Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 74
________________ 63 प्रत्यक्षखण्डे मङ्गलवादः त्यन्ताभावात् प्रमत्तनास्तिकानुष्ठितसमाप्तिः। न चानध्यवसायः, शङ्कितविघ्नवारणार्थं प्रवृत्तिः अतो यावद्विघ्नशकं तदाचारात् / अत एव तच्छङ्कया मध्येऽपि तदाचरन्ति / ..गुर्वारम्भेऽपि बहुविघ्नशङ्कया बहुमङ्गलाचरणम् / यथा च विघ्नसंशयेऽपि प्रवृत्तिस्तथोक्त मेव / मङ्गलाधीनः, 'अत एवेति यत एव स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन शरीरनिष्ठतया विघ्नध्वंसो न हेतुः, अपि तु विघ्नात्यन्ताभाव एव हेतुरत एवेत्यर्थः / 'मङ्गलं विनापि' ऐहिकमङ्गलं विनापि। न चैवं विघ्नध्वंसे कथं कामना, सुखत्वदुःखाभावत्वप्रकारकेच्छां प्रति दुःखाभावत्वेष्टसाधनत्वप्रकारकज्ञानवद् यत्र द्वेषः, तदभावत्वप्रकारकज्ञानस्यापि पृथगिच्छाहेततया विघ्ने द्वेषसत्त्वेन विघ्नाभावत्वप्रकारकज्ञानादेव विघ्नध्वंसे कामनोत्पत्तेः / अन्यथा प्रायश्चित्तादिजन्यपापनाशेऽपि कामनानुपपत्तेः। न च विघ्ने द्वेष एव कथं स्यात् ? सुखाभावत्वदुःखत्वप्रकारकद्वेषं प्रति तत्प्रकारकज्ञानस्य, तदन्यद्वेषश्च प्रत्यनिष्टसाधनताज्ञानस्य हेतुत्वादिति वाच्यं, यद्धर्मावच्छिन्नाभावे इच्छा, तद्धर्मप्रकारकज्ञानस्यापि पृथग् द्वेषहेतुतया समाप्तिरूपेष्टसाधनतया इच्छासत्त्वेन विघ्नत्वप्रकारकज्ञानादेव द्वेषोत्पत्तेः। अन्यथा दाहार्थिनस्तत्प्रतिबन्धके मणौ 'द्वेषानुपपत्तेः। अत एव च समाप्तिकामनापि परम्परया मङ्गलाचारप्रयोजिकेति भावः / / 'न चानध्यवसाय' इति, कियन्ति मङ्गलानि कर्त्तव्यानि, कीदृशं वा मङ्गलं कर्तव्यमित्यत्र नियामकाभाव इत्यर्थः / थावद्विघ्नशङ्क' यावज्जातीयविनशङ्क, 'तदाचारात्' तज्जातीयमङ्गलाचारात् / 'अत एवेति यतः, शङ्कितविघ्नवारणार्थ मङ्गलकरणम् , अत एवेत्यर्थः / 'तच्छङ्कया' परकाले यत्कर्त्तव्यं तत्प्रतिबन्धकीभूतविघ्नान्तरोत्पत्तिशङ्कया, 'मध्येऽपी'ति आरब्धकर्ममध्यकालेऽपीत्यर्थः। न चारब्धकमेचिकीर्षाकालस्याङ्गतया कथं तदा तदनुष्ठानात् शङ्कितविघ्ननाश इति वाच्यं, तत्र परकालकर्त्तव्यभागस्यैवारब्धकर्मतया तच्चिकीर्षाकालस्यैवाङ्गत्वादिति भावः।। ननु समाप्तौ चेन्मङ्गलं न हेतः, तदा गुरुतरकारम्भे बहुतरमङ्गलाचरणं न स्याद् / अस्मन्नये त गुरुतरकर्मसमाप्तौ बहुतरमङ्गलस्य हेतत्वात् तदनुष्ठानमित्यत आह 'गुर्वारम्भेऽपी'ति / 'बहुविघ्नशङ्कया' बहुविघ्नशङ्कयैव, न तु गुरुकर्मसमाप्तौ बहुतरमङ्गलस्य हेतुतयेत्यर्थः। 'तथोक्तमिति तादृशाचारानुमितश्रुत्या तथैव बोधनादिति भावः।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88