Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ 67 प्रत्यक्षखण्डे मङ्गलवादः 'अथ' शब्दो विघ्ननिवर्तकत्वान्मङ्गलमेव, ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा / कण्ठं भित्त्वा तु निर्यातौ तेन माङ्गलिकावुभौ // इति स्मृतेः। न च शुभसूचकत्वमेव तस्य, शास्त्रारम्भे महर्षिणा तदनुपादानप्रसङ्गात् / इत्यस्य पापानुत्पादपरत्वं, मङ्गलानुरोधाच्च विघ्ननाशपरत्वमित्युपगमे च वाक्यभेद इति वाच्यं, तथापि पापसंसर्गाभावत्वसामानाधिकरण्येन 'सर्वेषां जन्यतान्वय सम्भवात् / कार्यतावच्छेदककल्पना च यथायोग्यमौ त्तरकालिकीत्यत आह 'अन्यथेति / ननु तथापि 'अथ' शब्देऽतिव्यातिः / ग्रन्थारम्भप्राक्काले तदुच्चारणस्यापि शिष्टैः करणादित्यत्रेष्टापत्तिमाह 'अथ' शब्द इति / / 'पुरा'सृष्ट्यारम्भकाले, 'कण्ठं भित्त्वा' 'कण्ठ्यवर्णघटितत्वात् कण्ठाभिहतवायुना, 'विनिर्यातौ 6 'तेन' तादृशविघ्नोपशमनकामशिष्टाचारविषयत्वेन, 'माङ्गलिको' मङ्गलस्वरूपौ / स्वार्थे इकणप्रत्ययात् / एवञ्च ग्रन्थस्त द्वहिर्भावेण, ग्रन्थस्य तद्घटितत्वे 'प्राक्काले अनुष्ठानविषयत्वासम्भवादिति बोध्यम् / ननु यथा यात्रापूर्वकालेऽपि शुभसूचकतया आदर्शदर्शनादि क्रियते, तथैव 'अथ' शब्दोऽपि शुभसूचकः स्यादित्याशक्य निराकरोति 'न चेति / 'शास्त्रारम्मे' शास्त्रारम्भसमय एव, तथा चादर्शदर्शनादिवदन्य दापि "तदनुष्ठानापत्तिरिति भावः। 1. आदर्शदर्शनजपहोमानामित्यर्थः। 2. पापध्वंसरूपे पापसंसर्गाभावे आदर्शदर्शनजपयोर्जन्यतायाः पापप्रागभावरूपे पापसंसर्गा भावे च होमस्य जन्यताया अन्वयसम्भवादिति भावः / पापध्वंसत्वमादर्शदर्शनादेः पापप्रागभावत्वं च होमस्य कार्यतावच्छेदकमिति कल्पनेत्यर्थः / 'मङ्गलाचारयुक्तानाम्' इत्यादिवचनात् पापसंसर्गाभावत्वसामानाधिकरण्येनादर्श दर्शनादिजन्यताबोधानन्तरकालिकीत्यर्थः / 5. अथशब्द ओंशब्दश्चाकारात्मकेन कण्ठयवर्णेन घटितो, अतस्तदुच्चारणरूपं तद्विनिर्यातं कण्ठाभिहतवायुसाध्यमित्याशयः / 'विनिर्जातो 'जातौ' इति क०, ख०, ग०, च०। अथ शब्दबहिर्भावणेत्यर्थः, अथशब्दो ग्रन्थघटको न भवतीति भावः / 8. अथशब्दघटितग्रन्थप्राक्काल इत्यर्थः / ध्येयमिति क.। 10. कार्यान्तरारम्भकालेऽपीत्यर्थः / 11. अथ शब्दोच्चारणापत्तिरित्यर्थः /

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88