Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः विघ्नानुत्पादस्य व्यापारत्वे मानाभावात् , संसर्गाभावत्वेन हेतुत्वात् / तथैव व्यापारत्वम् / तच प्रागभावेऽप्यस्तीति चेत् , न; अत्यन्ताभावविनद्वयनाशं प्रति मङ्गलद्वयत्वेन, विघ्नत्रयनाशं प्रति मङ्गलत्रयत्वेनेत्यादिप्रातिस्विकरूपेण नाश्यनाशकभाव इति वाच्यं, तथापि भूयोविघ्नस्थले एकद्वथादिमङ्गलत एकद्वयादिविघ्न [ नाशो भवन् ] नाशस्य भवनेन विनिगमनाविरहेण सर्वेषामेव विघ्नानां नाशस्य दुर्वारत्वात् / ___केचित्तु मङ्गलत्वेन विघ्नत्वेनैव नाश्यनाशकभावः, कार्यकारणभावस्तु एकविघ्नस्यलीयसमाप्तौ एकमङ्गलत्वेन, विघ्नद्वयस्थलीयसमाप्तौ मङ्गलद्वयत्वेन, विघ्नत्रयस्थलीयसमाप्तौ मङ्गलत्रयत्वेनेत्यादिप्रातिस्विकरूपेण / विघ्नस्थलीयत्वञ्च प्राक्निरुक्तमेव / तेन कृतेऽपि मङ्गले विघ्नस्य ततो भूयस्त्वान्न 'सिद्धिरित्याहुः, तदप्यसत् ; विघ्नभूयस्त्वेऽपि एकद्वयादिमङ्गलादेकद्वयादिविघ्नस्थलीयसमाप्त्यापत्तेर्दुर्वारत्वात् कारणसत्त्वादिति कृतं पल्लवितेन / विघ्नानुत्पादस्येति विघ्नप्रागभावस्येत्यर्थः / 'व्यापारत्वे' मङ्गलजन्यत्वे, 'मानाभावादिति विघ्नप्रागभावं प्रति मङ्गलस्यानन्यथासिद्धत्वे मानाभावात् / यथोक्तजन्यताया अपि अनन्यथासिद्धत्वघटितत्वाद् यथोक्तरूपमपेक्ष्य लाघवेन तत्कारणकत्वस्यैव तज्जन्यतात्मकत्वाच्च / ___ न च यत्र स्वतःसिद्धो विघ्नाभावः, तत्रत्यमङ्गलपक्षकफलोपधानाभावहेतुकसाङ्गवेदबोधितकर्मत्वाभावानुमानादुक्तक्रमेण निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत्' इति वेदाप्रामाण्यसिद्धिप्रसङ्ग एव विघ्नप्रागभावस्य मङ्गलजन्यत्वे मानम् / अत एव यथोक्तरूपस्य गुरुत्वेऽपि तदेव जन्यत्वं, प्रामाणिकगौरवस्यादोषत्वादिति वाच्यम् ; विघ्नध्वंसजनने विघ्नस्याप्यङ्गतया साङ्गत्वाभावादेव तत्र' साङ्गवेदबोधितकर्मत्वाभावसिद्धिसम्भवेनाप्रामाण्यसिद्धिप्रसङ्गविरहात् / अन्यथा तन्मतेऽपि यत्र कृतेऽपि मङ्गले न समाप्तिः, तत्र समाप्त्युपधायकत्वाभावेन वेदाप्रामाण्यसिद्धिप्रसङ्गस्य दुर्वारत्वात् / यत्र विघ्नस्य प्रागभावो नास्ति, तत्र वेदाप्रामाण्यसिद्धिप्रसङ्गस्य दुर्वारत्वाच्चेति भावः / / विघ्नध्वंसस्य व्यापारताया उभयसिद्धत्वाभिमानेन शङ्कते 'संसर्गाभावत्वेने ति विघ्नसंसर्गाभावत्वेनेत्यर्थः। 'हेतुत्वात्' मङ्गलजन्यविघ्नध्वंसस्य समाप्तौ हेतुत्वात् / 'तथैव' विघ्नसंसर्गाभावत्वेनैव, 'व्यापारत्वं' विघ्नध्वंसस्य मङ्गलजन्यत्वम् , व्यापारस्य फलं प्रति येन रूपेण कारणत्वं तेनैव रूपेण करणजन्यत्वस्यौत्सर्गिकत्वाद् ज्ञानसंस्कारादिरथले तथा दृष्टत्वादिति भावः / तच्च' विघ्नसंसर्गाभावत्वञ्च, 1. अस्मात् पूर्व मङ्गलसमाप्त्योरिति योज्यम् / 2. न समाप्तिरिति क.। 3. स्वतःसिद्धविघ्नविरहवनिष्ठे मङ्गले इत्यर्थः।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88