Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 53
________________ 42 तत्त्वचिन्तामणौ सरहस्ये त्या बोध्यत इति चेत , न; तत्र दृष्टकारणसम्पत्तौ पुत्रानुत्पादाददृष्टद्वारा पुत्रेष्टेस्तजनकत्वमस्तु / न च कर्मनिर्वाहे दृष्टसकलहेतुसम्पत्तौ विलम्बः, येन मङ्गलजन्यादृष्टापेक्षा स्यात् / अपि च मङ्गलं विनापि प्रमत्तनास्तिकानुष्ठितसमाप्तेः न तत्तत्र कारणम् / ___ जन्मान्तरीयपुण्यसम्पत्तिस्तत्र हेतुरिति चेत् , न; तथापि व्यभिचारात् / कचित् पुण्यसम्पत्तिः, कचिन्मङ्गलं हेतुरिति व्रीहियववद्विकल्प एवेति चेत् , तर्हि तत्सत्त्वसम्भावनया नियतं मङ्गलानुष्ठानं न स्याद् यवप्रयोगे व्रीहेरिव, विकल्पे चोभयस्याशास्त्रार्थत्वात् / 'तत्समाप्तिसाधनत्वमिति मङ्गलस्य तदुत्पत्तिजनकत्वमित्यर्थः। कर्मनिर्वाहे' कर्मोत्पत्ती, 'येने ति तथा च बाधेन तादृशश्रतिरप्यसिद्धैवेति भावः / 'मङ्गलं विनापि' ऐहिकमङ्गलं विनापि, 'प्रमत्तनास्तिकेति प्रमत्तनास्तिकशरीरकर्तृकप्रारब्धकर्मोत्पत्तेरित्यर्थः / तथा च ऐहिकमङ्गलाभावेन स्वोत्पत्त्यवच्छेदकजातीयतासम्बन्धेन मङ्गलजन्यापूर्वासम्भवेऽपि आरब्धकर्मोत्पत्तेः; तेन सम्बन्धेन मङ्गलजन्यापूर्व तत्र व्यभिचारीति भावः। 'न तत्तत्र कारणमिति न तादृशसम्बन्धेन फलीभूतकर्मोत्पत्त्यवच्छेदकशरीरनिष्ठतया मङ्गलजन्यादृष्टं कर्मोत्पत्तिकारणमित्यर्थः / शङ्कते 'जन्मान्तरीयेति 'पुण्यसम्पत्तिः' प्रारब्धकर्मसमाप्तिकामनाकृतमहादेवपूजादिजन्यपुण्यसम्पत्तिः, 'तथापि व्यभिचारादिति स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन मङ्गलजन्यादृष्टस्य व्यभिचारादित्यर्थः। शकते 'क्वचिदिति विनस्थलीयेतरारब्धकर्मोत्पत्तौ कर्मान्तरजन्यपुण्यविशेषसम्पत्तिहेतुः, विघ्नस्थलीयारब्धकर्मोत्पत्तौ मङ्गलजन्यमदृष्टं स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धेन फलीभूतारब्धकर्मोत्पत्त्यधिकरणशरीरनिष्ठतया हेतुरित्यर्थः, शिष्टाचारानुरोधादिति भावः। नन्वेवं येन तत्कर्मान्तरं मङ्गलचोभयमेव कृतं तस्य विनिगमकाभावात् परस्परविरुद्धकार्यद्वयप्रसङ्गः, द्वयोरेव कारणसत्त्वादित्यत आह 'व्रीहियववदिति / तत्र यथा परस्पराभावविशिष्टत्वेन ब्रीहिकरणकयवकरणकयागयोः कारणत्वं, तथा प्रकृतेऽपि विघ्नस्थलीयेतरसमाप्तौ स्वोत्पत्त्यवच्छेदकजातीयत्वसम्बन्धावच्छिन्नप्रतियोगिताकमङ्गलजन्यपुण्यविशेषाभावविशिष्टकर्मान्तरजन्यपुण्यविशेषत्वेन कारणत्वं / विघ्नस्थलीयसमाप्तौ च कर्मान्तरजन्यपुण्यविशेषाभावविशिष्टमङ्गलजन्यपुण्यविशेषत्वेन कारणत्वं, वैशिष्ट्यश्च एककालावच्छेदेन एकशरीरवृत्तित्व• मित्यर्थः। अत एव कृतेऽपि साङ्गे मङ्गले क्वचित् फलाभावः, तत्र फलबलेन कर्मान्तरजन्यपुण्यविशेषस्य कल्पनादिति भावः। 'तत्सत्त्वसम्भावनये'ति जन्मान्तरीयकर्मान्तरजन्यपुण्यसत्त्वसम्भावनयेत्यर्थः। एकाभावविशिष्टापरस्यैव फलजनकत्वादिति भावः। 'यवप्रयोगे' यवकरणकयागे, 'उभयस्य मिलितस्य, 'अशास्त्रार्थत्वात्'

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88