Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 59
________________ तत्वचिन्तामणौ सरहस्से नान्त्यः, विघ्नप्रागभावादेर्मङ्गलाद्यजन्यत्वापत्तेस्तव्यतिरेकेऽपि तस्यानादित्वेन पूर्वक्षणे सत्त्वात् , घटाद्यव्याप्त्यापत्तेश्च दण्डादिविरहेऽपि घटाद्यनुवृत्तेः / न च व्यतिरेकः प्रागभावः, ज्ञानादेरीत्माधजन्यत्वापत्तेः, प्रांगभावेऽव्याप्त्यापत्तेश्च / अंत एवासत्त्वमुत्पत्तिव्यतिरेक इति परास्तम् / किञ्च, यथा तथास्त व्यतिरेकपदार्थोऽसत्त्वपदार्थश्च; सर्वथैव "युगपदुत्पन्नविनष्टेष्वन्यथासिद्धेषु चातिव्याप्तिः, स्वस्य स्वजन्यतापत्तिश्च अन्वयदलव्यर्थतापत्तिश्च / / अत्राहुः-यदधीनो यस्य समयसम्बन्धो यद्व्यतिरेकप्रयुक्तो यव्यतिरेकस्तदेव तजन्यमित्यर्थः। अधीनत्वञ्च 'घटस्यैतत्समयसम्बन्धो दण्डाधीन' इत्यादिविलक्षणप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः / प्रयुक्तत्वमपि 'दण्डाभावाद् घटाभाव' इत्यादिप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः / न चान्यतरदलवैयर्थ्यम् , न प्रकारणाधीनं कार्यसत्त्वम् , अकारणाभावप्रयुक्तो वा कार्याभाव इति वाच्यं,"लक्षणद्वये तात्पर्यात् / वस्तुतस्त स्वस्वव्याप्येतरप्रागभावनाशकसकलसमवधाने सति यद्व्यतिरेकेऽग्रिमक्षणे यस्य व्यतिरेकः, यस्य सत्त्वेऽग्रिमक्षणे यस्य सत्त्वं, तत्तज्जन्यमित्यर्थः / स्वपदं कारणत्वेनाभिमतपरम्, अस्ति च क्वचिद्दण्डदण्डव्याप्येतरघटप्रागभावनाशकसाकल्ये दण्डव्यतिरेकेऽने घटव्यतिरेकः, दण्डसत्त्वे च घटसत्त्वमिति स तत्साध्यः। 1. सति-सप्तम्या व्यापकत्वमर्थ इति पक्ष इत्यर्थः / 2. मङ्गलव्यतिरेकेपीत्यर्थः / 3. विघ्नप्रागभावस्येत्यर्थः / 4, तथा च दण्डादिव्यतिरेके घटादिप्रागभावस्य सत्त्वान्न घटादावव्याप्तिरिति भावः / आत्मव्यतिरिक्ते ज्ञानादिप्रागभावस्यासत्त्वादिति हृदयम् / 6. प्रागभावस्य प्रागभावाभावादित्याशयः / 7. प्रागभावेऽव्याप्त्यापत्तेरेवेत्यर्थः / 8. यत्कार्यव्यक्त्या सहैव ये पदार्था उत्पद्यन्ते विनश्यन्ति च, तेषु तत्कार्यकारणसत्त्वे सत्त्वस्य तत्कार्यकारणव्यतिरेकेऽसत्त्वस्य च सत्त्वेन तत्कार्यकारणजन्यत्वापत्तिरिति भावः। अन्यथासिद्धिनिरूपकेषु इत्यर्थः / तथा च घटादौ दण्डत्वतद्वयाप्येतरयावद्घटकारणसत्त्वे दण्डत्वादिसत्त्वे सत्त्वस्य दण्डत्वादिव्यतिरेकेऽसत्त्वस्य च सत्त्वेन दण्डत्वादिजन्यत्वा पत्तिरित्याशयः। 10. कार्यव्यतिरेकस्याकारणव्यतिरेकव्यापकत्वाभावाद् व्यतिरेकदलेनैव कार्येऽकारणजन्यत्वा पत्तेर्वारणसम्भवेनान्वयदलस्य वैयर्थ्यमिति भावः / 11. यदधीनो यस्य समयसम्बन्धः, स तज्जन्य इत्येकं लक्षणम्, यद्वयतिरेकप्रयुक्तो यद्वपतिरेकः स तज्जन्य इति चापरं लक्षणमित्याशयः /

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88