Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ 57 प्रत्यक्षखण्डे मङ्गलवादः समाप्तेः, वैपरीत्येऽपि समाप्तेश्च बहुत्वस्य त्रिचतुरादिभावेन', अन्पत्वस्य चैकद्वयादिरूपतया' अननुगमेन तादृशशिष्टाचारेण तादृशश्रुत्या बोधयितुमशक्यत्वाच / तस्मान्मङ्गलं नाङ्गं, न वा प्रधानमिति पूर्वपक्षसंक्षेपः / ___ इति मङ्गलवादे पूर्वपक्षः। शहिताल्पतरविघ्नसमाप्तेरनुदयादित्यर्थः / 'वैपरोत्येपोति बहुतरविघ्नज्ञानवतोsप्यल्पमङ्गलात् समाप्तः, अल्पविघ्नज्ञानवतोऽपि बहुतरमङ्गलात् 'समाप्तेरित्यर्थः। तथा च व्यतिरेकव्यभिचार इति भावः / ____ 'त्रिचतुरादिभावेने ति त्रित्वचतष्ठादिरूपत्वेनेत्यर्थः। 'एकद्वयादिरूपतया एकत्वद्वित्वरूपतया। न च द्वित्वैकत्वभिन्न सङ्घथात्वेन त्रित्वत्वेन वाऽनुगमः, चतरादिस्थलेऽपि त्रयाणां सत्त्वादिति वाच्यम् ; मङ्गलस्याद्रव्यतया तवृत्तित्रित्वादेः सङ्ख्यानात्मकत्वेन तवृत्तित्रित्वत्वादेरप्यननुगतत्वादिति भावः। 'नाङ्ग, न वा प्रधानम्' इति नारब्धकर्मजन्यसमाप्तिजनकं, न वा तदजन्यतदुत्पत्तिजनकमित्यर्थः / इति मङ्गलवादपूर्वपक्षरहस्यम् / 1. अस्याग्रेतनेन 'बोधयितुमशक्यत्वात्' इत्यनेनान्वयः / 2. अस्याप्यग्रिमेण 'बोधयितुमशक्यत्वात्' इत्येतेनान्वयः। 3. एकजातीय एकमङ्गले कृतेऽपि विघ्नद्वयस्थले शङ्किताल्पतरविघ्नसमाप्तिर्न भवतीति भावः। 4. 'वस्तुतो विघ्नाल्पत्वे' इति 'समाप्त!' इत्येतत्पूर्व योज्यम् / 5. 'समाप्तेः' इत्येतत्पूर्वं 'वस्तुतो विघ्नबहुत्वे' इति योज्यम् /

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88