Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः निर्विघ्नं समाप्यतामिति कामनया शिष्टाचारविषयत्वं, वेदस्याचारानुपजीवकत्वात् , वेदादाद्याचारानुपपत्तेश्व, अन्योन्याश्रयात् / ___नापि तत्कामनया वेदविहितत्वं, प्रारिप्सितकर्मनिर्वाहकत्वे सति कर्मारम्भकाले विहितवैदिककर्मत्वं वा तादृशवेदान्तराभावात् / नापि स्मृत्यादौ मङ्गलत्वेनोत्कीर्त्तितत्त्वं, वेदस्य स्मृत्यनुपजीवकत्वात् स्मृतिकर्तुरेव वेदादाद्याचारानुपपत्तेश्च / जनकत्वस्य वेदमात्रवेद्यत्वादिति भावः। 'शिष्टाचारे'ति भ्रमाजन्याचारेत्यर्थः / तेन भ्रमात् तादृशकामनया प्रवृत्तिविषये नातिप्रसङ्ग इति भावः। आचारादुपजीवकत्वादिति, आचारविषयकज्ञानाधीनशाब्दबोधाजनकत्वादित्यर्थः। नन्विदमप्रयोजकमित्यत आह 'वेदादि'ति / 'आद्याचारे'ति, पुरुषान्तराचारविषयत्वस्य स्वीयकालान्तरीयाचारविषयत्वस्य वा ज्ञानं विना प्रवृत्त्यनुपपत्तेश्वेत्यर्थः / अनुपपत्तौ हेतमाह 'अन्योन्याश्रयादि'ति, वेदात् स्वस्याचारे जाते तद्विषयत्वप्रकारकशक्तिग्रहाद् वेदाच्छाब्दधीर्वेदाच्छाब्दबोधे एव च स्वस्याचार इत्यन्योन्याश्रयप्रसङ्गादित्यर्थः / / यद्यपि पदान्तरशक्तिग्रहवत् प्रथममीश्वराचारदर्शनादेव शक्तिग्रहः सम्भवत्येव, तथापि यद्धर्मावच्छेदेन भगवदाचारदर्शनं तेनैव रूपेण शक्तिग्रहः स्यात् , स च नतित्वादिरेव, न त्वाचारविषयत्वमिति भावः। 'तत्कामनया' तत्कामनाप्रकारेण, तत्कामिकर्तव्यत्वप्रकारेणेति यावत् / तेन कामनाया विधिजन्यशाब्दबोधाजनकत्वेऽपि न क्षतिः। 'प्रारिप्सिते'ति, आरम्भणीयादावतिव्याप्तिवारणाय सत्यन्तं प्रारब्धकर्मसमाप्तिप्रयोजकत्वे सतीत्यर्थः / मङ्गलस्य समाप्त्यजनकतया जनकत्वमपहाय प्रयोजकत्वप्रवेशः / प्रयोजकत्वञ्च कारणतत्कारणसाधारणम् / अत एवादृष्टद्वारा समाप्तिप्रयोजककर्मान्तरेऽतिव्याप्तिवारणाय विहितान्तं कर्मपूर्वकालकर्त्तव्यतया विहितत्वार्थकम् , असम्भववारणाय पूर्वत्वप्रवेशः। वैदिकपदं विहितान्तेन तादृशकालकर्त्तव्यतया वेदविहितत्वलाभाय, अन्यथा कल्पितव्रतादिप्राक्कालकर्तव्यत्वेन लौकिककल्पितविधिविषयेऽदृष्टद्वारा तत्समाप्तिजनके होमादावतिव्याप्त्यापत्तेः। 'तादृशवेदान्तराभावादि'ति / इदमुपलक्षणं द्वितीयेऽदृष्टद्वारा प्रारब्धकर्मसमाप्तिप्रयोजके आरम्भणीयादावतिव्याप्तः, विघ्नध्वंसस्य समाप्त्यजनकतया मङ्गलस्य प्रारब्धकर्मसमाप्ति प्रति प्रयोजकत्वस्याप्यभावेनासम्भवापत्तश्चेत्यपि बोध्यम् /

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88