Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः न च तेन विनापि सिद्धतस्तदङ्गम् / न च जन्मान्तरीयं तत् , जन्मान्तरीयग्रन्थादिकमुद्दिश्य शिष्टैस्तदकरणात् / ननु यथा पुढेष्टौ कर्मसाद्गुण्ये ऐहिकफलाभावे आमुष्मिकं फलं, तथा साङ्गेऽपि मङ्गले यत्र न फलं तत्रामुष्मिकफलमिति चेत् , न; तत्र पुत्रमात्रस्य कामनाश्रवणात् / इह तु प्रारिप्सितसमाप्तिकामनया मङ्गलाचार इति, तथैव वेदानुमानात् कारीरीवदासनसमयारब्धसमाप्तिः फलम् / सम्बन्धेन समाप्त्युत्पत्तरित्यर्थः। तथा चैहिकमङ्गलाभावेन समाप्तिकर्तरि तच्छरीरे वा विघ्नध्वंसस्योत्पत्तेरवश्यम्भावात् स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन विघ्नध्वंसो व्यभिचारीति भावः / ननु जन्मान्तरीयशरीरकृतमङ्गलादेव प्रमत्तादिशरीरे विघ्नध्वंसोत्पत्तिरित्यतो न व्यभिचार इत्यत आह 'न चेति / 'तेन विनापि' अव्यवहितपूर्वक्षणे तेन विनापि, 'सिद्धतः' उत्पद्यमानस्य, 'तदङ्गम् तत्कारणम् , तथा च जन्मान्तरकृतमङ्गलानास्तिकशरीरे विघ्नध्वंसोत्पादे विघ्नध्वंसं प्रति मङ्गलं कारणमेव न स्याद् , अव्यवहितपूर्ववर्तित्वस्य कारणताशरीरत्वादिति भावः / अन्त्यमभिप्रेत्य शकते 'न चेति / 'जन्मान्तरीयमिति जन्मान्तरीयमङ्गलाज्जन्मान्तरोत्पन्नं विघ्नध्वंसवत्त्वमित्यर्थः / 'तत्' प्रमत्तकर्त्त कसमाप्तौ कारणम् , 'जन्मान्तरीयग्रन्थमुद्दिश्य'ति जन्मान्तरीयग्रन्थसमाप्तिमुहिश्येत्यर्थः / तथा च जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्य मङ्गले शिष्टप्रवृत्त्यापत्त्या यथोक्तक्रमेण मङ्गलस्य न समाप्तिकारणत्वमिति भावः। पुत्रेष्टिरपि जन्मान्तरीयपुत्रमुद्दिश्य न क्रियत इति भ्रमेणाशङ्कते 'ननु यथेति / तथा च तत्र यथा जन्मान्तरीयपुत्रमुद्दिश्य शिष्टैः करणप्रसङ्गरूपबाधकसत्त्वेऽप्यात्मनिष्ठतया व्यापारीभूतस्यादृष्टस्य हेतुत्वं , तथात्रापि विघ्नध्वंसस्यात्मनिष्ठतयैव हेतुत्वमिति भावः। भ्रमं निराकृत्य दूषयति 'तत्रे'ति / 'कामनाश्रवणादित्यस्य' जन्मान्तरोयपुत्रमुद्दिश्यापि शिष्टैः करणादिति शेषः।। 'इह त्वि'ति फलमित्यन्तमेको ग्रन्थः, 'प्रारिप्सितसमाप्तिकामनया मङ्गलाचारः' प्रारिप्सितसमाप्तिकामनयैव मङ्गलाचारः। जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यर न मङ्गलाचार इति यावत् / 'तथैव' स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन फलीभूतसमाप्तिकर्तृशरीरनिष्ठतया मङ्गलजन्यविनध्वंसस्य समाप्तिकारणताबोधकत्वेनैव / 'वेदानुमानात्' वेदस्यानुमेयत्वात् , 'आसन्नसमयेति मङ्गलानुष्ठानसन्निहितसमयेत्यर्थः / 'फलं' फलोपधानात्मकमङ्गलजन्यताश्रयः। 1. जन्मान्तरीयग्रन्थादिकमुद्दिश्येतीति ग० / 2. मङ्गलजन्यविघ्नध्वंसस्येति ख० / 3. स्वोक्तेवकारव्यवच्छेद्यमाह जन्मान्तरीयेति /

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88