Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 63
________________ तत्त्वचिन्तामणौ सरहस्यै यत्र च साङ्गे मङ्गले सत्यपि न फलं तत्र विघ्नभूयस्त्वादिति तन्न; _ एवञ्च व्रीहियववत् परस्पराभावविशिष्टत्वेन कारणत्वानभ्युपगमेऽपि न क्षतिरिति वाच्यम् , सर्वत्र विनायकादिस्तवपाठादिजन्यापूर्वकल्पने गौरवात् ; फलमुखगौरवस्यापि दोषत्वादिति भावः / / __ समाप्ति प्रत्यन्वयव्यभिचारमुद्धरति 'यति / 'साङ्ग' सकलवैदिकाङ्गसम्पन्ने, 'न फलम्' न समाप्तिः, 'विघ्नभूयस्त्वात्' भूयोजातीयविघ्नसत्त्वात् , यन्मङ्गलं कृतं तदनाश्यजातीयविघ्नसत्त्वादिति यावत् / नतिस्तुत्यादिभेदेन मङ्गलस्य विभिन्नतया मङ्गलत्वस्य सर्वसाधारणस्यैकस्य दुर्वचतया परस्परव्यावृत्तविघ्ननिष्ठवैजात्यानामेव प्रत्येकं नाश्यतावच्छेदकत्वादिति भावः / न चैवं' कारणान्तराभावेन क्वचित् फलानुपधाने समाप्तिसाधनताबोधकवेदस्योक्तक्रमेणाप्रामाण्यसिद्धिप्रसङ्ग इति वाच्यम् , समाप्तिजनने विघ्नसामान्याभावस्याप्यङ्गतया साङ्गत्वाभावादेव साङ्गवेदबोधितकर्मत्वाभावसिद्धिसम्भवेनाप्रामाण्यासिद्धेरिति हृदयम् / __प्राश्वस्तु विघ्नभूयस्त्वादि'त्यस्य कृतमङ्गलमपेक्ष्य विघ्नानां भूयस्त्वादित्यर्थः / तथा च विघ्नसमसङ्खथमङ्गलत्वेन विननाशकतया कृतमङ्गलतस्तत्समसङ्ख्यविघ्ननाशेऽपि विघ्नान्तरसत्त्वान्न समाप्तिः, मङ्गलत्वञ्च शक्तिविशेषसम्बन्धेन मङ्गलपदवत्त्वं, विनत्वञ्च मङ्गलनाश्यतावच्छेदकतया सिद्धा नतिस्तुत्यादिनाश्यसकलादृष्टसाधारण्येकैव जातिरिति भाव इत्याहुः, तदसत् ; सामान्यतो विन्नसमसङ्घयमङ्गलत्वेन नाशकत्वेऽप्येकमङ्गलतः सर्वविघ्ननाशस्य दुर्वारत्वात् , एकमङ्गलस्याप्येकविघ्नसमसङ्घयत्वात् / न चैकविघ्ननाशं प्रत्येकमङ्गलत्वेन, 1. साङ्गे मङ्गले सत्यपीत्यर्थः / 2. विद्यमानमङ्गलानाश्यविघ्नसत्तया विघ्नसामान्याभावरूपकारणाभावेनेत्यर्थः / 3. समाप्त्यनुत्पाद इत्यर्थः / / 4. फलोपधायकत्वाभावेन साङ्गवेदबोधितकर्मत्वाभावः साध्यमानः साङ्गे मङ्गले वेद बोधितत्वाभावमादाय सिद्ध्यति, वेदबोधितत्वाभावश्च तस्य समाप्तिसाधनताबोधकवाक्ये वेदत्वाभावसिद्ध्या उपपद्यते, वेदत्वाभावश्च वेदत्वघटकविशेषणभागाश्रये तादृशवाक्ये वेदत्वघटकप्रामाण्यरूपविशेष्यस्याभावमादाय सिदध्यतीति क्रमेणेत्यर्थः / 5. प्रामाण्यासिद्धिप्रसङ्ग इति ख०।। 6. स्वनाश्यविघ्नविजातीयविघ्नसमवहिते मङ्गले विघ्नसामान्याभावरूपाङ्गवैकल्येन साङ्गत्वाभावः। तत एव च तत्र साङ्गवेदबोधितकर्मत्वाभावस्य सिद्धिसम्भवेन तत्र वेदबोधितत्वाभावसिद्ध रनावश्यकतया तदर्थ तस्य समाप्तिसाधकताबोधकवाक्ये वेदत्वाभावसाधनस्य निष्प्रयोजनत्वेन न तत्र वेदत्वघटकस्य प्रामाण्यस्याभावसिद्धिरित्याशयः /

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88