Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणौ सरहस्ये स्यादेतत् , मङ्गलमाचरेदिति विधौ किं मङ्गलत्वं, न तावदेवतास्तुत्यादित्वम् , अननुगमात् / नापि प्रारिप्सितप्रतिबन्धकबिघ्नोपशमहेतुक्रियात्वं विघ्नोत्सारणासाधारणकारणत्वं वा, क्रियाविशेषस्य तदसाधारणकारणस्य वा स्तुत्यादेर्वेदाद्विशिष्टापरिचये प्रवृत्तिविषयालाभात् / नापि _ 'इति विधाविति इतिविधिप्रतिपाद्यं मङ्गलत्वं किमित्यर्थः। 'अननुगमादिति आदित्वस्य चानुगतस्यैकस्य दुर्वचत्वादिति भावः / 'नापी'त्यादि / 'विघ्नः' दुरितम् , अन्यथा प्रारिप्सितसमाप्तिप्रतिबन्धकस्यैव विघ्नपदार्थतया प्रतिबन्धकान्तवैयर्थ्यापातात् / अत्र प्रायश्चित्तेऽतिव्याप्तिवारणाय प्रतिबन्धकान्तम् / कारी- शौचादिहेतुक्रियायाञ्चातिप्रसङ्गवारणाय 'प्रारिप्सिते'ति प्रारब्धसमाप्तीत्यर्थः। तादृशि दुरिते प्रतियोगितया स्वनाशजनकेऽतिव्याप्तिवारणाय 'क्रियेति / 'क्रियात्त्वं' प्रवृत्तिविषयत्वं, प्रवृत्तित्वञ्च चिकीर्षाजन्यतावच्छेदको जातिविशेषः / एतच्च विनायकस्तवपाठेऽतिप्रसक्तं गणेशस्तवस्य मङ्गलत्वेऽपि तदनुकूलकण्ठाभिघाताद्यात्मकस्य तत्पाठस्यामङ्गलत्वात् / न च पाठकतासम्बन्धेन विनायकस्तवएव तन्नाशकः; न तु निरुक्ततत्पाठः स्तवश्च मङ्गलमेवेति वाच्यं; 'सर्व विघ्नाः शमं यान्ति' इति श्रुत्या तत्पाठस्यापि विघ्ननाशकत्वबोधनादित्यतो लक्षणान्तरमाह 'विघ्ने'ति विनध्वंसासाधारणकारणत्वमित्यर्थः। 'विघ्नः' मङ्गलनाश्यतावच्छेदकवैजात्याश्रयो दुरितं, तेन विनायकस्तवपाठे प्रायश्चित्ते कारीर्य्यादौ च नातिब्याप्तिः, तेषाञ्च शक्तिविशेषसम्बन्धेन विघ्नपदवत्त्वेनानुगमान्नाननुगमः / प्रतियोगिविधया कारणतामादाय विघ्नेऽतिव्याप्तिवारणाय 'असाधारणे'ति / असाधारणकारणत्वं च विघ्ननाशमात्रवृत्तिध्वंसत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं विघ्नेऽतिव्याप्तिवारणाय वृत्त्यन्तं कार्यताविशेषणम्। ध्वंसं प्रति च सामान्यतः सत्त्वेनैव हेतुत्वान्नोक्तातिव्याप्तिः। ध्वंसप्रतियोगिनोस्तत्तद्व्यक्तित्वेनापि हेतु-हेतुमद्भावे तादृशकारणतामादायातिव्याप्तिवारणाय ध्वंसत्वावच्छिन्नेति, ध्वंसत्वावच्छिन्नत्वञ्च न ध्वंसत्वपर्याप्तावच्छेदकताकत्वं, किन्तु तवृत्त्यवच्छेदकताकत्वमात्रं, तेन नासम्भव इति भावः। निरुक्तधर्मप्रकारेणैव विधिना बोधने अन्योन्याश्रयमाह ‘क्रियाविशेषस्येत्यादि / 'विशिष्टापरिचये' निरुक्तधर्मप्रकारेण पूर्व ज्ञानं विना 'प्रवृत्तिविषयालाभाद'ति निरुक्तधर्मप्रकारेण प्रथमं विशेषतो ज्ञानासम्भवादित्यर्थः। स्तुत्यादेविघ्नध्वंस१. विशिष्यापरिचये इति ख०। 2. कार्यताप्रतियोगिककारणताश्रयत्वमिति क०। अत्रापि प्रतियोगिकत्वं निरूपितत्वमेव, न त्वन्यदिति /

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88