Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ 63 तत्त्वचिन्तामणौ सरहस्ये नियतमनुष्ठानं न स्यादिति वाच्यम् ; आरब्धकर्मकारणप्रतिबन्धकामावोपायत्वेनावश्यं तदनुष्ठानात् / तेन विना प्रतिबन्धकाभावेऽसति कर्मानत्पत्तेः / न च प्रधानत्वे नान्यदापि तत्करणं, नियतसमयशिष्टाचारानुमितश्रुत्या कारम्भसमये तत्कर्त्तव्यत्ववोधनात् , दर्शारम्भसमये आरम्भणीयावत् / विघ्नसंसर्गाभावश्च समाप्तिहेतुः / स च क्वचित् स्वतःसिद्धः, क्वचिन्मङ्गलसाध्यः। अत एव मङ्गलं विनापि जन्मान्तरानुवर्तमानविघ्नाविघ्नध्वंसकामनाधीनप्रवृत्तिविषयत्वे, 'नियतमनुष्ठानं न स्यादिति, यस्य विघ्नज्ञानं नास्ति तस्यानुष्ठानं न स्यादित्यर्थः। अत्रेष्टापत्तिमाह 'आरब्धकर्मकारणे'ति, आरब्धकर्मसमाप्तिकारणेत्यर्थः / 'प्रतिबन्धकामावोगायत्वेन' तत्प्रतिबन्धकध्वंसोपायत्वज्ञानेन, 'अवश्यं तदनुष्ठानादिति, विघ्नज्ञानवतैवावश्यं तदनुष्ठानादित्यर्थः। ननु मङ्गलस्य समाप्तावजनकत्वे यत्र मङ्गलं न कृतं, तत्र विघ्नध्वंसो मास्त, समाप्तिस्त स्यादेवत्यत आह 'तेन विने'ति / 'प्रतिबन्धकाभावाभावे' प्रतिबन्धकीभूतविघ्नसत्त्वे, 'प्रतिबन्धकाभावे असतीति पाठेऽप्ययमेवार्थः। 'कर्मानुत्पत्तेः' कर्मासमाप्तेः / 'न चेति / 'प्रधानत्वे' विघ्नध्वंसमात्रजनकत्वे, समाप्त्यजनकत्व इति यावत् / 'अन्यदापि' कर्तव्यकर्मचिकोर्षाकालातिरिक्तकालेऽपि, तत्करणमिति फलजनकं स्यादिति शेषः। 'नियतसमये'ति तादृशचिकीर्षाकालनियतेत्यर्थः, 'कर्भारम्भसमये'ति, कर्त्तव्यकर्मचिकीर्षाकाल इत्यर्थः, 'दर्शारम्भसमये' दर्शचिकीर्षासमये / तथा च मङ्गलेन विघ्नध्वंसजनने कर्त्तव्यकर्मप्रतिबन्धकीभूतविघ्नध्वंसगोचरेच्छादिजननक्रमेण मङ्गलजननद्वारा कर्त्तव्यकर्मचिकीर्षाप्यङ्गम् , अन्यथा समाप्तेः फलत्वेऽपि भ्रान्त्या फलान्तरकामनया अन्यदा कृतान्मङ्गलाद् विघ्नध्वंसोत्पत्तेदुर्वारत्वादिति भावः / ननु भवन्मते मङ्गलस्य विघ्नध्वंसद्वारा समाप्त्यजनकत्वेऽपि तज्जन्यविघ्नध्वंसस्य प्रतिबन्धकाभावतया समाप्तिकारणत्वमस्त्येव / तस्य कारणत्वश्च किं स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन फलोभूतसमाप्तिकर्तृशरीरनिष्ठतया, विशेषणताविशेषसम्बन्धेन तादृशात्मनिष्ठतया वा? आद्य नास्तिकादिशरीरकर्तृकसमाप्तौ व्यभिचारः / अन्त्ये जनकत्वमपेक्ष्य कारणतत्कारणसाधारणप्रयोजकत्वस्य लघुतया तादृशतत्प्रयोजकताज्ञानस्यैव तदुद्देश्यकप्रवृत्तौ हेतुत्वनये जन्मान्तरीयग्रन्थसमाप्तिमुहिश्यापि मङ्गले शिष्टप्रवृत्त्यापत्तिरित्यत आह 'विघ्नसंसर्गाभावश्चेति / समवायसंसर्गावच्छिन्नतत्तद्विजातीयविघ्नसामान्याभावकूटश्चेत्यर्थः। तथा च मङ्गलवत् तज्जन्यविघ्नध्वंसोऽपि न समाप्तिहेतरित्यर्थः / 'स्वतःसिद्धः' विघ्नकारणाभावप्रयुक्तः, 'क्वचिदिति, यत्र मङ्गलेन विघ्ननाशे सति समाप्तिस्तत्रेत्यर्थः / मङ्गलसाध्यः' न

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88