Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणौ सरहस्ये प्रचितं तथेति चेत्, न; अप्रचितादपि फलसत्त्वात् / नोभयम् , अननुगमात् / गुरुकौरम्मे प्रचितमन्पकौरम्मेऽन्पमिति चेत् , न ; क्वचित् तादृशादपि फलासचात्, वैपरीत्येऽपि फलसत्त्वाच / ___ एतेन बहुविघ्नशङ्कया बहुतरम् , अल्पविघ्नशङ्कया अल्पतरश्च हेतुः तादृशाचारेण तादृशश्रुत्युन्नयनादिति निरस्तम् / तादृशादपि प्रारिप्सिता ___'प्रचितमिति बहुतरं तत्तजातीयमङ्गलमित्यर्थः / 'फलसत्त्वात्' फलोदयात् , प्रचितस्यैव हेतुत्वे ततः फलानुदयः स्यादिति भावः / अप्रचितात् फलानुदयप्रसङ्गमुद्धरति 'नोभयमि'ति / 'उभयं' प्रचितमप्रचितञ्च, 'अननुगमादि'ति, यत्र सर्वजातीयेषु एकैकमङ्गलेषु कृतेष्वपि न समाप्तिस्तत्स्थलीयाप्रचितनमस्कारादिव्यावृत्तस्य प्रचितमङ्गलनिष्ठानुगतकारणतावच्छेदकस्याभावादित्यर्थः / तथा च तत्र कार्योत्पत्तितादवस्थ्यमिति भावः। इदमुपलक्षणं, यत्राप्रचितात् समाप्तिः, तत्र प्रचितस्य व्यतिरेकव्यभिचार इत्यपि बोध्यम् / गुरुकर्मारम्भे' गुरुतरारब्धकर्मसमाप्तौ, प्रचितं' बहुतरं, नमस्कारादिकमित्यर्थः। 'अल्पकर्मारम्भे' अल्पतरारब्धकर्मसमाप्तौ, 'अल्पं' 'नमस्कारत्रयाभावविशिष्टनमस्कारादिकम् / 'ताहशादपो ति यत्र सर्वजातीयान्येव त्रीणि त्रीणि मङ्गलानि कृतानि, तत्रापि गुरुकर्मासमाप्तः, यत्र सर्वजातीयान्येवैकैकमङ्गलानि कृतानि, तत्राप्यल्पतरकर्मासर्माप्तश्चेत्यर्थः / 'वपरीत्येऽपी'ति प्रचितादप्यल्पतरकर्मसमाप्तेरप्रचितादपि "गुरुतरकर्मसमाप्तेश्चेत्यर्थः। __'बहुविघ्ने'ति 'शङ्कितबहुतरविघ्नसमाप्तौ बहुतरं, शङ्किताल्पतरविघ्नसमाप्तौ अल्पतरं मङ्गलं हेतरित्यर्थः। 'ताहशश्रुती ति अल्पविघ्नज्ञानवान् अल्पमङ्गलं, बहुतरविघ्नज्ञानवान् बहुतरमङ्गलमाचरेदित्याकारकश्रतीत्यर्थः / 'ताहशादपी ति बहुतरमङ्गले कृतेऽपि शङ्कितबहुतरविघ्नसमाप्तेरनुदयाद् अल्पतरमङ्गले कृतेऽपि 1. फलनिष्पादादिति ख०। 2. तादृशश्रुत्यनुमानादितीति क० / / 3. एकजातीयमङ्गलचतुष्टयनाश्यविघ्नचतुष्टयस्थले एकजातीयमङ्ग लत्रयसत्त्वेऽपि गुरुतर कर्मणः समाप्तिर्न भवति, एवमेकजातीयमङ्गलद्वयनाश्यविघ्नद्वयस्थले नानाजातीयैकैक मङ्गलसत्त्वेऽप्यल्पतरकर्मणः समाप्तिनं भवतीत्यर्थः। 4. गुरुतरेत्यादिपूर्व 'विघ्नाल्पत्वे' इति योज्यम् / 5. शङ्कितो बहुतरो विघ्नः स्वस्मिन् येन पुंसा तदारब्धकर्मसमाप्तावित्यर्थः / . 6. एकजातीयमङ्गलये कृतेऽपि विघ्न चतुष्टयादिस्थले शङ्कितबहुतरविघ्नसमाप्तिन . भवतीत्यर्थः।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88