Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 61
________________ तत्त्वचिन्तामणौ सरहस्ये अत एव यत्र विनाभावः स्वतःसिद्धः, तत्र मङ्गलस्याअन्वयदलमात्रोपादाने उदासीनजन्यतापि घटे स्यात् , घटप्रागभावनाशकसकलसमवधाने उदासीनसत्त्वेऽपि घटसत्त्वाद् , अतो व्यतिरेकदलम् / व्यतिरेकदलमात्रोपादाने रासभादिसाध्यत्वमपि विघ्नप्रागभावे स्यात् , विघ्नप्रागभावनाशकसकलसमवधाने रासभव्यतिरेके सति तदनन्तरं विघ्नोत्पादेन तत्प्रागभावव्यतिरेकावश्यम्भावादन्वयदलोपादानं, तदुपादाने च यथोक्तसकलसमवधाने रासभसत्त्वेऽपि विघ्नस्यैवोत्पादेन विघ्नप्रागभावासत्त्वान्नातिप्रसङ्गः। न च घटादेर्दण्डावयवचक्रावयवादिजन्यत्वापत्तिरिति वाच्यम्, अनन्यथासिद्धयव्यतिरेक इति विवक्षितत्वात् / इदश्वानित्यानां जन्यताया लक्षणम् , अतो घटादेर्नेश्वरबुद्धथाद्यजन्यत्वापत्तिरिति सङ्केपः / ननु यस्मिन् सत्यसिमक्षणे यस्योत्पत्तिः, यद्व्यतिरेके चानुत्पत्तिः, तत्तजन्यमित्येव जन्यतालक्षणम् , न तु यथोक्तम् / तथा च विघ्नप्रागभावस्योत्पत्तिविरहात् कथं मङ्गलजन्यत्वमित्यत आह 'न त्वि'ति / 'असतः सत्त्वम्' असतः सत्त्वघटितम् , उत्पत्तिघटितमिति यावत् / विघ्नप्रागभावेऽन्वयदलं सङ्गमयति 'अस्ति चेति, 'विघ्नकारणे'ति, 'विघ्नकारणम्' मङ्गलप्रागभावः, तद्ध्वंसो मङ्गलं तस्मिन् सतीत्यर्थः। 'तथात्वं' सत्त्वम् / 'तावति समय' इति आरम्भानन्तरं यावता कालेन समाप्तिः, तावत्समयवृत्तित्वविशिष्टिविघ्नप्रागभावश्चेत्यर्थः / न साक्षादिति मङ्गलस्याशुतरविनाशित्वेन तावत्कालानवस्थायित्वादिति भावः / 'तथा' विघ्नसंसर्गाभावस्य द्वारता। ___ नन्वदृष्टाभ्युपगमे तदेव साक्षात् समाप्तिजनकमस्तु , किं विघ्नसंसर्गाभावस्य द्वारत्वेनेत्यत आह 'एवमिति / संसर्गाभावस्य द्वारत्वेनेत्यर्थः। 'निविघ्नमिति, इति कामनया' इत्युद्दिश्य, 'आचारोऽपि' मङ्गले शिष्टप्रवृत्तिरपि / तथा च विघ्नसंसर्गाभावविशिष्टसमाप्त्युद्देश्यकमङ्गलगोचरशिष्टप्रवृत्तिरपीत्यर्थः। शिष्टत्वं भ्रमाजन्यत्वम् / 'सङ्गच्छत' इति / अन्यथा विघ्नसंसर्गाभावस्य मङ्गलाजन्यत्वे विशिष्टसमाप्त्युद्देश्यकप्रवृत्तौ विशेषणोभूतविघ्नसंसर्गाभावस्याप्युदेश्यतया तत्प्रवृत्तेनियमतोऽशिष्टत्वापत्तेः, तदुद्देश्यकतत्प्रवृत्ती तत्साधनताज्ञानस्य हेतुतया भ्रमरूपस्य विघ्नसंसर्गाभावसाधनताज्ञानस्य तत्र हेतुत्वादिति भावः। ननु तथापि विघ्नध्वंस एव व्यापारोऽस्तु, किमजन्यस्य विघ्नप्रागभावस्य व्यापारत्वेन ? विशिष्टसमाप्त्युहेश्यकप्रवृत्तौ विघ्रप्रागभावस्योहश्यत्वे मानाभावादित्यत आह 'अत एवेति / यत एव विघ्नप्रागभावस्यापि व्यापारत्वम्

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88