Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 45
________________ वस्वचिन्तामणो सरहस्ये आसनप्राणायामादौ व्यभिचारीति तद्वारणाय 'अपूर्वजनके'ति / अपूर्वजनकाङ्गत्वश्च अपूर्वद्वाराङ्गत्वम् , अन्यथा समाप्तिकामनया दिनान्तरक्रियमाणे शिवपूजादिरूपमङ्गले आनषङ्गिकादृष्टजनके व्यभिचारापत्तः / न च पूर्वदिनविहिताधिवासाश्वमेघाङ्गभूताश्वरक्षण-लक्ष्मीपूजाङ्गचतुष्पथदीपदानादौ२ व्यभिचार इति वाच्यं, विशेषविधिं विनेति विशेषणात् / / ननु केशस्य त्रिवृतसंयोगविशेषः शिखा, तद्वन्धनश्च तदनुकूलक्रिया, सा च नाङ्गं, किन्तु शिखैव, 'विशिख' इति श्रवणात् ; तस्याश्च नापूर्वद्वाराङ्गत्वं, स्थिरत्वेन परमापूर्वकालपर्यन्तस्थायित्वात् / तथा च किमसाधारणत्वविशेषणेन ? अपूर्वजनकत्वदानेनैव वारणात् / न च शौचादिहेतुमृद्ग्रहणादौ व्यभिचारवारणाय तदिति वाच्यं, तस्याप्यपूर्वाजनकत्वाद् , अंशुद्धधात्मकवैधकर्मप्रतिबन्धकादृष्टध्वंसरूपत्वात् शौचपदार्थस्येति / मैवं शिखामात्रं हि नाङ्गं, किन्तु मन्त्रविशेषविशिष्टैव, अन्यथा मन्त्रोपदेशवैयाद्, विशिष्टा च न परमापूर्वपर्यन्तस्थायिनी, मन्त्रस्यास्थिरत्वाद्; अतोऽदृष्टं द्वारमावश्यकम् / न च विशिष्टस्य तावत्कालानवस्थायित्वेऽपि न क्षतिः, कारणतावच्छेदकपूर्वसत्त्वस्यानपेक्षितत्वादिति वाच्यं, तत्पूर्वसत्त्वमप्यपेक्षितमित्यन्यत्रे व्यवस्थापितत्वाद्, अन्यथा व्यभिचारात् / माँस्तु वा कारणतावच्छेदकपूर्वसत्त्वमपेक्षितं, तथापि मन्त्रपूर्वकशिखाबन्धनानन्तरं जुटिकाबन्धनादिकाले कराभिघातादिना मन्त्रपूर्वकसंयोगविशेषात्मकशिखानाशेऽपि कर्मणोऽङ्गवैगुण्यवारणायादृष्टं द्वारमावश्यकम् / न चादृष्टस्य द्वारत्वेऽदृष्टोत्पत्त्यनन्तरं शिखामोक्षणेऽपि कर्म साङ्गं स्यादिति वाच्यम् ; मोक्षणस्य स्वप्रतियोगिजन्यत्वसम्बन्धेनादृष्टनाशकत्वात् / मोक्षणश्च न मन्त्रपूर्वक 1. शिवनमस्कारादिरूपमङ्गले इति ख०, ग० च / 2. अश्वरक्षणादाविति ख०, ग० च / / 3. अशद्धधात्मकप्रतिबन्धकाधर्मध्वंसरूपत्वादिति क०। 4. कारणतावच्छेदकस्य पूर्वसत्त्वमित्यर्थः / 5. श्रोत्रस्य श्रावणहेतुत्वोपपादनस्थल इत्यर्थः / 6. कारणतावच्छेदकस्य पूर्वसत्त्वानपेक्षणे श्रोत्रगतायाः श्रावणकारणताया अवच्छेदिकायाः कर्णशष्कुल्या असत्त्वदशायां तदवच्छिन्नाकाशात्मनः श्रोत्रस्य सत्त्वेऽपि श्रावणानुत्पत्त्या अन्वयव्यभिचार इति भावः / / 7. श्रोत्रस्य कर्णशष्कुलीविशिष्टाकाशत्वेन न कारणता, तादृशाकाशत्वेनाकाशविशिष्टकर्ण शष्कुलीत्वेन वा कारणतेत्यत्र विनिगमकाभावेन गुरुतरकार्यकारणभावद्वयापेक्षया आकाशकर्णशष्कुल्योर्द्वयोरेव कारणतया कर्णशष्कुल्याः कारणतानवच्छेदकत्वेनोक्तरीत्या कारणतावच्छेदकस्य पूर्वसत्तायाः समर्थयितुमशक्यत्वादित्याशयः /

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88