Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 65
________________ 54 सत्त्वचिन्तामणौ सरहस्ये स्यापि व्यापारत्वापत्तेः। स्वतःसिद्धस्य तस्य न हेतुत्वं यदि, तदा प्रागभावेऽपि तुल्यम् / किञ्च, यत्र मङ्गलं न, तत्र नियमेन विघ्नकारणमस्ति, येन तन्नाशद्वारा प्रागभावस्य साध्यत्वम् / एवमपि यत्र विघ्नानुत्पादोऽपि स्वतःसिद्धः, तत्र मङ्गलमकिश्चित्करमेव / विघ्नध्वंसानुत्पादयोरारब्धनिर्वाहकालावस्थायिनोमङ्गलादेवोत्पत्तेर्न 'अत्यन्ताभावस्यापी'ति, तत्रापि विघ्नसंसर्गाभावत्वसत्त्वादिति भावः / ‘स्वतःसिद्धस्ये'ति नित्यस्येत्यर्थः, 'तस्य' विघ्नात्यन्ताभावस्य, 'हेतुत्वं' समाप्तिहेतुत्वमेव, न तु यथोक्तमङ्गलजन्यत्वम् / अतो म व्यापारत्वमिति शेषः। 'प्रयभावेऽपि तुल्यमिति विघ्नप्रागभावस्यापि समाप्तिहेतुत्वमेव, न तु यथोक्तमङ्गलजन्यत्वम् / तत्र मङ्गलस्यानन्यथासिद्धत्वे मानाभावात् / यथोक्तजन्यतायामप्यनन्यथासिद्धत्वप्रवेशस्यावश्यकत्वादित्यर्थः / ननु यथा प्रत्यवायानुत्पादमुद्दिश्य सन्ध्यावन्दनादौ शिष्टप्रवृत्तेः प्रत्यवायानुत्पादस्य सन्ध्यावन्दनादिजन्यत्वं, तथा विघ्नानुत्पादमुद्दिश्यापि मङ्गले शिष्टप्रवृत्तेविघ्नप्रागभावस्यापि मङ्गलजन्यत्वमावश्यकम् / अत एव यथोक्तरूपस्य गुरुत्वेऽपि तदेव जन्यत्वं, प्रामाणिकगौरवस्यादोषत्वादित्यनुशयादाह 'किञ्चेति / 'विनकारणं' मङ्गलाभावेतरविघ्नोत्पादककारणकलापः, मङ्गलाभावेतरविघ्नप्रागभावनाशककारणकलाप इति यावत् / 'तन्नाशद्वारे'ति' विनकारणं मङ्गलजादृष्टप्रागभावः, तन्नाशोऽदृष्टं तद्द्वारेत्यर्थः। 'प्रागभावस्य' विघ्नप्रागभावस्य, 'साध्यत्वं' सर्वत्र मङ्गलसाध्यत्वम् / तथा च यन्मङ्गलव्यक्तेरनन्तरं समाप्तिपर्यन्तं मध्ये विघ्नप्रागभावनाशकान्तरसमवधानमेव न जातं, तन्मङ्गलव्यक्तरेवोक्तरूपजन्यत्वं न विघ्नप्रागभावस्येति भावः।। ननु मास्तु तन्मङ्गलव्यक्तिजन्यत्वं, विघ्नप्रागभावस्य किनश्छिन्नमित्यत आह 'एवमपी'ति, एवळचेत्यर्थः / 'विघ्नानुत्पादोऽपीति, अपिना विघ्नध्वंससमुच्चयः / विघ्नानुत्पादस्य स्वतःसिद्धत्वं विघ्नप्रागभावनाशकान्तराभावाधीनत्वं, विघ्नध्वंसस्य स्वतःसिद्धत्वं जन्मान्तरार्जितमङ्गलात् सिद्धत्वम् / 'अकिञ्चित्करमेव' व्यापारीभूतविघ्नसंसर्गाभावानुपधायकमेव / ननु तत्र तदनुपधायकत्वेऽपि न क्षतिः, वेदाप्रामाण्यसिद्धिप्रसङ्गनिरासस्य त्वदुक्तरीत्यैव सुकरत्वादित्यस्वरसात्तावतीत्याधुक्तं दूषयति 'विघ्नध्वंसे ति। 'स्थायिनो' 1. तद्ध्वंसद्वारेतीति क०, ग०, घ०, च० / 2. विघ्नकारणनाशद्वारा साध्यत्वरूपेत्यर्थः / 3. 'तावति समये दुरितानुत्पादश्च' इत्यादिमूलोक्तमित्यर्थः /

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88