Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणौ सरहस्य तदुक्तम् - "आगममूलत्वाच्चास्यार्थस्य व्यभिचारो न दोषाय" इति / अत एव यागादेः स्वर्गसाधनतेति चेत्, न; 'नियतपूर्वसत्वस्य ग्राह्यस्याभावादागमेनापि बोधयितुमशक्यत्वात् / यागजनितस्वर्गे कारीरीजनितवृष्टौ च जातिविशेष एवास्ति। ___ अपरे तु मङ्गलस्यारब्धनिर्वाहकत्वं विघ्नसंसर्गाभावद्वारा, तथैव प्रतिबन्धकामावस्य हेतुत्वात् / स चाभावः सतो विघ्नस्य ध्वंसोऽनागतस्याभावः / 'तद्ग्रहे' कारणताग्रहे, 'व्यभिचारः' व्यतिरेकव्यमिचारज्ञानम् , 'आगमेन' वेदेन, 'तदुक्तमिति द्रव्यकिरणावल्यामाचार्यचरणैरिति शेषः। 'आगममूलत्वादिति / 'अस्यार्थस्य' मङ्गले समाप्तिकारणत्वग्रहस्य, 'आगममूलत्वात्' आगमजन्यत्वाद्, 'व्यभिचारः' व्यभिचारज्ञानं, 'न दोषाय'इति तदर्थ इत्यभिमानः। 'स्वर्गसाधनता' वेदेन स्वर्गसाधनतामहः, अन्यथा गङ्गास्नानादितोऽपि स्वर्गोत्पत्त्या व्यभिचारेण कारणताग्रहो आगमजन्यज्ञानस्याप्रामात्वापातादिति यावत् / नन्वेवं यागादौ कथं वेदेन वस्तुतस्त्ववाहनिवृत्तेरेव तत्फलत्वादिति बोध्यम् / मङ्गलमपूर्व जनयति, तेन चापूर्वेण विघ्नसंसर्गाभावो जायते / विघ्नसंसर्गाभावाच्च समाप्तिरिति क्रमेण स्वजन्यापूर्वजनितविघ्नसंसर्गाभावद्वारा मङ्गलस्य समाप्तिहेतुत्वमिति केचिन्मीमांसका वदन्ति, तन्मतमुपन्यस्यति 'अपरे त्विति / 'निर्वाहकत्वं' समापकत्वम् , 'विघ्नसंसर्गाभावे'ति स्वजन्यापूर्वजनितविघ्नसंसर्गाभावद्वारेत्यर्थः। तथैव' विघ्नसंसर्गाभावत्वेनैव, 'प्रतिबन्धकाभावस्य' विघ्नाभावस्य, न दोषः, उक्तव्याप्तेरेवानभिमतत्वात् / अभिमतायाः स्वेतरयावलमाप्तिकारणसमवहिते मङ्गले सत्यवश्य समाप्तिरिति व्याप्तेस्तु क्वचिन्मङ्गलाभावे समाप्तेरुत्पत्तावप्यक्षुण्णत्वा. च्चेत्यागायः। 1. व्यतिरेकव्यभिचारज्ञानं कारणताग्राहकव्यतिरेकव्याप्तिनिश्चयविरोधितया न कारणताग्रहे बाधकम्, किन्तु साक्षादेव तस्य ग्राह्यकारणताघटककार्यनियतपूर्वसत्त्वाभावावगाहित्वादत. - स्तत्सत्त्वे आगमतोऽपि कारणताग्रहो न भवितुमर्हतीति भावः / न्यजातीयस्वर्गवृष्टयोरुत्पत्त्याऽपि न तयोस्तादृशस्वर्गवृष्टिजनकत्वग्रहे किञ्चिद्वाधकम् / 3. कारणत्वादिति ख० / 4. स्वर्गसाधनतामह इति ख.।

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88