Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 72
________________ प्रत्यक्षखण्डे मङ्गलवादः प्रचिताप्रचितदेवतास्तुत्यादिसाङ्गमङ्गलात् प्रत्येकं विघ्नध्वंसो भवत्येव / अतो वैदिके फलनिश्चयान्मङ्गले प्रवृत्तिः / न च वेदाप्रामाण्यम् , समाप्त्यभावश्च क्वचित् प्राचीनविघ्नभूयस्त्वात् , क्वचिन्मङ्गलानन्तरोत्पन्नविघ्नात्, क्वचिल्लोकावगतकारणाभावात् / प्रारिप्सितविघ्नध्वंसश्च न मङ्गलं विना, न च प्रायश्चित्तेन शङ्कितविघ्नविनाशः, विघ्नसंशये तदनुपदेशात् / न च कामनोपाधिकर्त्तव्यत्वे न च तथापि समाप्तित्वस्यैकस्यानुगतस्याभावात् कार्यतावच्छेदकं दुर्वचमिति वाच्यम् , कारणत्वे प्रमाणसिद्धेऽनायत्या अननुगतस्यैव कार्यतावच्छेदकत्वात् / न चैवं विघ्नसत्त्वेऽपि समाप्त्युत्पादापत्तिः, अनादौ संसारेऽन्ततो जन्मान्तरो. त्पन्नविघ्नध्वंससम्बन्धेन मङ्गलसत्त्वादिति वाच्यं, विघ्नस्य प्रतिबन्धकतया तत्सामान्याभावस्यापि हेतुत्वात् , केवलमाचारानुरोधेनैव मङ्गलस्य हेतुत्वकल्पनादित्याहुः, तदसत् ; तथा सति यदुद्दिश्य यत् क्रियते तस्यैव तद्धेतुतया चैत्यवन्दनादेरपि स्वर्गादिहेतुत्वापत्तेः, तत्रापि तज्जनकीभूतज्ञानस्य भ्रमत्वमादाय विवादसम्भवादिति दिक् / ननु मङ्गले सति यत्र समाप्त्यनुदयस्तत्र कृतेऽपि साङ्गमङ्गले विघ्नध्वंसानुदयादन्वयव्यभिचार इत्यत आह 'प्रचिते'ति / 'प्रत्येकमि'ति स्तुतिनाश्यानां सर्वेषां स्तुतितो नाशः / नत्यादिनाश्यानां नत्यादितो नाशो भवत्येवेत्यर्थः / स्वतःसिद्धविघ्नासत्त्वस्थले च मङ्गलस्य साङ्गत्वमेव नास्ति, विघ्नस्याप्यङ्गत्वात् , मङ्गलकत्तुर्विघ्नासत्त्वे मानाभावाच्चेति भावः / 'अतः' इति / 'फलनिश्चयात्' सकलाङ्गसम्पत्तौ फलावश्यम्भावनिश्चयात् , 'वैदिके मङ्गले प्रवृत्तिरिति योजना / 'प्रवृत्तिः' निष्कम्पप्रवृत्तिः, 'प्राचीनविघ्नभूयस्त्वादिति प्राचीनानां विघ्नानां भूयोजातीयत्वादित्यर्थः / तथा च यन्मङ्गलं कृतं तदनाश्यजातीयसत्त्वादिति फलितम् / ननु यत्र सर्वजातीयान्येव मङ्गलानि कृतानि, तत्र समाप्त्यभावो न स्यादित्यत आह 'क्वचिन्मङ्गलानन्तरे'ति / पापोत्पादककारणानां यत्र बाधस्तत्राह 'क्वचिल्लोकावगते'ति / ननु तथापि यत्र प्रायश्चित्तादितो विघ्ननाशः, तत्र व्यतिरेकव्यभिचार इत्यत आह प्रारिप्सिते'ति / मङ्गलनाश्यजातीयविघ्ननाशश्चेत्यर्थः। ननु यथा विघ्नसंशयान्मङ्गलाचरणेऽपि फलम् , एवं ब्रह्मवधादिप्रायश्चित्तेऽपि स्यादित्यत आह, 'न चेति, न हीत्यर्थः / 'प्रायश्चित्तेन' ब्रह्मवधादिप्रायश्चित्तन, 'शङ्कितविघ्ननाशः' शङ्कितदुरितनाशः, "विघ्नसंशये' दुरितसंशये; 'कामनोपाधिकर्तव्यत्वे'

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88