Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 46
________________ प्रत्यक्षखण्डे मङ्गलवादः अत एव बद्धशिखत्वादौ न प्रधानदेशकालान्वयः। न च दुरिताभावे स्वतः सिद्धे साङ्गमङ्गलानुष्ठानं निष्फलमिति तद्वेदाप्रामाण्यम् / तत्संयोगविशेषध्वंसमात्र, तथा सति जुटिकाबन्धनादिकाले कराभिघातादिना तादृशसंयोगविशेषनाशेऽदृष्टनाशात् कर्मणो निष्फलत्वापत्तितादवस्थ्यं, किन्तु तादृशसंयोगविशेषसामग्र्यसमवहितोत्पत्तिकमन्त्रपूर्वकतत्संयोगविशेषनाश एव मोक्षणमिति भावः। त्वन्तानुयायिनस्तु निरुक्तमोक्षणं न तददृष्टनाशकं, किन्त्वनापूर्ववत् स्वजन्यपरमापूर्वान्तरमेव तददृष्टनाशकं, मोक्षणेऽपि कर्म साङ्गं भवत्येव, किन्तु “सदोपवीतिना भाव्यं सदा बद्धशिखेन तु" इत्यनेन सार्वकालिकशिखाधारणस्यापि विहिततया तंदकरणात् पुरुषस्य प्रत्यवायमात्रम् / न च स्वजन्यपरमापूर्वस्य तदपूर्व. नाशकत्वे यत्रैकयैव शिखया नानाकर्मानुष्ठानं, तत्र प्रथमकर्मजन्यपरमापूर्वेणैव तज्जन्यापूर्वनाशाद् द्वितीयादिकमणोऽङ्गवैगुण्यापत्तिरिति वाच्यम् , प्रथमकर्मजन्यपरमापूर्वेण तदपूर्वनाशेऽप्यवस्थितशिखया पुनरपूर्वान्तरजननात् / न च मन्त्रपूर्वकशिखाया उत्पत्तिसम्बन्धेनैवा पूर्वजनकत्वम् , अन्यथा धारावाहिकापूर्वोत्पत्तिप्रसङ्गादिति कथमवस्थितशिखयाऽपूर्वान्तरोत्पत्तिरिति वाच्यं , शिखाजन्याङ्गापूर्व प्रति शिखाजन्याङ्गापूर्वस्य प्रतिबन्धकत्वादेव धारावाहिकापूर्वानुत्पत्तेः, क्रमिकशिखाद्वयस्थले द्वितीयशिखयाऽपूर्वाजननेऽपि क्षतिविरहात् प्राथमिकशिखाजन्यापूर्वत एव कर्मसाङ्गतोपपत्तेरित्याहुः / 'बद्धशिखत्वादाविति शिखाबन्धनादावित्यर्थः / यद्वा बद्धशिखादावित्यर्थः, तेन बन्धनस्यानङ्गत्वेऽपि न क्षतिः / 'न प्रधानदेशकालान्वयः' न प्रधानदेशकालसहकारेणैवाङ्गापूर्वजनकत्वनियमः / 'न चे'ति, 'स्वतः सिद्धे' दुरितकारणाभावप्रयुक्ते, 'निष्फलं' विनध्वंसानुपधायकं, ध्वंसं प्रति प्रतियोगिनोऽपि हेतुत्वादिति भावः / 'तद्वेदाप्रामाण्यमिति विशेषणीभूतविघ्नध्वंसं प्रत्यपि जनकताबोधकस्य निर्विघ्नसमाप्तिकामो मङ्गलमाचरेद्' इति विशिष्टसमाप्तिकारणताबोधकवेदस्याप्रामाण्यमित्यर्थः। 1. कर्मणोऽङ्गवैगुण्यतादवस्थ्यादिति ख० , ग० च / 2. तादृशेत्याद्युत्पत्तिकान्तं नाशस्य विशेषणम् / तदुपादानेन जुटिकाबन्धनस्थलीयस्य काराभिघातादिजस्य शिखानाशस्य न मोक्षणत्वं, तस्य जुटिकात्मकताशसंयोग विशेषसामग्र्या समवहितत्वात् / 3. त्वन्तं 'किन्तु' इति, तदनुयायिनः तेनोक्तस्य शिखामात्रं नाङ्गम्, किन्तु 'मन्त्रविशिष्टव शिखा' इति मतस्यानुयायिन इत्यर्थः। 4. शिखाधारणस्याकरणादित्यर्थः /

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88