Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 79
________________ तत्त्वचिन्तामणौ सरहस्यै गुणवत्तया ज्ञापनं स्तुतिः। यमुद्दिश्य यस्य स्वापकर्षबोधनानुकूलो व्यापारविशेषः स तस्य नमस्कारः / व्यापारे च कायिक-वाचिक-मान ननु 'स्तुतिमाचरेदि'त्यादौ का स्तुतिरित्यत आह 'गुणवत्तये'ति, उत्कर्षवत्तयेत्यर्थः / तेनाधार्मिकत्वास्पृश्यसंयोगित्वादेव्युदासः / उत्कर्षत्वञ्च शक्तिविशेषसम्बन्धेनोत्कर्षपदवत्त्वम् , अतो नाननुगमः। 'ज्ञापन' ज्ञानानुकूलः शब्दः, तेन २व्यापारान्तरे तादृशि 'नातिप्रसङ्गः। न च तथापि उत्कर्षस्य जातिविशेषरूपतया त्वं दयाशीलः, त्वं दाता, पुत्री त्वमेवेत्यादा वव्याप्तिरिति वाच्यं, दयादिष्वप्युत्कर्षव्यवहारेण तेषामप्युत्कर्षपदवाच्यत्वात्। न च तथापि तादृशि स्वरूपाख्यानेऽतिव्याप्तिः, तस्यापि स्तुतित्वे 'भवतां स्वरूपं कथयामः, न तु स्तम' इति सकलप्रामाणिकव्यवहारासङ्गतेरिति वाच्यं, ज्ञानपदेन भ्रमरूपज्ञानस्य विवक्षितत्वात् / अत एवारोप्यगुणकथनं स्तुतिरिति प्रामाणिकाः, 'भगवत्स्तुत्यादिषु तत्प्रयोगो भाक्तः। नव्यास्तु ज्ञानविशेषोपधायकः शब्दः स्तुतिः, ज्ञाननिष्ठो विशेषश्च शाब्दत्वव्याप्यो जातिविशेषः। उपधायकत्वञ्च ज्ञानविशेषशब्दयोः संसर्गमर्यादया प्रविष्टम् , अतोनाननुगमो दोषाय। न च स्तुतिनिन्दार्थोभयविषयकसमहालम्बनज्ञाने साङ्कापत्तिः, विनिगमनाविरहेण निन्दापदशक्यतावच्छेदकस्यापि जातित्वस्य दुर्वारत्वादिति वाच्यं, तदुभयजातेः समूहालम्बनज्ञानव्यावृत्तत्वाभ्युगमात् , समूहालम्बनमात्रजनक स्तुत्यादौ च मानाभावात् , तत्सत्त्वे च तत्र स्तुतिव्यवहारस्य भाक्तत्वादित्याहुः / / . 'यमुद्दिश्य'ति यदवधिकेत्यर्थः। तथा च स्वापकर्षबोधजनकतावच्छेदकजातिमत्त्वमेव लक्षणम् / को व्यापारः, कस्य नमस्कार इत्याकाङ्ख्यां यमुद्दिश्ये ति स्वत्वघटित 1. तेनाधार्मिकस्त्वमस्पृश्यसंयोगी त्वमित्यादेय॒दासः इति ख० / 2. निम्नासनाद्युपवेशनादिरूपे व्यापार इत्यर्थः / 3. उत्कर्षवत्तया ज्ञापक इत्यर्थः। 4. न स्तुतिव्यवहारप्रसङ्ग इत्यर्थः / इत्यादिवाक्येष्वित्यर्थः / दयाशीलत्वादे तिरूपत्वाभावादव्याप्तिरिति भावः। 7. उत्कर्षो न जाति:, किन्तुत्कर्षपदवाच्यो यो यः, स सर्व एवोत्कर्षः। दयादिरप्युत्कर्षपदेन व्यवह्रियमाणतयोत्कर्षपदवाच्यत्वादुत्कर्ष एवेति नोक्तवाक्येष्वव्याप्तिरित्यभिप्रायः / भगवद्गुणवर्णनपरकवाक्येष्वित्यर्थः . स्तुतिपदप्रयोग इत्यर्थः। 10. ज्ञानविशेषोपधायकत्वं तत्तज्ज्ञानविशेषोपधायकत्वमेव वाच्यम्, सामान्यतो ज्ञानविशेषो पधायकस्य ज्ञानविशेषप्रागभावाधिकरणकालप्रागभावानधिकरण, ज्ञानविशेषप्रागभावा

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88