Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ तत्त्वचिन्तामणौ सरहस्य यागादेरदृष्टजनकतया क्षणविलम्बस्य' वक्तमशक्यत्वादिति वाच्यं; बहुतरव्यापारसाध्यतया अव्यवधानेन तादृशदर्शद्वयोत्पत्तरसम्भवात् / न च विशिष्टस्य कारणतावच्छेदकत्वे विशेष्यविशेषणभावे विनिगमकाभावेन गुरुतरकार्यकारणभावचतुष्टयापत्तिरिति वाच्यं "व्रीहिभिर्यजेत" इत्यादिश्रुतेरेव विनिगमकत्वात् , तादृशश्रुत्या यागस्यैव कारणत्वबोधनात् , न त्वभावस्य / न च तथापि व्रीहिकरणकयागाभावादिविशिष्टत्वयवकरणकयागत्वाद्योधर्मयोविशेष्यबिशेषणभावे विनिगमकाभाव इति वाच्यं , लाघवात् तयोरेवैकत्र द्वयमिति न्यायेनैव यागनिष्ठतया व्यासज्ज्यवृत्त्यवच्छेदकत्वाभ्युपगमात् / न च परस्परव्यावृत्तवैजात्यद्वयस्य कार्यतावच्छेदकत्वे वाजपेयाश्वमेधयोरिव व्रीहिकरणकयवकरणकयोरुभयोरेव तुल्यवदनुष्ठानापत्तिरिति वाच्यं, तादृशापूर्वयोद्वयोरेव कामनासत्त्वे इष्टापत्तेः। केचित-ताशवैजात्यद्वयावच्छिन्नं प्रति प्रत्येक लाघवादु ब्रीहिकरणकयागत्वयवकरणकयागत्वाभ्यामेव कारणत्वं, न तु परस्पराभावविशिष्टत्वेन व्यासज्ज्यवृत्त्यवच्छेदकतायाः सिद्धान्तासिद्धत्वाद् गौरवाच्च / परस्परकार्यतावच्छेदकावच्छिन्नापूर्व प्रति परस्परस्य प्रतिबन्धकतया च नोभयकरणकदर्शादपूर्वोत्पत्तिः / न चैवमतिरिक्तप्रतिबध्यप्रतिबन्धकभावान्तरकल्पने गौरवमिति वाच्यं, तस्य कार्यकारणभावग्रहोत्तरकल्प्यत्वेन फलमुखत्वात् / यत्र परस्परं परस्परकार्यतावच्छेदकावच्छिन्नं प्रति प्रतिबन्धकं, तत्रैव वैकल्पिकी कारणता / तेनाश्वमेधवाजपेययोजनकता, न वैकल्पिकी। न चैवं तत्तदभावव्याप्यपरामर्शयोरप्यनुमितिं प्रति कारणतापि वैकल्पिको स्यादिति वाच्यं, तयोः परस्परकार्यतावच्छेदकावच्छिन्न प्रति अप्रतिबन्धकत्वाद् विशिष्टबुद्धित्वस्यैव तयोः प्रतिबध्यतावच्छेदकत्वादित्याहुः / यत्त दर्शजन्यस्वर्गविशेषनिष्ठमेवोभयजन्यतावच्छेदकं जातिद्वयम् , परस्परस्य परस्परकार्यतावच्छेदकावच्छिन्नस्वर्ग प्रति प्रतिबन्धकत्वान्नोभयकरणकदर्शात् स्वर्गो. त्पत्तिरिति वदन्ति, तदसद्; उभयकरणकदर्शादपि स्वर्गोत्पत्त्यापत्तेः, यागस्याशुविनाशितया स्वर्गोत्पत्तिसमये प्रतिबन्धकासत्त्वात् / परस्परजन्यापूर्वस्य प्रतिबन्धकत्वे च ब्रीहिकरणकदर्शोत्तरकृतयवकरणकदर्शात् स्वर्गानुत्पत्तिप्रसङ्गात् / __ अन्ये तु सामान्यतो दर्शत्वेनैव ब्रीहिकरणकदर्शयवकरणकदर्शयोरुभयो. रपूर्वविशेष प्रति स्वर्गविशेष प्रति च हेतुत्वं , न तु तयोविशेषतोऽपि हेतुत्वं, 1. यागतृतीयक्षणेऽदृष्टोत्पत्तिस्वीकारस्येत्यर्थः। 2. द्वितीयक्षणे यागस्योत्पत्तिसम्बन्धेनासत्त्वादित्यभिप्रायः / 3. अतो मानाभावादेकयागविशिष्टस्यापरयागाभावस्य हेतुत्वमसम्भवदुक्तिकमिति भावः / 4. तयोरुभयोर्याग एव विद्यमानतया विनिगमनाऽसम्भवादित्याशयः / तथाप्यतदभावव्याप्यपरामर्शयोरित्यर्थः / 6. तत्साध्यकतदभावसाध्यकानुमितित्वावच्छिन्नमित्यर्थः / 7. उपनीतप्रत्यक्षानुमितिशाब्दबोधादिसाधारण्यानुरोधादिति भावः /

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88