Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 47
________________ तत्त्वचिन्तामणौ सरहस्ये लोकावगतकारणे हि दुरिते सति वेदेन तस्य तद्ध्वंसजनकत्वं बोध्यते; न तु तदुल्लङ्घय / अत एव तत्त्वज्ञानवतो भोगार्थ निषिद्धानुष्ठानं दोषाभावानाधर्मजनकमिति न तद्वेदाप्रामाण्यम् / प्रमाणान्तरात् स्वतः सिद्धदुरिताभावावगतौ मङ्गलाकरणे नित्यवदनुष्ठानं शिष्टानां भज्येतेति चेत् , न; विघ्नज्ञानवतो नित्यवदनुष्ठानादिति सम्प्रदायो। मैवम् , मङ्गलं विनापि प्रमत्तानुष्ठितसमाप्तेः। यद्यपि फलोपधायकत्वं न विध्यर्थः, किन्तु स्वरूपयोग्यत्वं, तस्य च सहकारिविरहेण क्वचित् फलानुपधानेऽपि सम्भवात् कुतोऽप्रामाण्यम् ? तथापि साङ्गवैदिककर्मत्वव्यापकं फलोपधानम्। अतस्तदभावेन साङ्गे तस्मिन् साङ्गवेदबोधितकर्मत्वाभावः सिध्यन् तद्बोधकविधेर्वेदत्वाभावमादाय सिध्यति, वेदत्वाभावश्च सिध्यन् शब्दतदुपजीविप्रमाणातिरिकप्रमाणजन्यप्रमित्यविषयार्थके तस्मिन् प्रमाणत्वाभावमादायैव पर्यवस्यतीति क्रमेणाप्रामाण्यं स्यादिति भावः / 'लोकावगतकारणे होति / 'हि' यस्मात् , 'लोकावगतकारणे दुरिते सती ति योजना, 'वेदेन' वेदसहकृतप्रमाणान्तरेण, वेदस्य फलोपधायकत्वाबोधकत्वाद् यथाश्रुतासङ्गतः। 'तस्य' मङ्गलस्य, 'तद्ध्वंसजनकत्वं' दुरितध्वंसोपधायकत्वम् , 'न तु तदुल्लध्य' न लोकावगतकारणदुरितं विना / तथा च दुरितध्वंसजनने दुरितस्याप्यङ्गतया साङ्गत्वाभावादेव तत्र विशिष्टाभावसिद्धिः, न तु वेदस्य प्रामाण्याभावादिति भावः / एतदेव दृष्टान्तेन द्रढयति 'अत एवेति / 'निषिद्धानुष्ठानम्' इत्युपलक्षणम् / विहितानुष्ठानमपि न धर्मजनकमित्यपि बोध्यम् / 'मङ्गलाकरण' इति, निष्फलत्वादिति भावः / 'विघ्नज्ञानवत' इति, तथा च सर्वेषां शिष्टानां नित्यवदनुष्ठानमेवासिद्धमिति भावः / 'सम्प्रदायः' मीमांसकसम्प्रदायः। इह खलु 'सकलशिष्टैकवाक्यतया' इत्यारभ्य सम्प्रदायमतं, तद् दूषयति 'मैवमिति / मङ्गलव्यापारीभूतस्य तज्जन्यविन्नध्वंसस्य स्वोत्पत्त्यवच्छेदकजातीयतासम्बन्धेन फलीभूतसमाप्तिकर्तृशरीरनिष्ठतया समाप्तिकारणत्वम् , उत आश्रयता. सम्बन्धेन तादृशात्मनिष्ठतयों वा ? आये व्यभिचारमाह 'मङ्गलं विनापी'त्यादिना / 'मङ्गलं विनापि' ऐहिकमङ्गलं विनापि, 'प्रमत्तानुष्ठिते'ति, प्रमत्तनास्तिकशरीरे कर्तृता 1. सम्प्रदाय विद इति ख० / 2. वेदत्वं च नाम शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकप्रमाणशब्दत्वम् / 3. कष्टकफलत्वादितीति ग० / 4. सम्प्रदायविदां मतमिति ख० / 5. फलीभूतसमाप्तिकर्तृ निष्ठतयेत्यर्थः /

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88