Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 42
________________ प्रत्यक्षखण्डे मङ्गलवादः मङ्गले तु विनज्ञानवानधिकारीत्युक्तं, तच्च संशयेऽप्यस्ति / प्रधाने कर्तव्यतानिश्चयोऽस्त्येवेति द्वारसन्देहेऽपि युक्तमनुष्ठानम्। भविष्यद्विवाहादावाभ्युदयिकेऽपि तज्ज्ञानवानधिकारी तथैवाचारात् / नन्वङ्गानां प्रधानविधिविधेयत्वं, न च ग्रन्थादिसमाप्तौ प्रधानविधिरस्ति / न च तत्कर्त्तव्यता किश्चिदङ्गहानावपि कर्मनिष्पत्त्यभ्युपगमे तत एव यागनिष्पत्तिसम्भवेन प्रयत्नगौरवादङ्गाननुष्ठानापत्तेश्चेति, मैवं; स्फ्याश्लेषसंशयस्थले तस्यानङ्गत्वात् प्रकृतिवद्विकृतिरिति न्यायेनाङ्गत्वे कल्प्यमाने यत्र न बाधकं तत्रैव कल्पनात् / अत्र त्वधिकाराभावस्यैव बाधकत्वात् / यत्र त्वाप्तवाक्यादिना स्फ्याश्लेषनिश्चयस्तत्र पूर्वदिने तत्कर्त्तव्यमेवान्यथाङ्गबाधात् / अत एवैकादशाहक्रियमाणेऽधिवासाङ्गकगोयागविकृतीभूते वृषोत्सर्गेऽधिवासो नाङ्गं, कार्तिक्यादिक्रियमाणे त्वङ्गमेव / एवमशौचमध्यक्रियमाणे कर्मणि सन्ध्याया नाङ्गत्वं , तदतिरिक्तस्थले त्वङ्गत्वमेव / प्रकृतिविकृतिन्यायेनाङ्गत्वे कल्प्यमाने यत्राशौचादि बाधकान्तरं वा न वर्त्तते तत्रैवाङ्गत्वस्य कल्पनादिति दिक् / प्रकृतेऽनुष्ठानमुपपादयति 'मङ्गले विति, 'विघ्नज्ञानवानि ति विघ्नज्ञानमात्रं कारणमित्यर्थः / न चैवं द्वाराभावनिश्चयत्वेन प्रतिबन्धकत्वे गौरवं, लाघवात् 'तज्ज्ञानत्वेनैव प्रतिबन्धकत्वस्यैवोचितत्वादिति वाच्यम्, आचारानुमितश्रुत्या विनज्ञानमात्रस्य कारणत्वे बोधिते प्रामाणिकगौरवस्यादोषत्वादिति भावः। ननु 'नैमित्तिके निमित्तनिश्चयवानधिकारी'त्युक्तं तत्कथं विवाहादिनिमित्तसंशयेऽपि नैमित्तिकश्राद्धानुष्ठानम् ? इत्यत आह 'भविष्यदिति / तत्राचारबलाद् निमित्तज्ञानमात्रमेवाधिकार इत्यर्थः / 'नैमित्तिके निमित्तनिश्चयवानधिकारी'ति नियमो वृषोत्सर्गादाविति भावः। न च विवाहो न निमित्तं, किन्तु सीमन्तोन्नयनादिवद्विवाहे श्राद्धमङ्गमेव, तथा च तत्सन्देहेऽपि तत्र प्रवृत्तौ न किश्चिद् बाधकमिति कथं 'भविष्यदिति ग्रन्थोत्थितिः ? इति वाच्यं, नूतनगृहप्रवेशादौ लौकिकविवाहादौ च वृद्धिश्राद्धं नाङ्गम् , इष्ट पुंसवने चैव सीमन्तोन्नयने तथा / एतेष्वेव प्रधानेषु श्राद्धकर्माङ्गमिष्यते // इति वचनान्नैमित्तिकमेवेत्यभिप्रायात् / 1. द्वाराभावज्ञानत्वेनैवेत्यर्थः /

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88