Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः आरब्धकर्मसमाप्त्यवश्यम्भावापत्तेः फलावश्यम्भावनिश्चयं विना वैदिककर्मानमुष्ठानात् / न चैवम्, भूयसि साङ्गेऽपि मङ्गले कचिदारब्धसमाप्त्यभावात् / न च तत्रामुष्मिकं फलम् , ऐहिकमात्रफलत्वात् , वैदिककर्मणः फलावश्यम्भावनागन्तुकदुरितेनाप्यप्रतिबन्धात् / किञ्च, यथा कार्यादिकमग्रिमपुरुषव्यापार विनैव फलहेतुः, तथा मङ्गलमपि तेन विनैव हेतुः स्यात् / न चैवम् / लोकावगतकारणत्वात् तदपेक्षेति चेत् , तर्हि स एव हेतुरस्तु, किमनेन ? आरब्धकर्मजनकदृष्टकारणसम्पत्तौ पुत्रेष्टिवत्तत्समाप्तिसाधनत्वं 'आरब्धकर्मसमाप्त्यवश्यंभावापत्तरिति मङ्गले कृते सर्वत्रैवारब्धकर्मोत्पत्त्यापत्तेरित्यर्थः / नन्विदमप्रयोजकमित्यत आह 'फलावश्यम्भावेति तन्निश्चयश्च नोक्तनियमं विनेति भावः। ___इष्टापत्तिमाशङ्क्याह 'न चैवमि'ति / न च मङ्गले कृतेऽवश्यमारब्धकर्मोत्पत्तिरित्यर्थः। 'भूयसी'ति प्रौढ्या / 'समाप्त्यभावात्' उत्पत्त्यभावात्, ‘ऐहिकमात्रे'ति स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन फलीभूतारब्धकर्मोत्पत्तिजनककर्तृशरीरनिष्ठतयैव मङ्गलजन्यापूर्वस्यारब्धकर्मोत्पत्तिहेतुत्वाभ्युपगमादित्यर्थः। अन्यथा स्वावच्छेदकत्वसम्बन्धेन शरीरनिष्ठतया, समवायसम्बन्धेन तादृशात्मनिष्ठतया वा आरब्धकर्मोत्पत्तिजनकत्वे जन्मान्तरीयग्रन्थोत्पत्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्त्यापत्तेरिति भावः / ननु मङ्गलपूर्वोत्पन्नेन मङ्गलानन्तरोत्पन्नेन वा दुरितेन प्रतिबन्धान फलम् ; अस्मन्नये मङ्गलस्य दुरितानाशकतया तत्पूर्वोत्पन्नेनापि प्रतिबन्धसम्भवादित्यत आह 'वैदिके'ति / 'फलावश्यम्भावेन' फलावश्यम्भावनियमेन / 'आगन्तुके'ति मङ्गलपूर्वोत्तरोत्पन्नेत्यर्थः। ननूक्तनियमोऽप्रयोजकः, इतरसकलकारणसत्त्वे फलावश्यम्भावनिश्चयरूपायाः श्रद्धाया एव वैदिककर्मप्रवृत्तौ हेतुत्वादित्यस्वरसादाह 'किञ्चेति / 'यथेति, कारीयेपि अदृष्टद्वारा हेतुरिति मते नेदम् / वस्तुतस्तु अवग्रहनिवृत्तिरेव तत्फलमित्यन्यत्र सुव्यक्तम् / 'हेतुः स्यादिति प्रधानापूर्वजनकविहितकर्मणोऽप्रिमपुरुषव्यापारानपेक्ष्यफलजनकत्वनियमादिति भावः / 'न चैवमिति च्छेदः। शङ्कते 'लोके'ति / तदपेक्षा' कण्ठाभिघातादेरारब्धकर्मजनकत्वे कण्ठादिक्रियाद्यपेक्षा। तथा च प्रधानापूर्वजनकविहितकर्मत्वं लोकावगतकारणेतराप्रिमपुरुषव्यापारानपेक्ष्य फलजनकत्वस्यैव व्याप्यम् , अन्यथा पुत्रेष्टौभोजनादिद्वाराभोगजनकादृष्टजनककर्मणि च व्यभिचारादिति भावः। स एवेति कण्ठाभिघातादिरेवेत्यर्थः / 'किमनेन' किं मङ्गलेन, दृष्टकारणसाकल्येऽदृष्टविलम्बेन कार्यविलम्बाभावादिति भावः। 1. तत्समाप्तिकारणत्वमिति ख० / 2. प्रारब्धसमाप्त्यभावात् तदुत्पत्त्यभावादिति क.।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88