Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः 43 शास्त्रबोधितफलाजनकत्वात् / एतच्चोपलक्षणम् , शिवपूजादिकर्मान्तरमङ्गलोभयकरणादपि समाप्तिदर्शनाद्, विघ्नस्थलीयत्वस्योक्तक्रमेणान्यथासिद्धिसम्पादकतया अननुगततया च कार्यतावच्छेदकत्वासम्भवाच्चेत्यपि बोद्धव्यम् / ननु व्रीहियवादिविकल्पस्थले कथं कार्यकारणभावः ? एकजातीयदर्शजन्यापूर्वविशेषे तजन्यस्वर्गविशेषे चोभयोः प्रत्येक कारणत्वे व्यभिचाराद् एकस्मादपि तादृशकार्यविशेषोत्पत्तेः / न चोभयत्र दर्शजन्यतावच्छेदकं वैजात्यद्वयमस्ति, तदवच्छिन्नं प्रत्येव प्रत्येकं हेतुत्वं तृणादिवदिति वाच्यम् ; उभयकरणकयागादेरपि फलोत्पत्त्यापत्तेः / न चेष्टापत्तिः, अशास्त्रार्थत्वात् / भिन्नभिन्नावच्छिन्नं प्रति कारणतापि यदि वैकल्पिकी, तदा अश्वमेधवाजपेययोः स्वर्गजनकताया अपि तथात्वापत्तेः। अथ व्रीहिकरणकयवकरणकयोरुभयोरेव दर्शात्मकत्वादपूर्वविशेष प्रति स्वर्गविशेष प्रति च दर्शत्वेनैवोभयोरनुगतहेतुता, दर्शत्वञ्च जातिविशेषः। न चैवमुभयकरणकदर्शादपि फलोदय प्रसङ्ग इति वाच्यं, जनकतावच्छेदकदर्शत्वस्य तव्यावृत्तत्वात् / एकधर्मावच्छिन्नं प्रत्युभयोजनकत्वमेव वैकल्पिककारणता। अत एव अश्वमेधवाजपेययोर्न विकल्प इति चेत्, न; उभयकरणकेऽपि दर्शव्यवहारात् , तत्रापि दर्शत्वसत्त्वात् / न च दर्शत्वेन न कारणता, किन्तूभयकरणकदर्शव्यावृत्तेन दर्शत्वव्याप्यजातिविशेषेण, न हि दर्शत्वस्य कारणतावच्छेदकत्वपर्यन्तं वेदो बोधयतीति वाच्यं; कारणतावच्छेदकैक्येऽपि यदि वैकल्पिककारणता, तदा दण्डयोर्घटजनकत्वस्यापि तथात्वप्रसङ्गात् , परस्परविरुद्धवैजात्याश्रययोर्द्वयोर्वैकल्पिककारणतास्थले एकरूपेण कारणत्वस्य वक्तुमशक्यत्वाच्च / अत्राहुः-व्रीहिकरणकयागयवकरणकयागयोरुभयोजन्यतावच्छेदकमपूर्वनिष्ठवैजात्यद्वयमस्ति, अतो न परस्परं व्यभिचारः। कारणत्वञ्च तदुभयावच्छिन्नं प्रति प्रत्येकं ब्रीहिकरणकयागाभावविशिष्टयवकरणकयागत्वयवकरणकयागाभावविशिष्टव्रीहिकरणकयागत्वाभ्याम् , अतो नोभयकरणकयागादपूर्वोत्पत्तिः; न वाश्वमेधवाजपेययोः कारणतापि वैकल्पिकी, एकाभावविशिष्टापरत्वेन कारणताया एव तथात्वात् / ब्रीहियवकरणकत्वञ्च तज्जन्यपुरोडाशविषयकत्वं, तच्च दर्शनिष्ठपरस्परव्यावृत्तजातिद्वयपरिचायकम् / न च परस्पराभावविशिष्टत्वेन कारणत्वे व्रीहिकरणकदर्शाव्यवधानकृतयवकरणकदर्शादपूर्वानुत्पत्तिप्रसङ्गः, उत्पत्तिसम्बन्धेन 1. कर्मान्तरजन्यपुण्यविशेषसत्त्वसम्भावनया तादृशपुण्यादेव समाप्तेरुत्पत्तिसम्भवेन मङ्गल मन्यथासिद्धमिति भावः / 2. नानाविधस्य विघ्नस्यानुगतानतिप्रसक्तरूपशुन्यतयेत्यर्थः। 3. यागद्वितीयक्षणेऽपूर्वजन्यानुत्पत्तिप्रसङ्गो यागोत्पत्तिक्षणं यावत्पूर्वयागस्य सत्त्वेन ब्रीहि करणकयागाभावविशिष्टयवकरणकयांगस्याभावादित्याशयः / KA

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88