Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 69
________________ अथ मङ्गलवादसिद्धान्तपक्षः सिद्धान्तस्त्वारब्धकर्मसमाप्तौ मङ्गलं नाङ्ग, न वा प्रधानम् , अहेतुत्वात् ; किन्तु प्रायश्चित्तवत् प्रधानं विघ्नध्वंसः फलम् / आरब्धकर्मनिर्वाहे विघ्नो मा भूदिति कामनया तदनुष्ठानाद् विघ्नसंशये निश्चये वा शिष्टानां तदाचरणाद् विघ्नामावस्याकासित्तत्वाच / अथ मङ्गलवादसिद्धान्तरहस्यम् 'आरब्धकर्मसमाप्ताविति आरब्धकर्मजन्यसमाप्तावित्यर्थः / 'नाङ्ग' नारब्धकर्मजन्यसमाप्तेरुपधायकं, 'न वा प्रधानमिति, न वा आरब्धकर्माजन्यारब्धकर्मोत्पत्तेरुपधायकमित्यर्थः / 'अहेतुत्वादिति मङ्गले तदुभयस्वरूपयोग्यत्वस्यैवाभावादित्यर्थः। 'प्रधानमिति आरब्धकर्माजन्यफलान्तरजनकमित्यर्थः। तदेव फलान्तरमाह 'विघ्नध्वंस' इति / नन तस्य मङ्गलफलत्वे किं मानमित्यत आह 'आरब्यकर्मनिर्वाहे' इति / 'निर्वाहः' समाप्तिः, प्रतिबन्धकत्वं सप्तम्यर्थः, अन्वयश्चास्य 'विघ्न' इत्यनेन / 'मा भूत्' मा वर्ततां, यथाश्रुते विघ्नप्रागभावस्यैवोद्देश्यत्वलाभात् / 'इति कामनया' इत्युद्दिश्य, 'तदनुष्ठानादिति तत्र शिष्ट प्रवृत्तेरित्यर्थः / तथा च 'मङ्गलं विघ्नध्वंसजनकं, विघ्नध्वंसोद्देश्यकशिष्टप्रवृत्तिविषयत्वादि'त्यनुमानमेव मानम् / शिष्टत्वं भ्रमाजन्यत्वम् / न चेदमप्रयोजक, तदुद्देश्यकप्रवृत्तौ तत्साधनताज्ञानस्य हेतुत्वादिति भावः / केचित्तु 'इति कामनये'ति यथाश्रुतमूलानुरोधात् 'मङ्गलं विघ्नध्वंसजनकं, विघ्नध्वंसकामनाजन्यशिष्टप्रवृत्तिविषयत्वादि'त्यनुमानं मानमित्याहुः, तदसत् ; विघ्नध्वंसस्वर्गोभयोद्देश्यकसमूहालम्बनफलकामनासहकृतस्वर्गसाधनतामात्रविषयकप्रमाजन्यप्रवृत्तिविषये यागादौ व्यभिचारापत्तेरिति ध्येयम् / हेत्वन्तरमाह 'विघ्नसंशयेति / तथा च मङ्गलं विघ्नध्वंसजनकम् , विघ्नाजनकत्वे सति विघ्नज्ञानवतामेव शिष्टप्रवृत्तिविषयत्वादित्यनुमेयमिति भावः। हेत्वन्तरमप्याह 'विघ्नाभावस्येति / 'आकाक्षितत्वात्' मङ्गलगोचरकामनायाः फलत्वेनोद्देश्यत्वात्। तथा च मङ्गलं विघ्नध्वंसजनकं, विघ्नध्वंसोद्देश्यकशिष्टकामनाविषयत्वादित्यनुमेयम् / शिष्टत्वं भ्रमाजन्यत्वम् / न चेदमप्रयोजक, तदुद्देश्यककामनां प्रति तत्साधनताज्ञानस्य हेतत्वादिति भावः।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88