Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 40
________________ प्रत्यक्षखण्डे मङ्गलवादः રહ अपि चेज्याकर्त्तव्यतानिश्चये तदङ्गानुष्ठानं, न चाश्लेषसंशये तन्निश्चयः पूर्वदिने। अतः प्रधानेऽधिकाराभावान्नाङ्गेऽधिकार इति नावाहनं पूर्वदिने। स्फ्याश्लेषनिमित्तनिश्चयस्य प्रधाने प्रवर्तकत्वेनाङ्गेऽपि प्रवर्तकत्वात् / तत्र प्रवर्तकस्य तदीयवैदिकाङ्गेऽपि प्रवर्तकत्वनियमात् / अत एव प्रधानचिकीर्षाया एव वैदिकाङ्गे प्रवर्तकत्वम् , प्रकृते च विनध्वंसो न निमित्तं , किन्तु व्यापार एव / अतस्तत्सन्देहेऽनुष्ठाने न किञ्चिद् बाधकमिति भावः। नन यत्राप्तवाक्यादिना पूर्वदिने भक्ताश्लेषनिश्चयस्तत्रावाहनप्रसङ्गः। न च निमित्तस्य स्वरूपसतो हेतुत्वेन तत्रापि न तद्नुष्ठानमिति' वाच्यं , तथा सति क्षयाहनिमित्तकश्राद्धादौ पूर्वदिने क्षयाहाभावात् तदङ्गनिरामिषभोजनाद्यकरणापत्तेरिति चेत् , न; यत्र पूर्व दिने भक्ताश्लेषनिश्चयः, तत्र पूर्वदिने देवतावाहनस्येष्टत्वात् / . प्रकारान्तरेणापि पूर्वदिने देवतावाहनाननुष्ठानमुपपादयति 'अपि चेति / 'तदङ्गानुष्ठान' तदीयवैदिकाङ्गस्य देवतावाहनस्यानुष्ठानम् , प्रधानकर्त्तव्यतानिश्चयस्य वैदिकाङ्गे निष्कम्पं प्रवर्तकत्वात् , 'कर्तव्यमिति निश्चित्य' इत्यादिस्मृतेरिति भावः / 'तन्निश्चयः' इज्याकर्तव्यतानिश्चयः / न चैवं क्षयाहनिमित्तकश्राद्धादावप्यशौचादिसन्देहेन कर्त्तव्यतासन्देहात् पूर्वदिने तदङ्गनिरामिषभोजनाद्यकरणापत्तिरिति वाच्यं, तत्रापि तर्कादिना मानसकर्त्तव्यतानिश्चयात् / अन्यथा न निष्कम्पं क्रियत एव / यद्वा सकलशिष्टाचारान्यथानुपपत्त्या तत्र उत्कटकोटिककर्त्तव्यतासंशयस्यैव प्रवर्तकत्वं, तदतिरिक्तस्थले च तन्निश्चयो हेतुरिति / वस्तुतस्तु इदमभ्युपगमवादेन; प्रधानकर्त्तव्यतानिश्चयस्य वैदिकाङ्गप्रवृत्तौ तदङ्गफले वा कारणत्वे मानाभावात् / अतः प्रथमपक्षमेवोपसंहरति 'अत' इति / 'प्रधाने' स्फ्याश्लेषेज्यायां , यः 'अधिकारः' निष्कम्पं प्रवर्तकः स्फ्याश्लेषनिमित्तनिश्चयः, तस्य पूर्वदिनेऽभावाद् न तदीयवैदिकाङ्गे देवतावाहने 'अधिकारः' निष्कम्पं प्रवर्तक इत्यर्थः।. ___ यद्वा अधिक्रियतेऽनेन इत्यधिकारः कर्त्तव्यतानिश्चयः, तेन प्रधाने कर्त्तव्यतानिश्चयाभावाद् नाङ्ग देवतावाहने 'अधिकारः' निष्कम्पं प्रवर्तक इत्यर्थः / तथा च चरमपक्षस्यैवायमुपसंहार इति ध्येयम् / 1. तादृशानुष्ठानमिति घ० / 2. कर्तव्यत्वानिश्चये निष्कम्पं क्रियत एवेति नेत्यर्थः /

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88