Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 44
________________ प्रत्यक्षखण्डे मङ्गलवादः अपि च प्रधानकर्तव्यताबोधकबोध्यकर्तव्यताकत्वं प्रयोजक, तच्चेहाप्यस्ति; प्रतिबन्धकामावस्य सकलकार्यहेतुत्वेन लौकिकप्रमाणस्यापि तत्सापेक्षत्वात् / नन यागादिवत् प्रधानदेशकालान्वयस्तदङ्गे मङ्गले स्यादिति चेत् , न; असाधारणेपूर्वजनके चाङ्गे तदन्वयात् / उभयत्रैव विधित्वमतन्त्रं गौरवादित्याशयेनाह 'अपि चेति / 'प्रधाने ति प्रधानकर्तव्यताबोधकापेक्षणीयबोध्यकर्तव्यताकत्वमित्यर्थः। 'प्रयोजकम्' वैदिकाङ्गत्वव्यापकम् / 'इहापि' मङ्गलेऽपि, 'प्रतिबन्धकामावस्य' मङ्गलजन्यविघ्नध्वंसस्य, 'सकलकार्यहेतुत्वेन' सकलप्रारब्धकर्मजन्यसमाप्तिहेतुत्वेन, 'लौकिकप्रमाणस्यापि' प्रारब्धकर्मकर्तव्यताबोधकलौकिकप्रमाणस्यापि, 'तत्सापेक्षत्वात्' मङ्गलकर्तव्यताबोधकसापेक्षत्वात् / एतच्चापाततोऽपेक्षाया दुर्वचत्वात् / ननु तद्देशकालसहकारेणैव व्यापारजनकत्वस्य तदीयवैदिकाङ्गत्वव्यापकतया मङ्गलस्य प्रारब्धकर्मवैदिकाङ्गत्वे तद्देशकालसहकारेणैव विघ्नध्वंसजनकत्वं स्यात् / न चेष्टापत्तिः, देशान्तरे कालान्तरेऽपि शिष्टमङ्गलाचरणादित्याशङ्कते 'यागादिवदिति अङ्गयागादिवदित्यर्थः / 'प्रधानदेशकालान्वय:' प्रारब्धकर्मदेशकालसहकारेणैव व्यापारजनकत्वं, 'तदङ्ग तदीयवैदिकाङ्गे। क्वचित्त वतिशून्यः पाठः, तत्र यागादि यत्प्रधानं तद्देशकालान्वयो यागाद्यङ्ग स्यादित्यर्थः। यद्यपि स्थूलदेशकालावादाय मङ्गलस्यापि तदुभयान्वयसम्भवः, सूक्ष्मदेशकालावादाय प्रयाजादेरप्यसम्भवः, तथापि प्रधानकर्त्तव्यताबोधकप्रमाणेन यादृशापराहादिकाले दक्षिणाप्लवनादिदेशे प्रधानानुष्ठानं बोधितं, तदीयवैदिकाङ्गानां तथाविधदेशकालसहकारेणैव व्यापारजनकत्वनियम इत्यर्थः / लौकिकस्य प्रधानत्वे त देशकालनियमः केनापि न बोधित इति भावः। ____ 'असाधारण' इति / 'अङ्गे वैदिकाङ्गे, 'तदन्वयात्' प्रधानदेशकालसहकारेणैव व्यापारजनकत्वनियमात् / अत्रापूर्वजनकाङ्गत्वमात्रं शिखाबन्धने व्यभिचारीति तद्वारणाय 'असाधारणे'ति, असाधारणत्वञ्च न यावद्वैधकर्माङ्गान्यत्वं, शिखाबन्धनस्यापि वामागमबोधिताद्यनङ्गत्वेन तथात्वात् ; किन्तु वैधेफलजनकतावच्छेदकद्वयावच्छिन्नस्यानङ्गत्वम् / न च शिखाबन्धनं तथा, बहुतरकर्माङ्गत्वात् / दक्षिणागमबोधितयावत्कर्मानङ्गत्वं वा तत् / शिखाङ्गकयावत्कर्माङ्गान्यत्वं तदिति केचित् / असाधारणत्वमानं पापक्षयद्वारा यागाङ्गभूते 1. प्रारब्धकर्माङ्गकत्वे इति का / 2. यावतां वैधकर्मणां यदङ्गं तदन्येषामित्यर्थः / 3. वैधेति फलाद्यवच्छिन्नान्तस्य विशेषणम् /

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88