Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ . प्रत्यक्षखण्डे मङ्गलवादः किञ्चित्करत्वेन वेदाप्रामाण्यमिति निरस्तम् / अनागतविघ्नामावस्य' तत्रापि साध्यत्वात् / “सर्वे विघ्नाः शमं यान्ति” इति यत्र विनायकस्त वपाठादौ श्रुतमस्ति, तत्र तत एव प्रमत्तानुष्ठितसमातेरनादौ संसारेऽवश्यं तदाचारात्, तथा च तेन समं मङ्गलस्य विकल्प एव / अत एवेत्यर्थः। 'अकिञ्चित्करत्वेन' विघ्नसंसर्गाभावरूपव्यापारानुपधायकत्वेन, 'वेवाप्रामाण्यमिति' विशेषणीभूतविघ्नसंसर्गाभावस्यापि मङ्गले कारणताग्राहकस्य "निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत्" इति मङ्गले विशिष्टसमाप्तिसाधनताबोधकवेदस्याप्रामाण्यमित्यर्थः। यद्यपि फलोपधायकत्वं न वेदार्थः, किन्तु स्वरूपयोग्यत्वम्। तच्च क्वचित् फलानुपधानेऽपि सम्भवति, इति कुतो वेदस्याप्रामाण्यम् ? तथापि साङ्गवेदबोधितकर्मत्वव्यापकं फलोपधानम् , अतस्तदभावेन साङ्गे तस्मिन् साङ्गवेदबोधितकर्मत्वाभावः सिध्यन् तद्बोधकविधेर्वेदत्वाभावमादाय सिध्यति / वदत्वाभावः सिध्यन् शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थके तस्मिन् प्रमाणत्वाभावमादायैव पर्यवस्यतीति क्रमेण वेदस्याप्रामाण्यमिति भावः / 'अनागतविनाभावस्य, अनागतविघ्नप्रागभावोपधायकत्वस्य, 'तत्रापि' मङ्गलेऽपि 'साध्यत्वात् वेदबोधितत्वात् / ननु मङ्गलजन्यापूर्वस्य स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन मङ्गलकर्तृशरीरनिष्ठतयैव कारणत्वं वाच्यम्, अन्यथा समवायसम्बन्धेनात्मनिष्ठतया कारणत्वे जन्मान्तरीयग्रन्थसमाप्तिमुद्दिश्यापि मङ्गले शिष्टप्रवृत्त्यापत्तेः / तथा च प्रमत्तशरीरानुष्ठितसमाप्तिः कथं स्यात् ? तच्छरीरे तेन सम्बन्धेन मङ्गलजन्यापूर्वविरहादित्यत आह 'सर्वे विघ्ना' इति / 'पाठः' तदनुकूलकण्ठाभिघातादिः, 'तत एव' तज्जन्यापूर्वत एव , 'तदाचारात्' जन्मान्तरे तदाचरणात् / नन्वेवं यथोक्तसम्बन्धेन मङ्गलजन्यादृष्टं व्यभिचार्यवेत्यत आह 'तथा चेति / 'मङ्गलस्य' मङ्गलजन्यापूर्वस्य 'विकल्प एव' इति मङ्गलनाश्यतावच्छेदकवैजात्याक्रान्तविघ्नस्थलीयसमाप्ति प्रति मङ्गलजन्यापूर्व हेतुः, तादृशस्थलीयेतरसमाप्ति प्रति च विनायकस्तवपाठादिजन्यमपूर्व हेतुः, कारणत्वञ्च व्रीहियव. करणकयागवत् परस्पराभावविशिष्टत्वेन, तेन नोभयोरनुष्ठाने परस्परविरुद्धतत्कार्यद्वयप्रसङ्ग इत्यर्थः। न च विनायकस्तवपाठादिजन्यापूर्वस्य सामान्यतः समाप्तिमात्रं प्रत्येव हेतुत्वमस्तु, सर्वत्रान्ततो जन्मान्तरीयस्येव तस्य सुवचत्वात् / 1. अनागतविघ्नानुत्पादस्येति ख०, अनागतविघ्नप्रागभावस्येति ग० /

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88