Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 58
________________ प्रत्यक्षखण्डे मङ्गलवादः नुत्पादश्च कर्मनिर्वाहसमयस्थायी / विघ्नकारणविनाशद्वारा प्रागमावस्य साध्यत्वम् , यस्मिन् सत्य ग्रिमक्षणे यस्य सत्त्वं यद्व्यतिरेके चासत्त्वं तदेव तस्य तजन्यत्वम् , न त्वसतः सत्त्वम्, गौरवात् / अस्ति च विघ्नकारणनाशे सति विघ्नप्रागभावस्य तथात्वम् / तावति समये दुरितानुत्पादश्च न साक्षान्मङ्गलजन्य इत्यदृष्टद्वारा तथा। एवं निर्विघ्नं समाप्यतामिति कामनया तदाचारोऽपि सङ्गच्छते / 'अनुत्पादः प्रागभावः, 'कर्मनिर्वाहसमयस्थायी' कर्मसमाप्तिकालस्थायी / ननु विघ्नप्रागभावस्य किंविधया मङ्गलजन्यत्वमित्यत आह 'विघ्नकारणे'ति / 'विघ्नकारणम्' मङ्गलप्रागभावः, तद्ध्वंसविधयेत्यर्थः / 'प्रागभावस्य' विघ्नप्रागभावस्य, 'साध्यत्वम्' मङ्गलजन्यत्वम् , 'यथाश्रुते विघ्नकारणस्य निषिद्धकर्मणो मङ्गलेन नाशासम्भवादलमकतापत्तेः। ननु तथापि प्रागभावस्याजन्यत्वात् कथं मङ्गलजन्यत्वमित्यत आह 'यस्मिन् सती'ति / 'असत्त्वम्' व्यतिरेकः / एवञ्च मङ्गलसत्त्वे विघ्नप्रागभावसत्त्वं विघ्नप्रतिबन्धकसत्त्वेन विघ्नानुत्पत्तेः, मङ्गलव्यतिरेके च विघ्नप्रागभावव्यतिरेकः प्रतिबन्धकाभावसत्त्वेन विघ्नोत्पत्तेरिति विघ्नप्रागभावस्तजन्य इति भावः। ननु यस्मिन् सत्यग्रिमक्षणे यस्य सत्त्वमित्यत्र यद्व्यतिरेके यस्यासत्त्वमित्यत्र च सति सप्तम्याः सामानाधिकरण्यमात्रमर्थो व्यापकत्वं वा ? नाद्यः, अतिप्रसङ्गात्; सामग्रीक्षणे उदासीनसत्त्वेऽपि कार्यसत्त्वात् , यत्किश्चित् कारणाभावस्थले उदासीनाभावादपि कार्याभावात् / न च स्वस्वव्याप्येतरयावत्कारणसमवधाने यत्सत्त्वे यत्सत्त्वं यद्व्यतिरेके यव्यतिरेक इति वक्तव्यम् ; स्वपदश्च कारणत्वाभिमतपरमिति वाच्यं, विघ्नप्रागभावादेः कारणाभावेनाव्याप्त्यापत्तः, यत्सत्त्वे यत्सत्त्वमित्यन्वयदलस्य व्यर्थतापत्तश्च / नाकारणस्य स्वेतरयावत्कारणकाले स्वाभावेन कार्याभावः। 1. विघ्नकारणतया मङ्गलप्रागभावस्याग्रहणे इत्यर्थः / 2. विघ्नप्रागभावादेरकारणकत्वेन तत्कारणत्वाभिमतस्य तत्कारणस्य चाप्रसिद्धथा स्वस्वव्याप्येतरयावत्कारणघटितोक्तजन्यत्वस्य दुर्घटतया तत्राव्याप्तिरिति भावः। 3. यद् यस्य कार्यस्य न कारणं तस्याभावेऽपि तदितरतत्कार्ययावत्कारणसमवधाने तत्कार्य. . . . व्यतिरेकस्याभावेन व्यतिरेकदलादेव तत्कार्ये तदकारणजन्यत्वापत्तेर्वारणसम्भवेन 'यत्सत्त्वे यत्सत्त्वम्' इत्यन्वयदलं व्यर्थमित्याशयः। .

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88