Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 49
________________ तत्त्वचिन्तामणौ सरहत्ये - नन्वासन्नसमयस्तत्सम्बन्धो वा न मङ्गलजन्य इति समाप्तिमात्रं जन्यं, तच्चैहिकामुष्मिकसाधारणमिति चेत् , न; आसन्नसमयस्य स्ववृत्तिसमाप्त्युपलक्षकत्वात्। अन्यथा कारीयेपि नासन्नसमयफला स्यात् / तस्माद् व्यभिचारान्न तदङ्गमिति / अन्ये तु मङ्गलं प्रधानम् , अदृष्टद्वारा आरब्धकर्मसमाप्तिः फलम् , तत्कामोऽधिकारी; क्वचित्तु फलाभावः, कर्मादिवैकल्यात् , कारीरीवत् / आसन्नसमयस्य विशेषणत्वमभिप्रेत्य शङ्कते 'नन्वि'ति / 'स्ववृत्ती'ति, आधेयतया मङ्गलफलीभूतसमाप्तीनां परिचायकत्वादित्यर्थः। तथा च तत्र मङ्गलकार्यत्वान्वयेऽपि न क्षतिरिति भावः। 'तस्मादि'ति, 'व्यभिचारात्' नास्तिकसमाप्तौ स्वोत्पत्यवच्छेदकजातीयत्वसम्बन्धेन मङ्गलजन्यविघ्नध्वंसस्य व्यभिचारात् , 'न तदङ्गमिति न स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन फलीभूतसमाप्तिकर्त्त शरीरनिष्ठतया समाप्तिजनकीभूतं विघ्नध्वंसं द्वारीकृत्य मङ्गलं समाप्तिजनकमित्यर्थः / यद्यपि सति विघ्ने तध्वंसद्वारा तस्याङ्गत्वादिति पूर्वमभिधानाद् विघ्नस्थलीयसमाप्तित्वमेव कार्यतावच्छेदकम् , तथा च नास्तिकशरीरकर्तृकसमाप्तौ व्यभिचारेऽपि न क्षतिः, तत्कतकसमाप्तः कार्यतावच्छेदकानाक्रान्तत्वात् / न च तादृशसमाप्तित्वस्य कार्यतावच्छेदकत्वं वेदेन न बोध्यत इति वाच्यम् , कारणतामानं हि वेदो बोधयति, कार्यतावच्छेदकञ्चोत्तरकालकल्प्यम् , तथापि विघ्नस्थलीयत्वं विघ्नवज्जातीयशरीरकत कत्वम् , तच्च तादृशशरीरनिष्ठकृतिजन्यत्वम् / तथा च कृतौ समाप्तिजनकतायां गृहीतायामेव मङ्गले समाप्तिकारणताग्रहसम्भवादन्यथासिद्धिः, अतो न तत् कार्यतावच्छेदकम् , किन्तु समाप्तित्वमात्रम् / अतो नास्तिकसमाप्तिरपि कार्यतावच्छेदकाक्रान्तेति भावः / एतच्चोपलक्षणम्। विघ्नवज्जातीयशरीरनिष्ठकृतिजन्यत्वस्य चानुगतस्य अभावादनन्तकार्यकारणभावापत्तेश्वेत्यपि बोध्यम् / मीमांसकैकदेशिमतमाह 'अन्ये विति / 'प्रधानम्' आरब्धकर्मणो नाङ्गम् , न आरब्धकर्मजन्यसमाप्तिजनकमिति यावत् / आरब्धकर्मजन्यसमाप्तिश्च चरमवर्णरूपा, तध्वंसरूपा वा। एतच्चापूर्वद्वारकत्वे लौकिकफलाङ्गत्वविरोध इति पूर्वोक्तदोषवारणायाभिहितम् / 'आरब्धकर्मसमाप्तिः' आरब्धकर्मोत्पत्तिः, “फलं' तस्य फलम्, सा चातीन्द्रियत्वेनालौकिकी एवेति भावः / ___ नन्वेवं विघ्नध्वंसकामनया मङ्गले शिष्टप्रवृत्तिर्न स्यादित्यनेष्टापत्तिमाह 'तत्काम' इति / आरब्धकर्मोत्पत्तिकामनैव मङ्गले शिष्टप्रवृत्तिजनिका, न तु विघ्नध्वंस

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88