Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः यदि च निर्विघ्नं समाप्यतामिति कामनया तदाचरणं, तदापि नागृहीतविशेषणान्यायेनाहं 'स्वर्गी स्याम्' इत्यत्र स्वर्ग इव विघ्नाभाव एव फलं, न समाप्तिः, उभयतो व्यभिचारात् / नन्वेवं निर्विघ्नं समाप्यतामित्युद्दिश्यापि मङ्गले शिष्टप्रवृत्तेः समाप्तेरपि फलत्वमावश्यकं, तदुद्देश्यकप्रवृत्तौ तत्साधनताज्ञानस्य हेतुत्वादित्यत आह 'यदि चेति। 'इति कामनया' इत्युद्दिश्य, 'तदाचरणं' तत्र शिष्टप्रवृत्तिः, 'नागृहीतविशेषणान्यायेन' नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायत इति न्यायेन / भवन्मतेऽपि विघ्नध्वंसस्य तत्रोद्देश्यतावश्यकतयेति शेषः। 'इत्यत्र' इत्याकारकोद्देश्यताशालियागादिगोचरप्रवृत्ती, 'स्वर्ग इव' स्ववृत्तित्वोपलक्षितस्वर्ग इव, 'विघ्नाभाव एव फलम्' समाप्त्यव्यवहितपूर्ववर्तित्वोपलक्षितविघ्नध्वंस एव तादृशप्रवृत्तावुद्देश्यः, उभयतो व्यभिचारादिति शरीरनिष्ठसम्बन्धेनात्मनिष्ठसम्बन्धेन च मङ्गलस्य समाप्तिं प्रति व्यतिरेकव्यभिचारादित्यर्थः। मङ्गलस्याशुविनाशितया चिरकालानन्तरभाविसमाप्त्यव्यवहितपूर्व तदनवस्थानात् / न च विघ्नध्वंसद्वारा तस्य हेतृत्वान्न व्यभिचार इति वाच्यं, तथा सति जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यापि तत्र शिष्टप्रवृत्तिप्रसङ्ग इत्युक्तत्वात् / न च तज्जन्यविन्नध्वंसस्य स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन शरीरनिष्ठतया हेतुत्वान्नायमतिप्रसङ्ग इति वाच्यं, तर्हि तज्जन्यविघ्नध्वंसस्य प्रमत्तानुष्ठितसमाप्तावेव व्यभिचाराद् विघ्नस्थलीयत्वस्योक्तक्रमेण कार्यतावच्छेदकत्वासम्भवादिति भावः। एतच्चोपलक्षणं, समाप्तित्वस्य विघ्नध्वंसत्वापेक्षया गुरुत्वाद् अनुगतस्य तस्य दुर्वचत्वाच्च / विघ्नध्वंसत्वं तु विजातीयादृष्टध्वंसत्वमेव, वैजात्यश्च प्रायश्चित्तादिनाश्यादृष्टव्यावृत्तो नत्यादिनाश्यतावच्छेदकतया सिद्धोऽदृष्टनिष्ठो जातिविशेषः / 'नत्यादिभेदेन कार्यकारणभावभेदस्त्विष्यत एव / अत एव नानाविधमङ्गलाचरणं नानाविधविघ्नशङ्कया। न चैवमेकनमस्कारादित एव तत्पूर्वोत्पन्नतन्नाश्यजातीय१. अवच्छेदकतासम्बन्धेनेत्यर्थः / 2. समवायसम्बन्धेनेत्यर्थः / 3. मङ्गलस्य समाप्ति प्रति व्यतिरेकव्यभिचारं स्पष्टयति 'मङ्गलस्याशुविनाशितया' इत्यादिना। 4. विभिन्नजातीयविघ्नात्मकादृष्टनाशे नत्यादिरूपं विभिन्नजातीयं मङ्गलं कारणं, न तु सामान्यतो विघ्नात्मका सामान्यनाशे मङ्गलसामान्यं हेतुः; नत्यादिनानाविधमङ्गलसाधारणस्यैकस्य मङ्गलत्वस्य, नत्यादिनाश्यनानाविधसाधारणस्यैकस्य विघ्नत्वस्य चाभावादित्यर्थः / .

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88