Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 51
________________ तत्त्वचिन्तामणौ सरहस्ये कामनावश्यंभावादिति / तन्ना कारीरीजन्यातिशयवद्विहितप्रधानजन्यातिशयत्वान्मङ्गलजन्यापूर्वस्यापि फलसम्पादकाशेषकारणसम्पादकतया 'अवश्यम्भावादिति तदभावेऽननुष्ठानमिष्टमेवेति भावः। 'विहिते'ति विहितजन्यप्रधानापूर्वत्वादित्यर्थः। विहितजन्यप्रधानापूर्वस्य फलसम्पादकाशेषकारणसम्पादकत्वनियमादिति भावः / अत्र फलपदस्येष्टपरतयो पापे व्यभिचारवारणाय 'विहितजन्ये ति / विहितत्वं बलवदनिष्टाननुबन्धित्वेन वेदबोधितत्वम् / तेन श्येनजन्यपापे न व्यभिचारः / विहितजन्यत्वमात्रोक्तौ फले व्यभिचार इत्यतः 'प्रधानापूर्वे'ति, अजनितप्रधानापूर्वाङ्गापूर्वे व्यभिचारवारणाय प्रधानेत्यपूर्वविशेषणं, प्रधानेत्यस्य विहितेन सहान्वयेऽङ्गप्रधानोभयरूपशिखादिना३ अङ्गविधया जनितेऽपूर्वे व्यभिचारापत्तेः। फलशिरस्कापूर्वमेव प्रधानापूर्वम् / तेन दक्षिणादानादिविनाकृतप्रधानजन्यापूर्वे न व्यभिचारः / कीर्तनाद्यनाश्यत्वमप्यपूर्वविशेषणं, तेन तन्नाश्ये न व्यभिचारः। फलोपधायकत्वस्य साध्यत्वात् स्वरूपयोग्यत्वस्य मङ्गलजन्यादृष्टेऽपि सत्त्वात् / यदि च सत्यपि अपूर्वे सत्प्रतिपक्षवत् प्रतिकृत्या प्रतिबन्धाद् न फलोदय इत्युपगम्यते, तदा तदप्रतिरुद्धत्वेनाप्यपूर्व विशेषणीयमिति। न च मङ्गलजन्यापूर्वाप्रसिद्धया पक्षाप्रसिद्धेः कथमिदमापादनमिति वाच्यम् ; मङ्गलं यदि विहितत्वे सति प्रधानापूर्वजनकं स्यात्, तदा फलसम्पादकाशेषकारणसम्पादकापूर्वजनकं स्यादित्यापादनात् / पापजनके कर्मणि व्यभिचारवारणाय सत्यन्तं, पक्षतावच्छेदकावच्छेदनापाद्यसिद्धेरुद्देश्यत्वादिति दिक् / 1. अन्यथा फलपदस्येष्टानिष्टसाधारणफलसामान्यपरत्वे पापस्याप्यनिष्टसम्पादकाशेष कारणसम्पादकतया तत्र व्यभिचारो न स्यादिति भावः / / 2. विहितत्वस्य वेदबोधितत्वमात्ररूपत्वे श्येनजन्यपापे व्यभिचारः स्यात्, श्येनस्यापि वेदबोधितत्वादित्याशयः। 3. आदिना उपवीतपरिग्रहः / 4. प्रतिकृत्या-दुरितेनेत्यर्थः / 5. सत्प्रतिपक्षरूपदुरितेन प्रतिबन्धादिति क०; प्रतिकृत्या प्रतिरोधादिति ख० / सत्प्रतिपक्षभूतदुरिताप्रतिबद्धत्वेनेत्यर्थः / पक्षतावच्छेदकसामानाधिकरण्येनापाद्य सिद्धरुद्देश्यत्वे उक्तापादनं न सम्भवति, तादृश्यामापाद्यसिद्धौ पक्षतावच्छेदकावच्छेदेनापाद्याभावनिश्चयस्यापेक्षितत्वात्, मङ्गलविशेष उक्तापाद्यस्य सत्त्वेन मङ्गलत्वावच्छेदेन फलसम्पादकाशेषकारणसम्पादकापूर्वजनकत्वाभावनिश्चयस्य दुर्घटत्वात् / पक्षतावच्छेदकावच्छेदेनापाद्यसिद्धरुद्देश्यत्वे चोक्तापादनं निर्बाध सङ्गच्छते / तादृशसिद्धावपेक्षितस्य पक्षतावच्छेदकसामानाधिकरण्येन आपाद्याभावनिश्चयस्य मङ्गलविशेष उक्तापाद्याभावस्य सत्त्वेन सुलभत्वादिति भावः /

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88