Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 71
________________ तत्त्वचिन्तामणौ सरहस्ये समाप्तिस्तु विघ्नरूपप्रतिबन्धकाभावे सति लोकावगतस्वकारणादेव / सकलविघ्ननाशापत्तिरिति वाच्यम् , इष्टत्वात् / एकजातीयनानामङ्गलाचरणं तु पूर्वमङ्गलस्याङ्गवैगुण्यशङ्कया। किञ्च, समाप्तौ मङ्गलस्य हेतत्वेऽपि विघ्नध्वंसं प्रति हेतुत्वमावश्यकम् / तथा चावश्यकत्वात् तदेवास्तु, किं 'समाप्तिहेतुत्वेन / न च व्यापारेण व्यापारिणो नान्यथासिद्धिरिति वाच्यं, विघ्नस्य प्रतिबन्धकतया तदत्यन्ताभावस्यैव समाप्ति हेतुत्वेन विघ्नध्वंसे व्यापारत्वस्यैवासिद्धेः / विघ्नध्वंसस्यापि समाप्तौ पृथक कारणत्वकल्पने च महागौरवापत्तेः। समाप्तौ विघ्नध्वंसतत्सामान्यात्यन्ताभावमङ्गलानां त्रयाणां कारणत्वस्य विघ्नध्वंसं प्रति मङ्गलकारणत्वस्य च कल्पनीयत्वादित्यपि बोध्यम् / केचित्तु 'भयतो व्यभिचारात्' इत्यस्य अन्वयतो व्यतिरेकतश्च मङ्गलस्य समाप्तिं प्रति व्यभिचारित्वादित्यर्थ इत्याहुः।। नन्वेवं समाप्तिः किंहेतुका स्यादित्यत आह 'समाप्तिस्त्विति / अत्राचार्यानुयायिनो विघ्नध्वंस इव समाप्तिम जायतामिति समाप्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्तेर्विघ्नध्वंसवत् समाप्तिरपि मङ्गलफलम् / न च समाप्ति मुद्दिश्य मङ्गलाचरणमेवासिद्धमिति वाच्यम् , असङ्खथसंसारे मणिकृन्मतेऽ प्यवश्यं केनचित् तामुद्दिश्य मङ्गलानुष्ठानात् / न च तामुद्दिश्य मङ्गलाचरणं मङ्गले समाप्तिसाधनताभ्रमजन्यं, लाघवात् तथैव कल्पनादिति वाच्यम् / तर्हि विघ्नध्वंसमुद्दिश्य मङ्गलाचरणमपि भ्रमजन्यं लाघवादिति निष्फलमेव मङ्गलाचरणमिति जितं चार्वाकैः / यदि च तदाचारस्य भ्रमाजन्यत्वं तज्जनकविघ्नध्वंसजनकताज्ञानस्य भ्रमेतरत्वश्चानुभवसिद्धमिति गौरवं प्रामाणिकं, तदा प्रकृतेऽपि तुल्यम् / न च मङ्गलं न साक्षात् समाप्तिहेतुः, अस्थिरत्वात् , न वा विघ्नध्वंसद्वारा, विघ्नात्यन्ताभावस्यैव समाप्तिहेतुत्वात् / अत्यन्ताभावस्तु न द्वारम् , अजन्यत्वादित्यनायत्या विघ्नध्वंसजनकत्वमेव तस्येति वाच्यं, समाप्तिहेततायां प्रमाणसिद्धायामनायत्या अपूर्वस्यैव द्वारत्वकल्पनाद् विघ्नध्वंससम्बन्धेनैव साक्षाद्धेतुत्वस्यापि सुवचत्वाच्च / अन्वयव्यभिचारस्य चानुपदं ग्रन्थकृतैव निराकरिष्यमाणत्वात्। न चैवं जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्तिप्रसङ्ग इति वाच्यम्, इष्टत्वात् / असञ्जयसंसारे मणिकृन्मतेऽप्यवश्यं जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्य केनचिन्मङ्गलाचरणातू, तस्य च भ्रमजन्यत्वे मानाभावात् / 1. समाप्ति प्रति मङ्गलमन्यथासिद्धं, तज्जन्याद् विघ्नध्वंसादेव तदुत्पत्तिसम्भवादिति भावः /

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88