे सिद्धान्तदीक्षागुरुगङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम् // 2 // यतो मणेः पण्डितमण्डनक्रिया प्रचण्डपाखण्डतमस्तिरस्क्रिया / विपक्षपक्षे न विचारचातुरी न च स्वसिद्धान्तवचोदरिद्रता // 3 // प्रेक्षावत्प्रवृत्त्यर्थ ग्रन्थान्तरापेक्षया स्वीयग्रन्थस्योत्कर्ष दर्शयन् स्वकीर्त्यनुवृत्तये स्वनाम मन्थनाम च दर्शयति 'अन्वीक्षा' इति / 'गङ्गेशः', 'अन्वीक्षानयम्' न्यायशास्त्रम्, 'गुरुभिः, आकलय्य' ज्ञात्वा, 'गुरूणां' प्राभाकराणाम् , मतं च गुरुभित्विा , 'चिन्तादिव्यविलोचनेन' च, चिन्तारूपदिव्यचक्षुषा च, 'तयोः' न्यायगुरुमतयोः, 'अखिलम्' निःशेषम् , 'सारम्' अभिप्रायम् , 'विलोक्य मितेन वचसा श्रीतत्त्वचिन्तामणि तनुते' इत्यन्वयः। अन्योऽपि 'गङ्गशः' समुद्रः, 'मितेन वचसा' स्तवादिना, 'चिन्तामणि तनुते' इत्युपमालङ्कारो व्यङ्गथः। गुरुमतस्य प्रायशो निरस्यतया विशिष्य तदुल्लेखः / गङ्गेशः किम्भूतः ? 'दोषगणेन' दोषसमूहेन, 'दुर्गमतरे' अत्यन्तदुर्गमे, 'तन्त्रे' सूत्रादौ, 'सिद्धान्तदीक्षागुरुः // 2 // ग्रन्थस्य चिन्तामणिनामकरणे बीजभूतं मणेः सादृश्यं दर्शयति 'यतो मणे' रिति / इदश्च सर्वत्र सम्बध्यते / 'प्रचण्डेति' प्रचण्डाः पाखण्डाः-बौद्धाः, त एव तमांसि, तेषां तिरस्क्रिया। मणिपक्षे-प्रचण्डपाखण्डीभूतानि यानि तमांसि तेषां तिरस्क्रियेत्युन्नेयम् / 'विपक्षेति' विपक्षा ये बौद्धादयः, तेषां यः पक्ष:-सिद्धान्तः, तत्र, 'न विचारचातुरो' न व्यवस्थानकौशलम् / मणिपक्षे तु 'विपक्षपक्षे' चौरादिपक्षे, न विलक्षणचरणचातुरी। मणिप्रभया तमोनिवृत्तेरिति भावः / न च स्वेति' स्वस्यन्यायदर्शनस्य, यानि सिद्धान्तवांसि तेषां 'न दरिद्रता'। मणिपक्षे स्वस्य -धनस्य, सिद्धः अन्तः-अवसानं वृत्तमिति वचसोऽदरिद्रता न चेत्यर्थः, अकारप्रश्लेषात् / दरिद्रता-प्रयोगाभावः, अनन्तं धनं भवतीत्यर्थः। केचित्तु मणिपक्षे विपक्षेत्यस्यविपक्षपक्षेनस्य-विपक्षपक्षश्रेष्ठस्य, विचारचातुरी-विलक्षणचरणचातुरी, न चेत्यन्वयः। 1. चिन्तादिव्यविलोकनेनेति ग०। 2. मणिसादृश्यमिति ख. / 3. न व्यस्थापनकौशलमिति ख० / 4. भवतीत्यभिप्राय इति ख० /