Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः 46 रासभादौ तु नैवम् , रासभतव्याप्येतरसकलघटप्रागभावनाशकस्य यावद्घटोत्पादकस्य समवधाने सति कचिदपि रासमव्यतिरेकेण घटव्यतिरेकासिद्धेः। अत्र प्रागभावपदं न 'साध्यत्वेनाभिमतप्रागभावपरम् , विघ्नप्रागभावादावव्याप्त्यापत्तेः, प्रागभावस्य प्रागभावाभावात् / न वा यत्किञ्चित्प्रागभावपरमुदासीनेऽप्यतिव्याप्तेघंटसामग्र्यभावस्थले पटप्रागभावनाशकसकलसमवधान उदासीनव्यतिरेकेणापि घटव्यतिरेकात / न वा प्रागभावसामान्यपरम , असम्भवातः कुत्रापि तन्नाशकसकलसमवधानाभावात् / किन्तु साध्यत्वेनाभिमतं यत्तदितरतदीयभिन्नप्रागभावान्यप्रागभावपरम् / घटादिस्थले साध्यत्वाभिमतो घटादिः, तदितरस्तदीयभिन्नप्रागभावः२ पटादिप्रागभावः, तदन्यो घटप्रागभाव एव / विघ्नप्रागभावस्थले तु साध्यत्वाभिमतो विघ्नप्रागभावः, तदितरस्तदीयभिन्नप्रागभावः पटादिप्रागभावः, तदन्यप्रागभावो विघ्नप्रागभाव एव / यद्वा साध्यत्वाभिमतं यत्तनिष्ठत्वतन्निरूपितत्वयोरन्यतराश्रयस्य प्रतियोगित्वस्य निरूपको यः प्रागभावः, तत्परम् / घटादिस्थले साध्यत्वाभिमतो घटादिः, तन्निष्ठत्वतन्निरूपितत्वयोरन्यतराश्रयप्रतियोगित्वं घटादिनिष्ठप्रतियोगित्वमेव तन्निरूपकप्रागभावो घटादिप्रागभावः। विघ्नप्रागभावस्थले तु साध्यत्वाभिमतो विघ्नप्रागभावः, तनिष्ठत्वतन्निरूपितत्वयोरन्यतराश्रयप्रतियोगित्वं विघ्नप्रागभावनिरूपितप्रतियोगित्वमेव; तन्निरूपकप्रागभावो विघ्नप्रागभाव एव। घटप्रागभावनाशकसकलसमवधाने दण्डव्यतिरेक एवासिद्धः, दण्डस्यापि यावन्मध्यपातित्वाद् अतः 'स्वेतरेति' / घटप्रागभावनाशकचक्रभ्रम्यादिरूपदण्डव्यापारचक्रादिसकलकारणसमवधाने दण्डव्यतिरेके घटव्यतिरेकोऽसिद्धः, भ्रम्यादिसत्त्वे दण्डासत्त्वेऽप्यवश्यं घटोत्पत्तेः अतः 'स्वव्याप्येतरे'ति / न च मङ्गलतव्याप्येतरविघ्नप्रागभावनाशकसकलसमवधाने मङ्गलसत्त्व इति विरुद्ध, मङ्गलाभावस्यापि विघ्नप्रागभावनाशकयावन्मध्यपातित्वात् ; मङ्गलस्य विघ्नप्रतिबन्धकतया तदभावस्य विघ्नोत्पादकत्वेन तत्प्रागभावनाशकत्वादिति वाच्यं, स्वाभावेतरत्वेनापि तद्विशेषणात् / मङ्गलतव्याप्यतदभावेतरविघ्नप्रागभावनाशकसकलसमवधानदशायां मङ्गलव्यतिरेके विघ्नप्रागभावव्यतिरेको विरुद्धः, विघ्नप्रागभावस्यापि विघ्नप्रागभावनाशकयावन्मध्यपातित्वात्। एवं तादृशप्रागभावनाशकसकलसमवधानदशायांदण्डसत्त्वे घटसत्त्वमपि विरुद्धं, घटप्रागभावस्यापि घटप्रागभावनाशकयावदन्तर्गतत्वाद्, अतोऽग्रिमक्षण इति / 1. साध्यत्वेनाभिमतस्य प्रागभावपरमित्यर्थः / 2. तदीयभेदवतः प्रागभाव इत्यर्थः / 3. प्रतियोगिताया निरूपकः प्रागभाव इत्यर्थः / . 7

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88